उद् उ त्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् । उपयामगृहीतो ऽसि सूर्याय त्वा भ्राजाय । एष ते योनिः सूर्याय त्वा भ्राजाय । (सूर्य भ्राजिष्ठ भ्राजिष्ठस् त्वं देवेष्व् असि भ्राजिष्ठो ऽहं मनुष्येषु भूयासम् )॥ ?
आजिघ्रकलशं मह्यात्वाविशन्त्विन्दवः। पुनरूर्जा निवर्त्तस्व सा नः सहस्रं धुक्ष्वोरुधारा पयस्वती पुनर् माविशताद् रयिः
इडे रन्ते हव्ये काम्ये चन्द्रे ज्योते ऽदिते सरस्वति महि विश्रुति । एता ते ऽ अघ्न्ये नामानि देवेभ्यो मा सुकृतं ब्रूतात्
वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः । यो ऽ अस्माँ२ ऽ अभिदासत्य् अधरं गमया तमः । उपयामगृहीतो ऽसीन्द्राय त्वा विमृधे । ऽ एष ते योनिर् इन्द्राय त्वा विमृधे
वाचस् पतिं विश्वकर्माणमूतये मनोजुवं वाजे ऽ अद्या हुवेम । स नो विश्वानि हवनानि जोषद् विश्वशम्भूर् अवसे साधुकर्मा । उपयामगृहीतो ऽसीन्द्राय त्वा विश्वकर्मणे । ऽ एष ते योनिर् इन्द्राय त्वा विश्वकर्मणे
विश्वकर्मन् हविषा वर्धनेन त्रातारम् इन्द्रम् अकृणोर् अवध्यम् । तस्मै विशः समनमन्त पूर्वीर् अयम् उग्रो विहव्यो यथासत् । उपयामगृहीतो ऽसीन्द्राय त्वा विश्वकर्मणे । ऽ एष ते योनिर् इन्द्राय त्वा विश्वकर्मणे
उपयामगृहीतो ऽस्य् अग्नये त्वा गायत्रच्छन्दसं गृह्णामि । इन्द्राय त्वा त्रिष्टुप्छन्दसं गृह्णामि । विश्वेभ्यस् त्वा देवेभ्यो जगच्छन्दसं गृह्णामि । अनुष्टुप् ते ऽभिगरः
व्रेशीनां त्वा पत्मन्न् आ धूनोमि कुकूननानां त्वा पत्मन्न् आ धूनोमि भन्दनानां त्वा पत्मन्न् आ धूनोमि मदिन्तमानां त्वा पत्मन्न् आ धूनोमि मधुन्तमानां त्वा पत्मन्न् आ धूनोमि शुक्रं त्वा शुक्र ऽ आ धूनोम्य् अह्नो रूपे सूर्यस्य रश्मिषु
ककुभꣳ रूपं वृषभस्य रोचते बृहच् छुक्रः शुक्रस्य पुरोगाः सोमः सोमस्य पुरोगाः । यत् ते सोमादाभ्यं नाम जागृवि तस्मै त्वा गृह्णामि तस्मै ते सोम सोमाय स्वाहा
उशिक् त्वं देव सोमाग्नेः प्रियं पाथो ऽपीहि । वशी त्वं देव सोमेन्द्रस्य प्रियं पाथो ऽपीहि । अस्मत्सखा त्वं देव सोम विश्वेषां देवानां प्रियं पाथो ऽपीहि
इह रतिर् इह रमध्वम् इह धृतिर् इह स्वधृतिः स्वाहा । उपसृजन् धरुणं मात्रे धरुणो मातरं धयन् । रायस्पोषम् अस्मासु दीधरत् स्वाहा
सत्रस्य ऽ ऋद्धिर् अस्य् अगन्म ज्योतिर् अमृता ऽ अभूम दिवं पृथिव्या ऽ अध्य् आरुहामाविदाम देवान्त् स्वर् ज्योतिः
युवं तम् इन्द्रापर्वता पुरोयुधा यो नः पृतन्याद् अप तं-तम् इद् धतं वज्रेण तं-तम् इद् धतम् । दूरे चत्ताय छन्त्सद् गहनं यद् इनक्षत् । अस्माकꣳ शत्रून् परि शूर विश्वतो दर्मा दर्षीष्ट विश्वतः । भूर् भुवः स्वः सुप्रजाः प्रजाभिः स्याम सुवीरा वीरैः सुपोषाः पोषैः
परमेष्ठ्य् अभिधीतः । प्रजापतिर् वाचि व्याहृतायाम् । अन्धो ऽ अच्छेतः । सविता सन्याम् । विश्वकर्मा दीक्षायाम् । पूषा सोमक्रयण्याम्
इन्द्रश् च मरुतश् च क्रयायोपोत्थितः । ऽ असुरः पण्यमानः । मित्रः क्रीतः । विष्णुः शिपिविष्ट ऽ ऊराव् आसन्नः । विष्णुर् नरन्धिषः प्रोह्यमाणः
