उपयामगृहीतो ऽसि । आदित्येभ्यस् त्वा । विष्ण ऽ उरुगायैष ते सोमस् तꣳ रक्षस्व मा त्वा दभन्
कदा चन स्तरीर् असि नेन्द्र सश्चसि दाशुषे । उपोपेन् नु मघवन् भूय ऽ इन् नु ते दानं देवस्य पृच्यते ऽ । आदित्येभ्यस् त्वा
कदा चन प्र युच्छस्य् उभे नि पासि जन्मनी । तुरीयादित्य सवनं त ऽ इन्द्रियम् आ तस्थाव् अमृतं दिवि । आदित्येभ्यस् त्वा
यज्ञो देवानां प्रत्य् एति सुम्नम् आदित्यासो भवता मृडयन्तः । आ वोऽर्वाची सुमतिर् ववृत्याद् अꣳहोश् चिद् या वरिवोवित्तरासत् । आदित्येभ्यस् त्वा
विवस्वन्न् आदित्यैष ते सोमपीथस् तस्मिन् मत्स्व । श्रद् अस्मै नरो वचसे दधातन यद् आशीर्दा दम्पती वामम् अश्नुतः । पुमान् पुत्रो जायते विन्दते वस्व् अधा विश्वाहार् अप ऽ एधते गृहे
वामम् अद्य सवितर् वामम् उ श्वो दिवे-दिवे वामम् अस्मभ्यꣳ सावीः । वामस्य हि क्षयस्य देव भूरेर् अया धिया वामभाजः स्याम
उपयामगृहीतोऽसि सावित्रोऽसि चनोधाश् चनोधा ऽ असि चनो मयि धेहि । जिन्व यज्ञं जिन्व यज्ञपतिं भगाय देवाय त्वा सवित्रे
उपयामगृहीतोऽसि सुशर्मासि सुप्रतिष्ठानो बृहदुक्षाय नमः । विश्वेभ्यस् त्वा देवेभ्यः ऽ। एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः
उपयामगृहीतो ऽसि बृहस्पतिसुतस्य देव सोम त ऽ इन्दोर् इन्द्रियावतं पत्नीवतो ग्रहाँ२ ऽ ऋध्यासम् । अहं परस्ताद् अहम् अवस्ताद् यद् अन्तरिक्षं तद् उ मे पिताभूत् । अहꣳ सूर्यम् उभयतो ददर्शाहं देवानां परमं गुहा यत्
अग्ना3इ पत्नीवन्त् सजूर् देवेन त्वष्ट्रा सोमं पिब स्वाहा । प्रजापतिर् वृषासि रेतोधा रेतो मयि धेहि प्रजापतेस् त वृष्णो रेतोधसो रेतोधाम् अशीय
उपयामगृहीतो ऽसि हरिर् असि हारियोजनो हरिभ्यां त्वा । हर्योर् धाना स्थ सहसोमा ऽ इन्द्राय
यस् ते ऽ अश्वसनिर् भक्षो यो गोसनिस् तस्य त ऽ इष्टयजुष स्तुतसोमस्य शस्तोक्थस्योपहूतस्योपहूतो भक्षयामि
देवकृतस्यैनसो ऽवयजनम् असि । मनुष्यकृतस्यैनसो ऽवयजनम् असि । पितृकृतस्यैनसो ऽवयजनम् असि । आत्मकृतस्यैनसो ऽवयजनम् असि । एनसऽ-एनसो ऽवयजनम् असि । यच् चाहम् एनो विद्वाꣳश् चकार यच् चाविद्वाꣳस् तस्य सर्वस्यैनसो ऽवयजनम् असि
सं वर्चसा पयसा सं तनूभिर् अगन्महि मनसा सꣳ शिवेन । त्वष्टा सुदत्रो वि दधातु रायो ऽनु मार्ष्टु तन्वो यद् विलिष्टम्
