देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् । सं वपामि । सम् आपऽओषधीभिः सम् ओषधयो रसेन । सꣳ रेवतीर् जगतीभिः पृच्यन्ताꣳ सं मधुमतीर् मधुमतीभिः पृच्यन्ताम्
जनयत्यै त्वा सं यौमि । इदम् अग्नेः । इदम् अग्नीषोमयोः । इषे त्वा । घर्मोऽसि विश्वायुः । उरुप्रथाऽ उरु प्रथस्वोरु ते यज्ञपतिः प्रथताम् । अग्निष्टे त्वचं मा हिꣳसीत् । देवस् त्वा सविता श्रपयतु वर्षिष्ठेऽधि नाके
मा भेर् मा संविक्थाः । ऽ अतमेरुर् यज्ञो ऽतमेरुर् यजमानस्य प्रजा भूयात् । त्रिताय त्वा । द्विताय त्वा । एकताय त्वा
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् । आ ददे ऽध्वरकृतं देवेभ्यः । ऽइन्द्रस्य बाहुर् असि दक्षिणः सहस्रभृष्टिः शततेजा वायुर् असि तिग्मतेजा द्विषतो वधः
पृथिवि देवयजन्य् ओषध्यास् ते मूलं मा हिꣳसिषम् । व्रजं गच्छ गोष्ठानम् । वर्षतु ते द्यौः । बधान देव सवितः परमस्यां पृथिव्याꣳ शतेन पाशैर् यो स्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अतो मा मौक्
अपाररुं पृथिव्यै देवयजनाद् वध्यासम् । व्रजं गच्छ गोष्ठानम् । वर्षतु ते द्यौः । बधान देव सवितः परमस्यां पृथिव्या शतेन पाशैर् योऽस्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अतो मा मौक् । अररो दिवं मा पप्तः । द्रप्सस् ते द्यां मा स्कन् । व्रजं गच्छ गोष्ठानम् । वर्षतु ते द्यौः । बधान देव सवितः परमस्यां पृथिव्याꣳ शतेन पाशैर् योऽस्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अतो मा मौक्
गायत्रेण त्वा छन्दसा परि गृह्णामि । त्रैष्टुभेन त्वा छन्दसा परि गृह्णामि । जागतेन त्वा छन्दसा परि गृह्णामि । सुक्ष्मा चासि शिवा चासि । स्योना चासि सुषदा चासि । ऊर्जस्वती चासि पयस्वती च
पुरा क्रूरस्य विसृपो विरप्शिन्न् उदादाय पृथिवीं जीवदानुम् । याम् ऐरयꣳश् चन्द्रमसि स्वधाभिस् ताम् उ धीरासो ऽअनुदिश्य यजन्ते । प्रोक्षणीर् आ सादय । द्विषतो वधोऽ सि
प्रत्युष्टꣳ रक्षः प्रत्युष्टा ऽअरातयः । निष्टप्तꣳ रक्षो निष्टप्ता ऽ अरातयः । अनिशितोऽ सि सपत्नक्षिद् वाजिनं त्वा वाजेध्यायै सं मार्ज्मि । प्रत्युष्टꣳ रक्षः प्रत्युष्टाऽ अरातयः । निष्टप्तꣳ रक्षो निष्टप्ताऽ अरातयः । अनिशिताऽसि सपत्नक्षिद् वाजिनीं त्वा वाजेध्यायै सं मार्ज्मि
अदित्यै रास्नासि । विष्णोर् वेष्यो सि । ऊर्जे त्वा । ऽअदब्धेन त्वा चक्षुषाव पश्यामि । अग्नेर् जिह्वासि सुहूर् देवेभ्यो धाम्ने-धाम्ने मे भव यजुषे-यजुषे
सवितुस् त्वा प्रसवऽ उत् पुनाम्य् अच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः । सवितुर् वः प्रसव ऽ उत् पुनाम्य् अच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः । तेजो ऽसि शुक्रम् अस्य् अमृतम् असि । धाम नामासि प्रियं देवानाम् अनाधृष्टं देवयजनम् असि
कृष्णोऽस्य् आखरेष्ठो ऽग्नये त्वा जुष्टं प्रोक्षामि । वेदिर् असि बर्हिषे त्वा जुष्टां प्रोक्षामि । बर्हिर् असि स्रुग्भ्यस् त्वा जुष्टं प्रोक्षामि
अदित्यै व्युन्दनम् असि । विष्णो स्तुपो ऽसि । ऊर्णम्रदसं त्वा स्तृणामि स्वासस्थां देवेभ्यः । भुवपतये स्वाहा । भुवनपतये स्वाहा । भूतानां पतये स्वाहा
गन्धर्वस् त्वा विश्वावसुः परि दधातु विश्वस्यारिष्ट्यै यजमानस्य परिधिर् अस्य् अग्निर् इड ऽīडितः । इन्द्रस्य बाहुर् असि दक्षिणो विश्वस्यारिष्ट्यै यजमानस्य परिधिर् अस्य् अग्निर् इड ऽ ईडितः । मित्रावरुणौ त्वोत्तरतः परि धत्तां ध्रुवेण धर्मणा विश्वस्यारिष्ट्यै यजमानस्य परिधिर् अस्य् अग्निर् इड ऽ ईडितः
