देवा गातुविदो गातुं वित्त्वा गातुम् इत । मनसस्पत ऽ इमं देव यज्ञꣳ स्वाहा वाते धाः
यज्ञ यज्ञं गच्छ यज्ञपतिं गच्छ स्वां योनिं गच्छ स्वाहा । एष ते यज्ञो यज्ञपते सहसूक्तवाकः सर्ववीरस् तज् जुषस्व स्वाहा
माहिर् भूर् मा पृदाकुः । उरुꣳ हि राजा वरुणश् चकार सूर्याय पन्थाम् अन्वेतवा ऽ उ । अपदे पादा प्रतिधातवे ऽकर् उतापवक्ता हृदयाविधश् चित् । नमो वरुणायाभिष्ठितो वरुणस्य पाशः
अग्नेर् अनीकम् अप ऽ आ विवेशापां नपात् प्रतिरक्षन्न् असुर्यम् । दमे-दमे समिधं यक्ष्य् अग्ने प्रति ते जिह्वा घृतम् उच् चरण्यत् स्वाहा
समुद्रे ते हृदयम् अप्स्व् अन्तः सं त्वा विशन्त्व् ओषधीर् उतापः । यज्ञस्य त्वा यज्ञपते सूक्तोक्तौ नमोवाके विधेम यत् स्वाहा
देवीर् आप ऽ एष वो गर्भस् तꣳ सुप्रीतꣳ सुभृतं बिभृत । देव सोमैष ते लोकस् तस्मिञ् छं च वक्ष्व परि च वक्ष्व
अवभृथ निचुम्पुण निचेरुर् असि निचुम्पुणः । अव देवैर् देवकृतम् एनो ऽयासिषम् अव मर्त्यैर् मर्त्यकृतं पुरुराव्णो देव रिषस् पाहि । देवाना समिद् असि
एजतु दशमास्यो गर्भो जरायुणा सह । यथायं वायुर् एजति यथा समुद्र ऽ एजति । एवायं दशमास्यो ऽ अस्रज् जरायुणा सह
यस्यै ते यज्ञियो गर्भो यस्यै योनिर् हिरण्ययी । अङ्गान्य् अह्रुता यस्य तं मात्रा सम् अजीगमꣳ स्वाहा
पुरुदस्मो विषुरूप ऽ इन्दुर् अन्तर् महिमानम् आनञ्ज धीरः । एकपदीं द्विपदीं त्रिपदीं चतुष्पदीम् अष्टापदीं भुवनानु प्रथन्ता स्वाहा
मरुतो यस्य हि क्षये पाथा दिवो विमहसः । स सुगोपातमो जनः
मही द्यौः पृथिवी च न ऽ इमं यज्ञं मिमिक्षताम् । पिपृतां नो भरीमभिः
आ तिष्ठ वृत्रहन् रथं युक्ता ते ब्रह्मणा हरी । अर्वाचीनꣳ सु ते मनो ग्रावा कृणोतु वग्नुना । उपयामगृहीतो ऽसीन्द्राय त्वा षोडशिने । ऽ एष ते योनिर् इन्द्राय त्वा षोडशिने
युक्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा । अथा न ऽ इन्द्र सोमपा गिराम् उपश्रुतिं चर । उपयामगृहीतो ऽसीन्द्राय त्वा षोडशिने । ऽ एष ते योनिर् इन्द्राय त्वा षोडशिने
इन्द्रम् इद् धरी वहतो ऽप्रतिधृष्टशवसम् । ऋषीणां च स्तुतीर् उप यज्ञं च मानुषाणाम् । उपयामगृहीतो ऽसीन्द्राय त्वा षोडशिने । ऽ एष ते योनिर् इन्द्राय त्वा षोडशिने
यस्मान् न जातः परो ऽ अन्यो ऽ अस्ति य ऽ आविवेश भुवनानि विश्वा । प्रजापतिः प्रजया सꣳरराणस् त्रीणि ज्योतीषि सचते स षोडशी
इन्द्रश् च सम्राड् वरुणश् च राजा तौ ते भक्षं चक्रतुर् अग्र् ऽ एतम् । तयोर् अहम् अनु भक्षं भक्षयामि वाग् देवी जुषाणा सोमस्य तृप्यतु । सह प्राणेन स्वाहा
अग्ने पवस्व स्वपा ऽ अस्मे वर्चः सुवीर्यम् । दधद् रयिं मयि पोषम् । उपयामगृहीतो ऽस्य् अग्नये त्वा वर्चसे । ऽ एष ते योनिर् अग्नये त्वा वर्चसे । अग्ने वर्चस्विन् वर्चस्वाꣳस् त्वं देवेष्व् असि वर्चस्वान् अहं मनुष्येषु भूयासम्
