{ईशावा.उप. काण्व1} ईशा वास्यम् इदꣳ सर्वं यत् किं च जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद् धनम्
{ईशावा.उप. काण्व2} कुर्वन्न् एवेह कर्माणि जिजीविषेच् छतꣳ समाः । एवं त्वयि नान्यथेतो ऽस्ति न कर्म लिप्यते नरे
{ईशावा.उप. काण्व3} असुर्या नाम ते लोका ऽअन्धेन तमसावृताः । ताꣳस् ते प्रेत्यापि गच्छन्ति ये के चात्महनो जनाः
{ईशावा.उप. काण्व4} अनेजद् एकं मनसो जवीयो नैनद् देवा ऽ आप्नुवन् पूर्वम् अर्शत् । तद् धावतो ऽन्यान् अत्य् एति तिष्ठत् तस्मिन्न् अपो मातरिश्वा दधाति
{ईशावा.उप. काण्व5} तद् एजति तन् नैजति तद् दूरे तद् व् अन्तिके । तद् अन्तर् अस्य सर्वस्य तद् उ सर्वस्यास्य बाह्यतः
{ईशावा.उप. काण्व6} यस् तु सर्वाणि भूतान्य् आत्मन्न् एवानुपश्यति । सर्वभूतेषु चात्मानं ततो न वि चिकित्सति
{ईशावा.उप. काण्व7} यस्मिन्त् सर्वाणि भूतान्य् आत्मैवाभूद् विजानतः । तत्र को मोहः कः शोक ऽ एकत्वम् अनुपश्यतः
{ईशावा.उप. काण्व8} स पर्य् अगाच् छुक्रम् अकायम् अव्रणम् अस्नाविरꣳ शुद्धम् अपापविद्धम् । कविर् मनीषी परिभूः स्वयंभूर् याथातथ्यतो ऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः
{ईशावा.उप. 9।काण्व12} अन्धं तमः प्र विशन्ति ये ऽसंभूतिम् उपासते । ततो भूय ऽ इव ते तमो य ऽ उ संभूत्याꣳ रताः
{ईशावा.उप. 10।काण्व13} अन्यद् एवाहुः संभवाद् अन्यद् आहुर् असंभवात् । इति शुश्रुम धीराणां ये नस् तद् विचचक्षिरे
{ईशावा.उप. 11।काण्व14} संभूतिं च विनाशं च यस् तद् वेदोभयꣳ सह । विनाशेन मृत्युं तीर्त्वा संभूत्यामृतम् अश्नुते
{ईशावा.उप. 12।काण्व9} अन्धं तमः प्र विशन्ति ये ऽविद्याम् उपासते । ततो भूय ऽ इव ते तमो य ऽ उ विद्यायाꣳ रताः
{ईशावा.उप. 13।काण्व10} अन्यद् एवाहुर् विद्याया ऽ अन्यद् आहुर् अविद्यायाः । इति शुश्रुम धीराणां ये नस् तद् विचचक्षिरे
{ईशावा.उप. 14।काण्व11} विद्यां चाविद्यां च यस् तद् वेदोभयꣳ सह । अविद्यया मृत्युं तीर्त्वा विद्ययामृतम् अश्नुते
{ईशावा.उप. 15} वायुर् अनिलम् अमृतम् अथेदं भस्मान्तꣳ शरीरम् । ओ3म् क्रतो स्मर क्लिबे स्मर कृतꣳ स्मर
{ईशावा.उप. 16।काण्व18} अग्ने नय सुपथा राये ऽ अस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्य् अस्मज् जुहुराणम् एनो भूयिष्ठां ते नम ऽ उक्तिं विधेम
{ईशावा.उप. 17।काण्व15} हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् । यो ऽसाव् आदित्ये पुरुषः सो ऽसाव् अहम् । ओ३म् खं ब्रह्म