वीतिहोत्रं त्वा कवे द्युमन्तꣳ सम् इधीमहि । अग्ने बृहन्तम् अध्वरे
समिद् असि । सूर्यस् त्वा पुरस्तात् पातु कस्याश् चिद् अभिशस्त्यै । सवितुर् बाहू स्थः । ऽ ऊर्णम्रदसं त्वा स्तृणामि स्वासस्थं देवेभ्यः । ऽ आ त्वा वसवो रुद्रा ऽ आदित्याः सदन्तु
घृताच्य् असि जुहूर् नाम्ना सेदं प्रियेण धाम्ना प्रियꣳ सद ऽ आ सीद । घृताच्य् अस्य् उपभृन् नाम्ना सेदं प्रियेण धाम्ना प्रियꣳ सद ऽ आ सीद । घृताच्य् असि ध्रुवा नाम्ना सेदं प्रियेण धाम्ना प्रियꣳ सदऽ आ सीद । प्रियेण धाम्ना प्रियꣳ सद ऽआ सीद । ध्रुवा ऽ असदन्न् ऋतस्य योनौ ता विष्णो पाहि । पाहि यज्ञं । पाहि यज्ञपतिम् । पाहि मां यज्ञन्यम्
अग्ने वाजजिद् वाजं त्वा सरिष्यन्तं वाजजितꣳ सं मार्ज्मि । नमो देवेभ्यः । स्वधा पितृभ्यः । सुयमे मे भूयास्तम्
अस्कन्नम् अद्य देवेभ्यऽ आज्यꣳ सं भ्रियासम् । अङ्घ्रिणा विष्णो मा त्वाव क्रमिषम् । वसुमतीम् अग्ने ते छायाम् उप स्थेषं विष्णो स्थानम् असि । इत ऽ इन्द्रो वीर्यम् अकृणोद् ऊर्ध्वो ध्वर ऽआस्थात्
अग्ने वेर् होत्रं वेर् दूत्यम् । अवतां त्वां द्यावापृथिवी । ऽअव त्वं द्यावापृथिवी स्विष्टकृद् देवेभ्यो इन्द्रऽ आज्येन हविषा भूत् स्वाहा । सं ज्योतिषा ज्योतिः
मयीदम् इन्द्र ऽइन्द्रियं दधात्व् अस्मान् रायो मघवानः सचन्ताम् । अस्माकꣳ सन्त्व् आशिषः सत्या नः सन्त्व् आशिषः । ऽउपहूता पृथिवी मातोप मां पृथिवी माता ह्वयताम् । अग्निर् आग्नीध्रात् स्वाहा
उपहूतो द्यौष् पितोप मां द्यौष् पिता ह्वयताम् अग्निर् आग्नीध्रात् स्वाहा । देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् । प्रति गृह्णामि । अग्नेष् ट्वास्येन प्राश्नामि
एतं ते देव सवितर् यज्ञं प्राहुर् बृहस्पतये ब्रह्मणे । तेन यज्ञम् अव तेन यज्ञपतिं तेन माम् अव
मनो जूतिर् जुषताम् आज्यस्य बृहस्पतिर् यज्ञम् इमं तनोतु । अरिष्टं यज्ञꣳ सम् इमं दधातु विश्वे देवासऽ इह मादयन्ताम् ओ3ं प्र तिष्ठ
एषा तेऽ अग्ने समित् तया वर्धस्व चा च प्यायस्व । वर्धिषीमहि च वयम् आ च प्यासिषीमहि । अग्ने वाजजिद् वाजं त्वा ससृवाꣳसं वाजजितꣳ सं मार्ज्मि
अग्नीषोमयोर् उज्जितिम् अनूज्जेषं वाजस्य मा प्रसवेन प्रोहामि । अग्नीषोमौ तम् अपनुदतां योऽस्मान् द्वेष्टि यं च वयं द्विष्मो वाजस्यैनं प्रसवेनापोहामि । इन्द्राग्न्योर् उज्जितिम् अनूज्जेषं वाजस्य मा प्रसवेन प्रोहामि । इन्द्राग्नी तम् अप नुदतां यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मो वाजस्यैनं प्रसवेनापोहामि
वसुभ्यस् त्वा । रुद्रेभ्यस् त्वा । आदित्येभ्यस् त्वा । सं जानाथां द्यावापृथिवी । मित्रावरुणौ त्वा वृष्ट्यावताम् । व्यन्तु वयो क्तꣳ रिहाणाः । मरुतां पृषतीर् गच्छ वशा पृश्निर् भूत्वा दिवं गच्छ ततो नो वृष्टिम् आ वह । चक्षुष्पा ऽअग्ने ऽसि चक्षुर् मे पाहि
यं परिधिं पर्यधत्थाऽ अग्ने देव पणिभिर् गुह्यमानः । तं तऽ एतम् अनु जोषं भराम्य् नेत् त्वद् अपचेतयातै । ऽअग्नेः प्रियं पाथोऽपीतम्
सꣳस्रवभागा स्थेषा बृहन्तः प्रस्तरेष्ठाः परिधेयाश् च देवाः । इमां वाचम् अभि विश्वे गृणन्त ऽआसद्यास्मिन् बर्हिषि मादयध्वम् । स्वाहा वाट्
घृताची स्थो धुर्यौ पातꣳ सुम्ने स्थः सुम्ने मा धत्तम् । यज्ञ नमश् च तऽ उप च यज्ञस्य शिवे सं तिष्ठस्व स्विष्टे मे संतिष्ठस्व