विश्वा ऽ आशा दक्षिणसद् विश्वान् देवान् अयाड् इह । स्वाहाकृतस्य घर्मस्य मधोः पिबतम् अश्विना
दिवि धा ऽ इमं यज्ञम् इमम् यज्ञं दिवि धाः । स्वाहाग्नये यज्ञियाय शं यजुर्भ्यः
अश्विना घर्मं पातꣳ हार्द्वानम् अहर् दिवाभिर् ऊतिभिः । तन्त्रायिणो नमो द्यावापृथिवीभ्याम्
अपाताम् अश्विना घर्मम् अनु द्यावापृथिवी ऽ अमꣳसाताम् । इहैव रातयः सन्तु
इषे पिन्वस्व । ऊर्जे पिन्वस्व । ब्रह्मणे पिन्वस्व । क्षत्राय पिन्वस्व । द्यावापृथिवीभ्यां पिन्वस्व । धर्मासि सुधर्म । अमेन्य् अस्मे नृम्णानि धारय ब्रह्म धारय क्षत्रम् धारय विषं धारय
स्वाहा पूष्णे शरसे । स्वाहा ग्रावभ्यः । स्वाहा प्रतिरवेभ्यः । स्वाहा पितृभ्य ऽ ऊर्ध्वबर्हिर्भ्यो घर्मपावभ्यः । स्वाहा द्यावापृथिवीभ्याम् । स्वाहा विश्वेभ्यः देवेभ्यः
स्वाहा रुद्राय रुद्रहूतये । स्वाहा सं ज्योतिषा ज्योतिः । अहः केतुना जुषताꣳ सुज्योतिर् ज्योतिषा स्वाहा । रात्रिः केतुना जुषताꣳ सुज्योतिर् ज्योतिषा स्वाहा । मधु हुतम् इन्द्रतमे ऽ अग्नाव् अश्याम ते देव घर्म नमस् ते ऽ अस्तु मा मा हिꣳसीः
अभीमं महिमा दिवं विप्रो बभूव सप्रथाः । उत श्रवसा पृथिवीꣳ सꣳ सीदस्व महाꣳ२ऽ असि रोचस्व देववीतमः ॥ [वि धूमम् अग्ने ऽ अरुषं मियेध्य सृज प्रशस्त दर्शतम्]
या ते घर्म दिव्या शुग् या गायत्र्याꣳ हविर्धाने । सा त आ प्यायतां निष्ट्यायतां तस्यै ते स्वाहा । या ते घर्मान्तरिक्षे शुग् या त्रिष्टुभ्य् आग्नीध्रे । सा त ऽ आ प्यायतां निष्ट्यायतां तस्यै ते स्वाहा । या ते घर्म पृथिव्याꣳ शुग् या जगत्याꣳ सदस्या । सा त ऽ आ प्यायतां निष्ट्यायतां तस्यै ते स्वाहा
क्षत्रस्य त्वा परस्पाय ब्रह्मणस् तन्वं पाहि । विशस् त्वा धर्मणा वयम् अनु क्रामाम सुविताय नव्यसे
चतुःस्रक्तिर् नाभिर् ऋतस्य सप्रथाः स नो विश्वायुः सप्रथाः स नः सर्वायुः सप्रथाः । अप द्वेषो ऽ अप ह्वरो ऽन्यव्रतस्य सश्चिम
घर्मैतत् ते पुरीषं तेन वर्धस्व चा च प्यायस्व । वर्धिषीमहि च वयम् आ च प्यासिषीमहि
अचिक्रदद् वृषा हरिर् महान् मित्रो न दर्शतः । सꣳ सूर्येण दिद्युतद् उदधिर् निधिः
सुमित्रिया न ऽ आप ऽ ओषधयः सन्तु दुर्मित्रियास् तस्मै सन्तु यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः
उद् वयं तमसस् परि स्वः पश्यन्त ऽ उत्तरम् । देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम्
एधो ऽस्य् एधिषीमहि । समिद् असि तेजो ऽसि तेजो मयि धेहि
यावती द्यावापृथिवी यावच् च सप्त सिन्धवो वितस्थिरे । तावन्तम् इन्द्र ते ग्रहमूर्जा गृह्णाम्य् अक्षितं मयि गृह्णाम्य् अक्षितम्
मयि त्यद् इन्द्रियं बृहन् मयि दक्षो मयि क्रतुः । घर्मस् त्रिशुग् वि राजति विराजा ज्योतिषा सह ब्रह्मणा तेजसा सह
