या ते धामान्य् उश्मसि गमध्यै यत्र गावो भूरिशृङ्गा ऽ अयासः । अत्राह तद् उरुगायस्य विष्णोः परमं पदम् अव भारि भूरि । ब्रह्मवनि त्वा क्षत्रवनि रायस्पोषवनि पर्य् ऊहामि । ब्रह्म दृꣳह क्षत्रं दृꣳहायुर् दृꣳह प्रजां दृꣳह
विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे । इन्द्रस्य युज्यः सखा
तद् विष्णोः परमं पदꣳ सदा पश्यन्ति सूरयो दिवीव चक्षुर् आततम्
परिवीर् असि परि त्वा दैवीर् विशो व्ययन्तां परीमं यजमानꣳ रायो मनुष्याणाम् । दिवः सूनुर् असि । एष ते पृथिव्यां लोक ऽ आरण्यस् ते पशुः
उपावीर् असि । उप देवान् दैवीर् विशः प्रागुर् उशिजो वह्नितमान् । देव त्वष्टर् वसु रम हव्या ते स्वदन्ताम्
रेवती रमध्वं बृहस्पते धारया वसूनि । ऋतस्य त्वा देवहविः पाशेन प्रति मुञ्चामि धर्षा मानुषः
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् । अग्नीषोमाभ्यां जुष्टं नि युनज्मि । अद्भ्यस् त्वौषधीभ्योऽनु त्वा माता मन्यताम् अनु पितानु भ्राता सगर्भ्योऽनु सखा सयूथ्यः । अग्नीषोमाभ्यां त्वा जुष्टं प्रोक्षामि
अपां पेरुर् असि । आपो देवीः स्वदन्तु स्वात्तं चित् सद् देवहविः । सं ते प्राणो वातेन गच्छताꣳ सम् अङ्गानि यजत्रैः सं यज्ञपतिर् आशिषा
घृतेनाक्तौ पशूँस् त्रायेथा । रेवति यजमाने प्रियं धा ऽ आ विश । उरोर् अन्तरिक्षात् सजूर् देवेन वातेनास्य हविषस् त्मना यज समस्य तन्वा भव । वर्षो वर्षीयसि यज्ञे यज्ञपतिं धाः । स्वाहा देवेभ्यः । देवेभ्यः स्वाहा
माहिर् भूर् मा पृदाकुः । नमस् तऽ आतानानर्वा प्रेहि । घृतस्य कुल्याऽ उपऽ ऋतस्य पथ्याऽ अनु
देवीर् आपः शुद्धा वोढ्वꣳ सुपरिविष्टा देवेषु । सुपरिविष्टा वयं परिवेष्टारो भूयास्म
वाचं ते शुन्धामि । प्राणं ते शुन्धामि । चक्षुस् ते शुन्धामि । श्रोत्रं ते शुन्धामि । नाभिं ते शुन्धामि । मेढ्रं ते शुन्धामि । पायुं ते शुन्धामि । चरित्राꣳस् ते शुन्धामि
मनस्तऽ आ प्यायताम् । वाक् तऽ आ प्यायताम् । प्राणस् तऽ आ प्यायताम् । चक्षुस्तऽ आ प्यायताम् । श्रोत्रं तऽ आ प्यायताम् । यत् ते क्रूरं यद् आस्थितं तत् त ऽआ प्यायतां निष्ट्यायतां तत् ते शुध्यतु । शम् अहोभ्यः । ओषधे त्रायस्व । स्वधिते मैनꣳ हिꣳसीः
रक्षसां भागो ऽसि । निरस्तꣳ रक्षः । ऽ इदम् अहꣳ रक्षोऽ भितिष्ठामीदम् अहꣳ रक्षोऽ व बाधऽ इदम् अहꣳ रक्षो ऽधमं तमो नयामि । घृतेन द्यावापृथिवी प्रोर्णुवाथाम् । वायो वे स्तोकानाम् । अग्निर् आज्यस्य वेतु स्वाहा । स्वाहाकृते ऽ ऊर्ध्वनभसं मारुतं गच्छतम्
इदम् आपः प्रवहतावद्यं च मलं च यत् । यच् चाभिदुद्रोहानृतं यच् च शेपे ऽ अभीरुणम् । आपो मा तस्माद् एनसः पवमानश् च मुञ्चतु
सं ते मनो मनसा सं प्राणः प्राणेन गच्छताम् । रेड् अस्य् अग्निष् ट्वा श्रीणात्व् आपस् त्वा समरिणन् वातस्य त्वा ध्राज्यै पूष्णो रꣳह्या ऽ ऊष्मणो व्यथिषत् । प्रयुतं द्वेषः
