देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् । आ ददे नारिर् असि
युञ्जते मन ऽ उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे वयुनाविद् एक ऽ इन् मही देवस्य सवितुः परिष्टुतिः स्वाहा
देवी द्यावापृथिवी मखस्य वाम् अद्य शिरो राध्यासं देवयजने पृथिव्याः । मखाय त्वा मखस्य त्वा शीर्ष्णे
देव्यो वम्र्यो भूतस्य प्रथमजा मखस्य वो ऽद्य शिरो राध्यासं देवयजने पृथिव्याः । मखाय त्वा मखस्य त्वा शीर्ष्णे
इयत्य् अग्रे ऽ आसीन् मखस्य ते ऽद्य शिरो राध्यासं देवयजने पृथिव्याः । मखाय त्वा मखस्य त्वा शीर्ष्णे
इन्द्रस्यौज स्थ मखस्य वो ऽद्य शिरो राध्यासं देवयजने पृथिव्याः । मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे
प्रैतु ब्रह्मणस् पतिः प्र देव्य् एतु सूनृता । अच्छा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः । मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे
मखस्य शिरो ऽसि । मखाय त्वा मखस्य त्वा शीर्ष्णे । मखस्य शिरो ऽसि । मखाय त्वा मखस्य त्वा शीर्ष्णे । मखस्य शिरो ऽसि । मखाय त्वा मखस्य त्वा शीर्ष्णे । मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे
अश्वस्य त्वा वृष्णः शक्ना धूपयामि देवयजने पृथिव्याः । मखाय त्वा मखस्य त्वा शीर्ष्णे । अश्वस्य त्वा वृष्णः शक्ना धूपयामि देवयजने पृथिव्याः । मखाय त्वा मखस्य त्वा शीर्ष्णे । अश्वस्य त्वा वृष्णः शक्ना धूपयामि देवयजने पृथिव्याः । मखाय त्वा मखस्य त्वा शीर्ष्णे । मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे
ऋजवे त्वा । साधवे त्वा । सुक्षित्यै त्वा । मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे
यमाय त्वा । मखाय त्वा । सूर्यस्य त्वा तपसे । देवस् त्वा सविता मध्वानक्तु । पृथिव्याः सꣳस्पृशस् पाहि । अर्चिर् असि शोचिर् असि तपो ऽसि
अनाधृष्टा पुरस्ताद् अग्नेर् आधिपत्य ऽ आयुर् मे दाः । पुत्रवती दक्षिणत ऽ इन्द्रस्याधिपत्ये प्रजां मे दाः । सुषदा पश्चाद् देवस्य सवितुर् आधिपत्ये चक्षुर् मे दाः । आस्रुतिर् उत्तरतो धातुर् आधिपत्ये रायस्पोषं मे दाः । विधृतिर् उपरिष्टाद् बृहस्पतेर् आधिपत्ये ऽ ओजो मे दाः । विश्वाभ्यो मा नाष्ट्राभ्यस् पाहि । मनोर् अश्वासि
स्वाहा मरुद्भिः परि श्रीयस्व । दिवः सꣳस्पृशस् पाहि । मधु मधु मधु
गर्भो देवानां पिता मतीनां पतिः प्रजानाम् । सं देवो देवेन सवित्रा गत सꣳ सूर्येण रोचते
सम् अग्निर् अग्निना गत सं दैवेन सवित्रा सꣳ सूर्येणारोचिष्ट । स्वाहा सम् अग्निस् तपसा गत सं दैव्येन सवित्रा सꣳ सूर्येणारूरुचत
धर्ता दिवो वि भाति तपसस् पृथिव्यां धर्ता देवो देवानाम् अमर्त्यस् तपोजाः । वाचम् अस्मे नि यच्छ देवायुवम्
अपश्यं गोपाम् अनिपद्यमानम् आ च परा च पथिभिश् चरन्तम् । स सध्रीचीः स विषूचीर् वसान ऽ आ वरीवर्त्ति भुवनेष्व् अन्तः
विश्वासां भुवां पते विश्वस्य मनसस् पते विश्वस्य वचसस् पते सर्वस्य वचसस् पते । देवश्रुत् त्वं देव घर्म देवो देवान् पाहि । अत्र प्रावीर् अनु वां देववीतये । मधु माध्वीभ्यां मधु माधूचीभ्याम्
हृदे त्वा मनसे त्वा दिवे त्वा सूर्याय त्वा । ऊर्ध्वो ऽ अध्वरं दिवि देवेषु धेहि
पिता नो ऽसि पिता नो बोधि नमस् ते ऽ अस्तु मा मा हिꣳसीः । त्वष्टृमन्तस् त्वा सपेम पुत्रान् पशून् मयि धेहि प्रजाम् अस्मासु धेह्य् अरिष्टाहꣳ सहपत्या भूयासम्
अहः केतुना जुषताꣳ सुज्योतिर् ज्योतिषा स्वाहा । रात्रिः केतुना जुषताꣳ सुज्योतिर् ज्योतिषा स्वाहा
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् । आ ददे ऽदित्यै रास्नासि
इड ऽ एहि । अदित ऽ एहि । सरस्वत्त्य् एहि । असाव् एहि । असाव् एहि । असाव् एहि
अदित्यै रास्नासीन्द्राण्या ऽ उष्णीषः । पूषासि । घर्माय दीष्व
अश्विभ्यां पिन्वस्व । सरस्वत्यै पिन्वस्व । इन्द्राय पिन्वस्व । स्वाहेन्द्रवत् । स्वाहेन्द्रवत् । स्वाहेन्द्रवत्
यस् ते स्तनः शशयो यो मयोभूर् यो रत्नधा वसुविद् यः सुदत्रः । येन विश्वा पुष्यसि वार्याणि सरस्वति तम् इह धातवे ऽकः । उर्व् अन्तरिक्षम् अन्व् एमि
गायत्रं छन्दो ऽसि । त्रैष्टुभं छन्दो ऽसि । द्यावापृथिवीभ्यां त्वा परि गृह्णामि । अन्तरिक्षेणोप यच्छामि । इन्द्राश्विना । मधुनः सारघस्य घर्मं पात वसवो यजत वाट् । स्वाहा सूर्यस्य रश्मये वृष्टिवनये
समुद्राय त्वा वाताय स्वाहा । सरिराय त्वा वाताय स्वाहा । अनाधृष्याय त्वा वाताय स्वाहा । अप्रतिधृष्याय त्वा वाताय स्वाहा । अवस्यवे त्वा वाताय स्वाहा । अशिमिदाय त्वा वाताय स्वाहा
इन्द्राय त्वा वसुमते रुद्रवते स्वाहा । इन्द्राय त्वादित्यवते स्वाहा । इन्द्राय त्वाभिमातिघ्ने स्वाहा । सवित्रे त्व ऽ ऋभुमते विभुमते वाजवते स्वाहा । बृहस्पतये त्वा विश्वदेव्यावते स्वाहा
यमाय त्वाङ्गिरस्वते पितृमते स्वाहा । स्वाहा घर्माय । स्वाहा घर्मः पित्रे