पयसो रेत ऽ आभृतं तस्य दोहम् अशीमह्य् उत्तराम्-उत्तराꣳ समाम् । त्विषः संवृक् क्रत्वे दक्षस्य ते सुषुम्णस्य ते सुषुम्णाग्निहुतः । इन्द्रपीतस्य प्रजापतिभक्षितस्य मधुमत ऽ उपहूत ऽ उपहूतस्य भक्षयामि
स्वाहा प्राणेभ्यः साधिपतिकेभ्यः । पृथिव्यै स्वाहा । अग्नये स्वाहा । अन्तरिक्षे स्वाहा । वायवे स्वाहा । दिवे स्वाहा । सूर्याय स्वाहा
दिग्भ्यः स्वाहा । चन्द्राय स्वाहा । नक्षत्रेभ्यः स्वाहा । अद्भ्यः स्वाहा । वरुणाय स्वाहा । नाभ्यै स्वाहा । पूताय स्वाहा
वाचे स्वाहा । प्राणाय स्वाहा । प्राणाय स्वाहा । चक्षुषे स्वाहा । चक्षुषे स्वाहा । श्रोत्राय स्वाहा । श्रोत्राय स्वाहा
मनसः कामम् आकूतिं वाचः सत्यम् अशीय । पशूनाꣳ रूपम् अन्नस्य रसो यशः श्रीः श्रयतां मयि स्वाहा ॥ 5 प्रजापतिः संभ्रियमाणः सम्राट् संभृतो वैश्वदेवः सꣳसन्नो घर्मः प्रवृक्तस् तेज ऽ उद्यत ऽ आश्विनः पयस्या नीयमाने पौष्णो विष्यन्दमाने मारुतः क्लथन् । मैत्रः शरसि संताय्यमाने वायव्यो ह्रियमाण ऽ आग्नेयो हूयमानो वाग्घुतः
सविता प्रथमे ऽहन्न् अग्निर् द्वितीये वायुस् तृतीय ऽ आदित्यश् चतुर्थे चन्द्रमाः पञ्चम ऽ ऋतुः षष्ठे मरुतः सप्तमे बृहस्पतिर् अष्टमे । मित्रो नवमे वरुणो दशम ऽ इन्द्र ऽ एकादशे विश्वे देवा द्वादशे
उग्रश् च भीमश् च ध्वान्तश् च धुनिश् च । सासह्वाꣳश् चाभियुग्वा च विक्षिपः स्वाहा ॥ 39. 8 अग्निꣳ हृदयेनाशनिꣳ हृदयाग्रेण पशुपतिं कृत्स्नहृदयेन भवं यक्ना । शर्वं मतस्नाभ्याम् ईशानं मन्युना महादेवम् अन्तःपर्शव्येनोग्रं देवं वनिष्ठुना वसिष्ठहनुः शिङ्गीनि कोश्याभ्याम्
उग्रं लोहितेन मित्रꣳ सौव्रत्येन रुद्रं दौर्व्रत्येनेन्द्रं प्रक्रीडेन मरुतो बलेन साध्यान् प्रमुदा । भवस्य कण्ठ्यꣳ रुद्रस्यान्तःपार्श्व्यं महादेवस्य यकृच् छर्वस्य वनिष्ठुः पशुपतेः पुरीतत्
लोमभ्यः स्वाहा लोमभ्यः स्वाहा त्वचे स्वाहा त्वचे स्वाहा लोहिताय स्वाहा लोहिताय स्वाहा मेदोभ्यः स्वाहा मेदोभ्यः स्वाहा । माꣳसेभ्यः स्वाहा माꣳसेभ्यः स्वाहा स्नावभ्यः स्वाहा स्नावभ्यः स्वाहास्थभ्यः स्वाहास्थभ्यः स्वाहा मज्जभ्यः स्वाहा मज्जभ्यः स्वाहा । रेतसे स्वाहा पायवे स्वाहा
आयासाय स्वाहा प्रायासाय स्वाहा संयासाय स्वाहा वियासाय स्वाहोद्यासाय स्वाहा । शुचे स्वाहा शोचते स्वाहा शोचमानाय स्वाहा शोकाय स्वाहा
तपसे स्वाहा तप्यते स्वाहा तप्यमानाय स्वाहा तप्ताय स्वाहा घर्माय स्वाहा । निष्कृत्यै स्वाहा प्रायश्चित्त्यै स्वाहा भेषजाय स्वाहा
यमाय स्वाहान्तकाय स्वाहा मृत्यवे स्वाहा ब्रह्मणे स्वाहा ब्रह्महत्यायै स्वाहा विश्वेभ्यो देवेभ्यः स्वाहा द्यावापृथिवीभ्याꣳ स्वाहा