घृतं घृतपावानः पिबत वसां वसापावानः पिबतान्तरिक्षस्य हविर् असि स्वाहा । दिशः । प्रदिशः । ऽ आदिशः । विदिशः । ऽ उद्दिशः । दिग्भ्यः स्वाहा
ऐन्द्रः प्राणो ऽ अङ्गे ऽ अङ्गे नि दीध्यद् ऐन्द्र ऽ उदानो ऽ अङ्गे ऽ अङ्गे निधीतः । देव त्वष्टर् भूरि ते सꣳ-समेतु सलक्ष्मा यद् विषुरूपं भवाति । देवत्रा यन्तम् अवसे सखायो ऽनु त्वा माता पितरो मदन्तु
समुद्रं गच्छ स्वाहा । ऽ अन्तरिक्षं गच्छ स्वाहा । देवꣳ सवितारं गच्छ स्वाहा । मित्रावरुणौ गच्छ स्वाहा । ऽ अहोरात्रे गच्छ स्वाहा । छन्दाꣳसि गच्छ स्वाहा । द्यावापृथिवी गच्छ स्वाहा । यज्ञं गच्छ स्वाहा । सोमं गच्छ स्वाहा । दिव्यं नभो गच्छ स्वाहा । अग्निं वैश्वानरं गच्छ स्वाहा । मनो मे हार्दि यच्छ । दिवं ते धूमो गच्छतु स्वर् ज्योतिः पृथिवीं भस्मना पृण स्वाहा
मापो मौषधीर् हिꣳसीः । धाम्नो-धाम्नो राजꣳस् ततो वरुण नो मुञ्च । यद् आहुर् अघ्न्या ऽ इति वरुणेति शपामहे ततो वरुण नो मुञ्च । सुमित्रिया न ऽ आप ऽ ओषधयः सन्तु +दुर्मित्रियास् तस्मै सन्तु यो स्मान् द्वेष्टि यं च वयं द्विष्मः
हविष्मतीर् इमा ऽ आपो हविष्माꣳ2 ऽ आ विवासति । हविष्मान् देवो ऽ अध्वरो हविष्माꣳ2 ऽ अस्तु सूर्यः
अग्नेर्वोऽ पन्नगृहस्य सदसि सादयामि । इन्द्राग्न्योर् भागधेयी स्थ । मित्रावरुण्योर् भागधेयी स्थ । विश्वेषां देवानां भागधेयी स्थ । अमूर् या ऽ उप सूर्ये याभिर् वा सूर्यः सह । ता नो हिन्वन्त्व् अध्वरम्
हृदे त्वा मनसे त्वा दिवे त्वा सूर्याय त्वा । ऊर्ध्वम् इमम् अध्वरं दिवि देवेषु होत्रा यच्छ
सोम राजन् विश्वास् त्वं प्रजा ऽ उपाव रोह । विश्वास् त्वां प्रजा उपाव रोहन्तु । शृणोत्व् अग्निः समिधा हवं मे शृण्वन्त्व् आपो धिषणाश् च देवीः । श्रोता ग्रावाणो विदुषो न यज्ञꣳ शृणोतु देवः सविता हवं मे स्वाहा
देवीर् आपो ऽ अपां नपाद् यो व ऽ ऊर्मिर् हविष्य ऽ इन्द्रियावान् मदिन्तमः । तं देवेभ्यो देवत्रा दत्त शुक्रपेभ्यो येषां भाग स्थ स्वाहा
कार्षिर् असि । समुद्रस्य त्वाक्षित्या ऽ उन् नयामि । सम् आपो ऽ अद्भिर् अग्मत सम् ओषधीभिर् ओषधीः
यम् अग्ने पृत्सु मर्त्यम् अवा वाजेषु यं जुनाः । स यन्ता शश्वतीर् इषः स्वाहा
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् । आ ददे रावासि गभीरम् इमम् अध्वरं कृधीन्द्राय सुषूतमम् । उत्तमेन पविनोर्जस्वन्तं मधुमन्तं पयस्वन्तम् । निग्राभ्या स्थ देवश्रुतस् तर्पयत मा
मनो मे तर्पयत वाचं मे तर्पयत प्राणं मे तर्पयत चक्षुर् मे तर्पयत श्रोत्रं मे तर्पयतात्मानं मे तर्पयत प्रजां मे तर्पयत पशून् मे तर्पयत गणान् मे तर्पयत गणा मे मा वितृषन्
इन्द्राय त्वा वसुमते रुद्रवते । ऽ इन्द्राय त्वादित्यवते । ऽ इन्द्राय त्वाभिमातिघ्ने । श्येनाय त्वा सोमभृते । ऽ अग्नये त्वा रायस्पोषदे