कस् त्वा सत्यो मदानां मꣳहिष्ठो मत्सद् अन्धसः । दृढा चिद् आरुजे वसु
अभी षु णः सखीनाम् अविता जरितॄणाम् । शतं भवास्य् ऊतिभिः
कया त्वम् न ऽ ऊत्याभि प्र मन्दसे वृषन् । कया स्तोतृभ्य ऽ आ भर
इन्द्रो विश्वस्य राजति । शं नो ऽ अस्तु द्विपदे शं चतुष्पदे
शं नो मित्रः शं वरुणः शं नो भवत्व् अर्यमा । शं न ऽ इन्द्रो बृहस्पतिः शं नो विष्णुर् उरुक्रमः
शं नो वातः पवताꣳ शं नस् तपतु सूर्यः । शं नः कनिक्रदद् देवः पर्जन्यो ऽ अभि वर्षतु
अहानि शं भवन्तु नः शꣳ रात्रीः प्रति धीयताम् । शं न ऽ इन्द्राग्नी भवताम् अवोभिः शं न ऽ इन्द्रावरुणा रातहव्या । शं न ऽ इन्द्रापूषणा वाजसातौ शम् इन्द्रासोमा सुविताय शं योः
शं नो देवीर् अभिष्टय ऽ आपो भवन्तु पीतये । शं योर् अभि स्रवन्तु नः
स्योना पृथिवि नो भवानृक्षरा निवेशनी । यच्छा नः शर्म सप्रथाः
आपो हि ष्ठा मयोभुवस् ता न ऽ ऊर्जे दधातन । महे रणाय चक्षसे
यो वः शिवतमो रसस् तस्य भाजयतेह नः । उशतीर् इव मातरः
तस्मा ऽ अरं गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः
द्यौः शान्तिर् अन्तरिक्षꣳ शान्तिः पृथिवी शान्तिर् आपः शान्तिर् ओषधयः शान्तिः । वनस्पतयः शान्तिर् विश्वे देवाः शान्तिर् ब्रह्म शान्तिः सर्वꣳ शान्तिः शान्तिर् एव शान्तिः सा मा शान्तिर् एधि
दृते दृꣳह मा मित्रस्य मा चक्षुषा सर्वाणि भूतानि सम् ईक्षन्ताम् । मित्रस्याहं चक्षुषा सर्वाणि भूतानि समीक्षे । मित्रस्य चक्षुषा सम् ईक्षामहे
दृते दृꣳह मा । ज्योक् ते संदृशि जीव्यासं ज्योक् ते संदृशि जीव्यासम्
नमस् ते हरसे शोचिषे नमस् ते ऽ अस्त्व् अर्चिषे । अन्याꣳस् ते ऽ अस्मत् तपन्तु हेतयः पावको ऽ अस्मभ्यꣳ शिवो भव
नमस् ते ऽ अस्तु विद्युते नमस् ते स्तनयित्नवे । नमस् ते भगवन्न् अस्तु यतः स्वः समीहसे
यतो-यतः समीहसे ततो नो ऽ अभयं कुरु । शं नः कुरु प्रजाभ्यो ऽभयं नः पशुभ्यः
सुमित्रिया न ऽ आप ऽ ओषधयः सन्तु दुर्मित्रियास् तस्मै सन्तु यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः
तच् चक्षुर् देवहितं पुरस्ताच् छुक्रम् उच् चरत् । पश्येम शरदः शतं जीवेम शरदः शतꣳ शृणुयाम शरदः शतं प्र ब्रवाम शरदः शतम् अदीनाः स्याम शरदः शतं भूयश् च शरदः शतात्
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् । आ ददे नारिर् असि
युञ्जते मन ऽ उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे वयुनाविद् एक ऽ इन् मही देवस्य सवितुः परिष्टुतिः स्वाहा
देवी द्यावापृथिवी मखस्य वाम् अद्य शिरो राध्यासं देवयजने पृथिव्याः । मखाय त्वा मखस्य त्वा शीर्ष्णे
देव्यो वम्र्यो भूतस्य प्रथमजा मखस्य वो ऽद्य शिरो राध्यासं देवयजने पृथिव्याः । मखाय त्वा मखस्य त्वा शीर्ष्णे
इयत्य् अग्रे ऽ आसीन् मखस्य ते ऽद्य शिरो राध्यासं देवयजने पृथिव्याः । मखाय त्वा मखस्य त्वा शीर्ष्णे
इन्द्रस्यौज स्थ मखस्य वो ऽद्य शिरो राध्यासं देवयजने पृथिव्याः । मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे
प्रैतु ब्रह्मणस् पतिः प्र देव्य् एतु सूनृता । अच्छा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः । मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे
मखस्य शिरो ऽसि । मखाय त्वा मखस्य त्वा शीर्ष्णे । मखस्य शिरो ऽसि । मखाय त्वा मखस्य त्वा शीर्ष्णे । मखस्य शिरो ऽसि । मखाय त्वा मखस्य त्वा शीर्ष्णे । मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे
अश्वस्य त्वा वृष्णः शक्ना धूपयामि देवयजने पृथिव्याः । मखाय त्वा मखस्य त्वा शीर्ष्णे । अश्वस्य त्वा वृष्णः शक्ना धूपयामि देवयजने पृथिव्याः । मखाय त्वा मखस्य त्वा शीर्ष्णे । अश्वस्य त्वा वृष्णः शक्ना धूपयामि देवयजने पृथिव्याः । मखाय त्वा मखस्य त्वा शीर्ष्णे । मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे
ऋजवे त्वा । साधवे त्वा । सुक्षित्यै त्वा । मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे