चतुस्त्रिꣳशत् तन्तवो ये वितत्निरे य ऽ इमं यज्ञꣳ स्वधया ददन्ते । तेषां छिन्नꣳ सम् व् एतद् दधामि स्वाहा घर्मो ऽ अप्य् एतु देवान्
यज्ञस्य दोहो विततः पुरुत्रा सो ऽ अष्टधा दिवम् अन्वा ततान । स यज्ञ धुक्ष्व महि मे प्रजयाꣳ रायस्पोषं विश्वम् आयुर् अशीय स्वाहा
आ पवस्व हिरण्यवद् अश्ववत् सोम वीरवत् । वाजं गोमन्तम् आ भर स्वाहा
देव सवितः प्र सुव यज्ञं प्र सुव यज्ञपतिं भगाय । दिव्यो गन्धर्वः केतपूः केतं नः पुनातु वाचस्पतिर् वाजं नः स्वदतु स्वाहा
ध्रुवसदं त्वा नृषदं मनःसदम् । उपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णामि । एष ते योनिर् इन्द्राय त्वा जुष्टतमम् । अप्सुषदं त्वा घृतसदं व्योमसदम् । उपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णामि । एष ते योनिर् इन्द्राय त्वा जुष्टतमम् । पृथिवीसदं त्वाऽन्तरिक्षसदं दिविसदं देवसदं नाकसदम् । उपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णामि । एष ते योनिर् इन्द्राय त्वा जुष्टतमम्
अपाꣳ रसम् उद्वयसꣳ सूर्ये सन्तꣳ समाहितम् । अपाꣳ रसस्य यो रसस् तं वो गृह्णाम्य् उत्तमम् । उपयामगृहीतो सीन्द्राय त्वा जुष्टं गृह्णामि । एष ते योनिर् इन्द्राय त्वा जुष्टतमम्
ग्रहा ऽ ऊर्जाहुतयो व्यन्तो विप्राय मतिम् । तेषां विशिप्रियाणां वो ऽ हम् इषमूर्जꣳ सम् अग्रभम् । उपयामगृहीतो ऽसीन्द्राय त्वा जुष्टं गृह्णामि । एष ते योनिर् इन्द्राय त्वा जुष्टतमम् । सम्पृचौ स्थः सं मा भद्रेण पृङ्क्तम् । विपृचौ स्थो वि मा पाप्मना पृङ्क्तम्
इन्द्रस्य वज्रो ऽसि वाजसास् त्वयाऽयम् वाजꣳ सेत् । वाजस्य नु प्रसवे मातरं महीम् अदितिं नाम वचसा करामहे । यस्याम् इदं विश्वं भुवनम् आविवेश तस्यां नो देवः सविता धर्म साविषत्
अप्स्व् अन्तर् अमृतम् अप्सु भेषजम् अपाम् उत प्रशस्तिष्व् अश्वा भवत वाजिनः । देवीर् आपो यो व ऽ ऊर्मिः प्रतूर्तिः ककुन्मान् वाजसास् तेनायं वाजꣳ सेत्
वातो वा मनो वा गन्धर्वाः सप्तविꣳशतिः । ते ऽ अग्रेऽ श्वम् अयुञ्जꣳस् ते ऽ अस्मिन् जवम् आदधुः
वातरꣳहा भव वाजिन् युज्यमान ऽ इन्द्रस्येव दक्षिणः श्रियैधि । युञ्जन्तु त्वा मरुतो विश्ववेदस ऽ आ ते त्वष्टा पत्सु जवं दधातु
जवो यस् ते वाजिन् निहितो गुहा यः श्येने परीत्तो ऽ अचरच् च वाते । तेन नो वाजिन् बलवान् बलेन वाजजिच् च भव समने च पारयिष्णुः । वाजिनो वाजजितो वाजꣳ सरिष्यन्तो बृहस्पतेर् भागम् अव जिघ्रत
देवस्याहꣳ सवितुः सवे सत्यसवसो बृहस्पतेर् उत्तमं नाकꣳ रुहेयम् । देवस्याहꣳ सवितुः सवे सत्यसवस इन्द्रस्योत्तमं नाकꣳ रुहेयम् । देवस्याहꣳ सवितुः सवे सत्यप्रसवसो बृहस्पतेर् उत्तमं नाकम् अरुहम् । देवस्याहꣳ सवितुः सवे सत्यप्रसवस ऽ इन्द्रस्योत्तमं नाकम् अरुहम्
बृहस्पते वाजं जय बृहस्पतये वाचं वदत बृहस्पतिं वाजं जापयत । इन्द्र वाजं जयेन्द्राय वाचं वदतेन्द्रं वाजं जापयत
