आयुष्मान् अग्ने हविषा वृधानो घृतप्रतीको घृतयोनिर् एधि । घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रम् अभि रक्षताद् इमान्त् स्वाहा
परीमे गाम् अनेषत पर्य् अग्निम् अहृषत । देवेष्व् अक्रत श्रवः क ऽ इमाꣳ२ऽ आ दधर्षति
क्रव्यादम् अग्निं प्र हिणोमि दूरं यमराज्यं गच्छतु रिप्रवाहः । इहैवायम् इतरो जातवेदा देवेभ्यो हव्यं वहतु प्रजानन्
वह वपां जातवेदः पितृभ्यो यत्रैनान् वेत्थ निहितान् पराके । मेदसः कुल्या ऽ उप तान्त् स्रवन्तु सत्या ऽ एषाम् आशिषः सं नमन्ताꣳ स्वाहा
स्योना पृथिवि नो भवानृक्षरा निवेशनी । यच्छा नः शर्म सप्रथाः । अप नः शोशुचद् अघम्
अस्मात् त्वम् अधि जातो ऽसि त्वद् अयं जायतां पुनः । असौ स्वर्गाय लोकाय स्वाहा
ऋचं वाचं प्र पद्ये मनो यजुः प्र पद्ये साम प्राणं प्र पद्ये चक्षुः श्रोत्रं प्र पद्ये । वाग् ओजः सहौजो मयि प्राणापानौ
यन् मे छिद्रं चक्षुषो हृदयस्य मनसो वातितृण्णं बृहस्पतिर् मे तद् दधातु । शं नो भवतु भुवनस्य यस् पतिः
भूर् भुवः स्वः । तत् सवितुर् वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात्
कया नश् चित्र ऽ आ भुवद् ऊती सदावृधः सखा । कया शचिष्ठया वृता
कस् त्वा सत्यो मदानां मꣳहिष्ठो मत्सद् अन्धसः । दृढा चिद् आरुजे वसु
अभी षु णः सखीनाम् अविता जरितॄणाम् । शतं भवास्य् ऊतिभिः
कया त्वम् न ऽ ऊत्याभि प्र मन्दसे वृषन् । कया स्तोतृभ्य ऽ आ भर
इन्द्रो विश्वस्य राजति । शं नो ऽ अस्तु द्विपदे शं चतुष्पदे
शं नो मित्रः शं वरुणः शं नो भवत्व् अर्यमा । शं न ऽ इन्द्रो बृहस्पतिः शं नो विष्णुर् उरुक्रमः
शं नो वातः पवताꣳ शं नस् तपतु सूर्यः । शं नः कनिक्रदद् देवः पर्जन्यो ऽ अभि वर्षतु
अहानि शं भवन्तु नः शꣳ रात्रीः प्रति धीयताम् । शं न ऽ इन्द्राग्नी भवताम् अवोभिः शं न ऽ इन्द्रावरुणा रातहव्या । शं न ऽ इन्द्रापूषणा वाजसातौ शम् इन्द्रासोमा सुविताय शं योः
शं नो देवीर् अभिष्टय ऽ आपो भवन्तु पीतये । शं योर् अभि स्रवन्तु नः
स्योना पृथिवि नो भवानृक्षरा निवेशनी । यच्छा नः शर्म सप्रथाः
आपो हि ष्ठा मयोभुवस् ता न ऽ ऊर्जे दधातन । महे रणाय चक्षसे
यो वः शिवतमो रसस् तस्य भाजयतेह नः । उशतीर् इव मातरः
तस्मा ऽ अरं गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः
द्यौः शान्तिर् अन्तरिक्षꣳ शान्तिः पृथिवी शान्तिर् आपः शान्तिर् ओषधयः शान्तिः । वनस्पतयः शान्तिर् विश्वे देवाः शान्तिर् ब्रह्म शान्तिः सर्वꣳ शान्तिः शान्तिर् एव शान्तिः सा मा शान्तिर् एधि
दृते दृꣳह मा मित्रस्य मा चक्षुषा सर्वाणि भूतानि सम् ईक्षन्ताम् । मित्रस्याहं चक्षुषा सर्वाणि भूतानि समीक्षे । मित्रस्य चक्षुषा सम् ईक्षामहे
दृते दृꣳह मा । ज्योक् ते संदृशि जीव्यासं ज्योक् ते संदृशि जीव्यासम्
नमस् ते हरसे शोचिषे नमस् ते ऽ अस्त्व् अर्चिषे । अन्याꣳस् ते ऽ अस्मत् तपन्तु हेतयः पावको ऽ अस्मभ्यꣳ शिवो भव
नमस् ते ऽ अस्तु विद्युते नमस् ते स्तनयित्नवे । नमस् ते भगवन्न् अस्तु यतः स्वः समीहसे
यतो-यतः समीहसे ततो नो ऽ अभयं कुरु । शं नः कुरु प्रजाभ्यो ऽभयं नः पशुभ्यः
सुमित्रिया न ऽ आप ऽ ओषधयः सन्तु दुर्मित्रियास् तस्मै सन्तु यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः
तच् चक्षुर् देवहितं पुरस्ताच् छुक्रम् उच् चरत् । पश्येम शरदः शतं जीवेम शरदः शतꣳ शृणुयाम शरदः शतं प्र ब्रवाम शरदः शतम् अदीनाः स्याम शरदः शतं भूयश् च शरदः शतात्