उत्तिष्ठन्न् ओजसा सह पीत्वी शिप्रे ऽ अवेपयः । सोमम् इन्द्र चमू सुतम् । उपयामगृहीतो ऽसीन्द्राय त्वौजसे । ऽ एष ते योनिर् इन्द्राय त्वौजसे । इन्द्रौजिष्ठौजिष्ठस् त्वं देवेष्व् अस्य् ओजिष्ठो ऽहं मनुष्येषु भूयासम्
अदृश्रम् अस्य केतवो वि रश्मयो जनाꣳ ऽ अनु । भ्राजन्तो अग्नयो यथा । उपयामगृहीतो ऽसि सूर्याय त्वा भ्राजाय । एष ते योनिः सूर्याय त्वा भ्राजाय । सूर्य भ्राजिष्ठ भ्राजिष्ठस् त्वं देवेष्व् असि भ्राजिष्ठो ऽहं मनुष्येषु भूयासम्
उद् उ त्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् । उपयामगृहीतो ऽसि सूर्याय त्वा भ्राजाय । एष ते योनिः सूर्याय त्वा भ्राजाय । (सूर्य भ्राजिष्ठ भ्राजिष्ठस् त्वं देवेष्व् असि भ्राजिष्ठो ऽहं मनुष्येषु भूयासम् )॥ ?
आजिघ्रकलशं मह्यात्वाविशन्त्विन्दवः। पुनरूर्जा निवर्त्तस्व सा नः सहस्रं धुक्ष्वोरुधारा पयस्वती पुनर् माविशताद् रयिः
इडे रन्ते हव्ये काम्ये चन्द्रे ज्योते ऽदिते सरस्वति महि विश्रुति । एता ते ऽ अघ्न्ये नामानि देवेभ्यो मा सुकृतं ब्रूतात्
वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः । यो ऽ अस्माँ२ ऽ अभिदासत्य् अधरं गमया तमः । उपयामगृहीतो ऽसीन्द्राय त्वा विमृधे । ऽ एष ते योनिर् इन्द्राय त्वा विमृधे
वाचस् पतिं विश्वकर्माणमूतये मनोजुवं वाजे ऽ अद्या हुवेम । स नो विश्वानि हवनानि जोषद् विश्वशम्भूर् अवसे साधुकर्मा । उपयामगृहीतो ऽसीन्द्राय त्वा विश्वकर्मणे । ऽ एष ते योनिर् इन्द्राय त्वा विश्वकर्मणे
विश्वकर्मन् हविषा वर्धनेन त्रातारम् इन्द्रम् अकृणोर् अवध्यम् । तस्मै विशः समनमन्त पूर्वीर् अयम् उग्रो विहव्यो यथासत् । उपयामगृहीतो ऽसीन्द्राय त्वा विश्वकर्मणे । ऽ एष ते योनिर् इन्द्राय त्वा विश्वकर्मणे
उपयामगृहीतो ऽस्य् अग्नये त्वा गायत्रच्छन्दसं गृह्णामि । इन्द्राय त्वा त्रिष्टुप्छन्दसं गृह्णामि । विश्वेभ्यस् त्वा देवेभ्यो जगच्छन्दसं गृह्णामि । अनुष्टुप् ते ऽभिगरः
व्रेशीनां त्वा पत्मन्न् आ धूनोमि कुकूननानां त्वा पत्मन्न् आ धूनोमि भन्दनानां त्वा पत्मन्न् आ धूनोमि मदिन्तमानां त्वा पत्मन्न् आ धूनोमि मधुन्तमानां त्वा पत्मन्न् आ धूनोमि शुक्रं त्वा शुक्र ऽ आ धूनोम्य् अह्नो रूपे सूर्यस्य रश्मिषु
ककुभꣳ रूपं वृषभस्य रोचते बृहच् छुक्रः शुक्रस्य पुरोगाः सोमः सोमस्य पुरोगाः । यत् ते सोमादाभ्यं नाम जागृवि तस्मै त्वा गृह्णामि तस्मै ते सोम सोमाय स्वाहा
उशिक् त्वं देव सोमाग्नेः प्रियं पाथो ऽपीहि । वशी त्वं देव सोमेन्द्रस्य प्रियं पाथो ऽपीहि । अस्मत्सखा त्वं देव सोम विश्वेषां देवानां प्रियं पाथो ऽपीहि