एषा वः सा सत्या संवाग् अभूद् यया बृहस्पतिं वाजम् अजीजपताजीजपत बृहस्पतिं वाजं वनस्पतयो वि मुच्यध्वम् । एषा वः सा सत्या संवाग् अभूद् ययेन्द्रं वाजम् अजीजपताजीजपतेन्द्रं वाजं वनस्पतयो वि मुच्यध्वम्
देवस्याहꣳ सवितुः सवे सत्यप्रसवसो बृहस्पतेर् वाजजितो वाजं जेषम् । वाजिनो वाजजितोऽध्वन स्कभ्नुवन्तो योजना मिमानाः काष्ठां गच्छत
एष स्य वाजी क्षिपणिं तुरण्यति ग्रीवायां बद्धो ऽ अपिकक्ष आसनि । क्रतुं दधिक्रा ऽ अनु सꣳसनिष्यदत् पथाम् अङ्काꣳस्य् अन्व् आपनीफणत् स्वाहा
उत स्मास्य द्रवतस् तुरणयतः पर्णं न वेर् अनु वाति प्रगर्धिनः । श्येनस्येव ध्रजतो ऽ अङ्कसं परि दधिक्राव्णः स होर्जा तरित्रः स्वाहा
शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः । जम्भयन्तो हिं वृकꣳ रक्षासि सनेम्य् अस्मद् युयवन्न् अमीवाः
ते नो ऽ अर्वन्तो हवनश्रुतो हवं विश्वे शृण्वन्तु वाजिनो मितद्रवः । सहस्रसा मेधसाता सनिष्यवो महो ये धनꣳ समिथेषु जभ्रिरे
वाजे-वाजे ऽवत वाजिनो नो धनेषु विप्रा ऽ अमृता ऽ ऋतज्ञाः । अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर् देवयानैः
आ मा वाजस्य प्रसवो जगम्याद् एमे द्यावापृथिवी विश्वरूपे । आ मा गन्तां पितरा मातरा चा मा सोमो ऽ अमृतत्वेन गम्यात् । वाजिनो वाजजितो वाजꣳ ससृवाꣳसो बृहस्पतेर् भागम् अव जिघ्रत निमृजानाः
आपये स्वाहा । स्वापये स्वाहा । ऽअपिजाय स्वाहा । क्रतवे स्वाहा । वसवे स्वाहा । ऽअहर्पतये स्वाहा । ऽअह्ने मुग्धाय स्वाहा । मुग्धाय वैनꣳशिनाय स्वाहा । विनꣳशिन ऽ आन्त्यायनाय स्वाहा । ऽऽअन्त्याय भौवनाय स्वाहा । भुवनस्य पतये स्वाहा । ऽअधिपतये स्वाहा
आयुर् यज्ञेन कल्पताम् । प्राणो यज्ञेन कल्पताम् । चक्षुर् यज्ञेन कल्पताम् । श्रोत्रं यज्ञेन कल्पताम् । पृष्ठं यज्ञेन कल्पताम् । यज्ञो यज्ञेन कल्पताम् । प्रजापतेः प्रजा ऽ अभूम । स्वर्देवा ऽ अगन्म । अमृता ऽ अभूम
अस्मे वो ऽ अस्त्व् इन्द्रियम् अस्मे नृम्णम् उत क्रतुर् अस्मे वर्चाꣳसि सन्तु वः । नमो मात्रे पृथिव्यै नमो मात्रे पृथिव्यै । ऽइयं ते राट् । यन्तासि यमनो ध्रुवो ऽसि धरुणः कृष्यै त्वा क्षेमाय त्वा रय्यै त्वा पोषाय त्वा
वाजस्येमं प्रसवः सुषुवे ऽग्रे सोमꣳ राजानम् ओषधीष्व् अप्सु । ता ऽ अस्मभ्यं मधुमतीर् भवन्तु वयꣳ राष्ट्रे जागृयाम पुरोहिताः स्वाहा
वाजस्येमां प्रसवः शिश्रिये दिवम् इमा च विश्वा भुवनानि सम्राट् । अदित्सन्तं दापयति प्रजानन् स नो रयिꣳ सर्ववीरं नि यच्छतु स्वाहा
वाजस्य नु प्रसव आबभूवेमा च विश्वा भुवनानि सर्वतः । सनेमि राजा परियाति विद्वान् प्रजां पुष्टिं वर्धयमानो ऽ अस्मे स्वाहा
सोमꣳ राजानमवसेऽग्निमन्वारभामहे। आदित्यान् विष्णुꣳ सूर्यं ब्रह्माणं च बृहस्पतिꣳ स्वाहा
अर्यमणं बृहस्पतिम् इन्द्रं दानाय चोदय । वाचं विष्णुꣳ सरस्वती सवितारं च वाजिनꣳ स्वाहा