सोम ऽ आगतः । वरुण ऽ आसन्द्याम् आसन्नः । ऽ अग्निर् आग्नीध्रे । ऽ इन्द्रो हविर्धाने । ऽ अथर्वोपावह्रियमाणः
विश्वे देवा ऽ अꣳशुषु न्युप्तः । विष्णुर् आप्रीतपा ऽ आप्याय्यमानः । यमः सूयमानः । विष्णुः संभ्रियमाणः । वायुः पूयमानः । शुक्रः पूतः । शुक्रं क्षीरश्रीः । मन्थी सक्तुश्रीः
विश्वे देवाश् चमसेषून्नीतः । ऽ असुर् होमायोद्यतः । रुद्रो हूयमानः । वातो ऽभ्यावृत्तः । नृचक्षाः प्रतिख्यातः । भक्षो भक्ष्यमाणः । पितरो नाराशꣳसाः सन्नः
सिन्धुर् अवभृथायोद्यतः । समुद्रो ऽभ्यवह्रियमाणः । सलिलः प्रप्लुतः । ययोर् ओजसा स्कभिता रजाꣳसि वीर्येभिर् वीरतमा शविष्ठा । या पत्येते ऽ अप्रतीता सहोभिर् विष्णू ऽ अगन् वरुणा पूर्वहूतौ
देवान् दिवम् अगन् यज्ञस् ततो मा द्रविणम् अष्टु मनुष्यान् अन्तरिक्षम् अगन् यज्ञस् ततो मा द्रविणम् अष्टु पितॄन् पृथिवीम् अगन् यज्ञस् ततो मा द्रविणम् अष्टु यं कं च लोकम् अगन् यज्ञस् ततो मे भद्रं अभूत्
चतुस्त्रिꣳशत् तन्तवो ये वितत्निरे य ऽ इमं यज्ञꣳ स्वधया ददन्ते । तेषां छिन्नꣳ सम् व् एतद् दधामि स्वाहा घर्मो ऽ अप्य् एतु देवान्
यज्ञस्य दोहो विततः पुरुत्रा सो ऽ अष्टधा दिवम् अन्वा ततान । स यज्ञ धुक्ष्व महि मे प्रजयाꣳ रायस्पोषं विश्वम् आयुर् अशीय स्वाहा
आ पवस्व हिरण्यवद् अश्ववत् सोम वीरवत् । वाजं गोमन्तम् आ भर स्वाहा
देव सवितः प्र सुव यज्ञं प्र सुव यज्ञपतिं भगाय । दिव्यो गन्धर्वः केतपूः केतं नः पुनातु वाचस्पतिर् वाजं नः स्वदतु स्वाहा
ध्रुवसदं त्वा नृषदं मनःसदम् । उपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णामि । एष ते योनिर् इन्द्राय त्वा जुष्टतमम् । अप्सुषदं त्वा घृतसदं व्योमसदम् । उपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णामि । एष ते योनिर् इन्द्राय त्वा जुष्टतमम् । पृथिवीसदं त्वाऽन्तरिक्षसदं दिविसदं देवसदं नाकसदम् । उपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णामि । एष ते योनिर् इन्द्राय त्वा जुष्टतमम्
अपाꣳ रसम् उद्वयसꣳ सूर्ये सन्तꣳ समाहितम् । अपाꣳ रसस्य यो रसस् तं वो गृह्णाम्य् उत्तमम् । उपयामगृहीतो सीन्द्राय त्वा जुष्टं गृह्णामि । एष ते योनिर् इन्द्राय त्वा जुष्टतमम्
ग्रहा ऽ ऊर्जाहुतयो व्यन्तो विप्राय मतिम् । तेषां विशिप्रियाणां वो ऽ हम् इषमूर्जꣳ सम् अग्रभम् । उपयामगृहीतो ऽसीन्द्राय त्वा जुष्टं गृह्णामि । एष ते योनिर् इन्द्राय त्वा जुष्टतमम् । सम्पृचौ स्थः सं मा भद्रेण पृङ्क्तम् । विपृचौ स्थो वि मा पाप्मना पृङ्क्तम्
इन्द्रस्य वज्रो ऽसि वाजसास् त्वयाऽयम् वाजꣳ सेत् । वाजस्य नु प्रसवे मातरं महीम् अदितिं नाम वचसा करामहे । यस्याम् इदं विश्वं भुवनम् आविवेश तस्यां नो देवः सविता धर्म साविषत्
अप्स्व् अन्तर् अमृतम् अप्सु भेषजम् अपाम् उत प्रशस्तिष्व् अश्वा भवत वाजिनः । देवीर् आपो यो व ऽ ऊर्मिः प्रतूर्तिः ककुन्मान् वाजसास् तेनायं वाजꣳ सेत्
वातो वा मनो वा गन्धर्वाः सप्तविꣳशतिः । ते ऽ अग्रेऽ श्वम् अयुञ्जꣳस् ते ऽ अस्मिन् जवम् आदधुः