सम् इन्द्र णो मनसा नेषि गोभिः सꣳ सूरिभिर् मघवन्त् सꣳ स्वस्त्या । सं ब्रह्मणा देवकृतं यद् अस्ति सं देवाना सुमतौ यज्ञियाना स्वाहा
सं वर्चसा पयसा सं तनूभिर् अगन्महि मनसा सꣳ शिवेन । त्वष्टा सुदत्रो विदधातु रायो ऽनु मार्ष्टु तन्वो यद् विलिष्टम्
धाता रातिः सवितेदं जुषन्तां प्रजापतिर् निधिपा देवो ऽ अग्निः । त्वष्टा विष्णुः प्रजया सꣳरराणा यजमानाय द्रविणं दधात स्वाहा
सुगा वो देवाः सदना ऽ अकर्म य ऽ आजग्मेदꣳ सवनं जुषाणाः । भरमाणा वहमाना हवीꣳष्य् अस्मे धत्त वसवो वसूनि स्वाहा
याँ२ ऽ आवह ऽ उशतो देव देवाँस् तान् प्रेरय स्वे ऽ अग्ने सधस्थे । जक्षिवासः पपिवासश् च विश्वे ऽसुं घर्मꣳ स्वरातिष्ठतानु स्वाहा
वयꣳ हि त्वा प्रयति ऽ यज्ञे अस्मिन्न् अग्ने होतारम् अवृणीमहीह । ऋधग् अया ऽ ऋधग् उताशमिष्ठाः प्रजानन् यज्ञम् उप याहि विद्वान्त् स्वाहा
देवा गातुविदो गातुं वित्त्वा गातुम् इत । मनसस्पत ऽ इमं देव यज्ञꣳ स्वाहा वाते धाः
यज्ञ यज्ञं गच्छ यज्ञपतिं गच्छ स्वां योनिं गच्छ स्वाहा । एष ते यज्ञो यज्ञपते सहसूक्तवाकः सर्ववीरस् तज् जुषस्व स्वाहा
माहिर् भूर् मा पृदाकुः । उरुꣳ हि राजा वरुणश् चकार सूर्याय पन्थाम् अन्वेतवा ऽ उ । अपदे पादा प्रतिधातवे ऽकर् उतापवक्ता हृदयाविधश् चित् । नमो वरुणायाभिष्ठितो वरुणस्य पाशः
अग्नेर् अनीकम् अप ऽ आ विवेशापां नपात् प्रतिरक्षन्न् असुर्यम् । दमे-दमे समिधं यक्ष्य् अग्ने प्रति ते जिह्वा घृतम् उच् चरण्यत् स्वाहा
समुद्रे ते हृदयम् अप्स्व् अन्तः सं त्वा विशन्त्व् ओषधीर् उतापः । यज्ञस्य त्वा यज्ञपते सूक्तोक्तौ नमोवाके विधेम यत् स्वाहा
देवीर् आप ऽ एष वो गर्भस् तꣳ सुप्रीतꣳ सुभृतं बिभृत । देव सोमैष ते लोकस् तस्मिञ् छं च वक्ष्व परि च वक्ष्व
अवभृथ निचुम्पुण निचेरुर् असि निचुम्पुणः । अव देवैर् देवकृतम् एनो ऽयासिषम् अव मर्त्यैर् मर्त्यकृतं पुरुराव्णो देव रिषस् पाहि । देवाना समिद् असि
एजतु दशमास्यो गर्भो जरायुणा सह । यथायं वायुर् एजति यथा समुद्र ऽ एजति । एवायं दशमास्यो ऽ अस्रज् जरायुणा सह
यस्यै ते यज्ञियो गर्भो यस्यै योनिर् हिरण्ययी । अङ्गान्य् अह्रुता यस्य तं मात्रा सम् अजीगमꣳ स्वाहा
पुरुदस्मो विषुरूप ऽ इन्दुर् अन्तर् महिमानम् आनञ्ज धीरः । एकपदीं द्विपदीं त्रिपदीं चतुष्पदीम् अष्टापदीं भुवनानु प्रथन्ता स्वाहा