घृतवती भुवनानाम् अभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा । द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते ऽ अजरे भूरिरेतसा
ये नः सपत्ना ऽ अप ते भवन्त्व् इन्द्राग्निभ्याम् अव बाधामहे तान् । वसवो रुद्रा ऽ आदित्या ऽ उपरिस्पृशं मोग्रं चेत्तारम् अधिराजम् अक्रन्
आ नासत्या त्रिभिर् एकादशैर् इह देवेभिर् यातं मधुपेयम् अश्विना । प्रायुस् तारिष्टं नी रपाꣳसि मृक्षतꣳ सेधतं द्वेषो भवतꣳ सचाभुवा
एष व स्तोमो मरुत ऽ इयं गीर् मान्दार्यस्य मान्यस्य कारोः । एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम्
सहस्तोमाः सहच्छन्दस ऽ आवृतः सहप्रमा ऽ ऋषयः सप्त दैव्याः । पूर्वेषां पन्थाम् अनुदृश्य धीरा ऽ अन्वालेभिरे रथ्यो न रश्मीन्
आयुष्यं वर्चस्यꣳ रायस्पोषम् औद्भिदम् । इदꣳ हिरण्यं वर्चस्वज् जैत्राया विशताद् उ माम्
न तद् रक्षाꣳसि न पिशाचास् तरन्ति देवानाम् ओजः प्रथमजꣳ ह्य् एतत् । यो बिभर्ति दाक्षायणꣳ हिरण्यꣳ स देवेषु कृणुते दीर्घम् आयुः स मनुष्येषु कृणुते दीर्घम् आयुः
यद् आबध्नन् दाक्षायणा हिरण्यꣳ शतानीकाय सुमनस्यमानाः । तन् म ऽ आ बध्नामि शतशारदायायुष्मान् जरदष्टिर् यथासम्
उत नो ऽहिर्बुध्न्यः शृणोत्व् अज ऽ एकपात् पृथिवी समुद्रः । विश्वे देवा ऽ ऋतावृधो हुवाना स्तुता मन्त्राः कविशस्ता ऽ अवन्तु
इमा गिर ऽ आदित्येभ्यो घृतस्नूः सनाद् राजभ्यो जुह्वा जुहोमि । शृणोतु मित्रो ऽ अर्यमा भगो नस् तुविजातो वरुणो दक्षो ऽअꣳशः
सप्त ऽ ऋषयः प्रतिहिताः शरीरे सप्त रक्षन्ति सदम् अप्रमादम् । सप्तापः स्वपतो लोकम् ईयुस् तत्र जागृतो ऽ अस्वप्नजौ सत्रसदौ च देवौ
उत् तिष्ठ ब्रह्मणस्पते देवयन्तस् त्वेमहे । उप प्र यन्तु मरुतः सुदानव ऽ इन्द्र प्राशूर् भवा सचा
प्र नूनं ब्रह्मणस्पतिर् मन्त्रं वदत्य् उक्थ्यम् । यस्मिन्न् इन्द्रो वरुणो मित्रो ऽ अर्यमा देवा ऽ ओकाꣳसि चक्रिरे
ब्रह्मणस्पते त्वम् अस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व । विश्वं तद् भद्रं यद् अवन्ति देवा बृहद् वदेम विदथे सुवीराः । [य इमा विश्वा । विश्वकर्मा । यो नः पिता । अन्नपते न्नस्य नो देहि ॥ ] (अ.वे. 17. , 11. )
अपेतो यन्तु पणयो ऽसुम्ना देवपीयवः । अस्य लोकः सुतावतः । द्युभिर् अहोभिर् अक्तुभिर् व्यक्तं यमो ददात्व् अवसानम् अस्मै
सविता ते शरीरेभ्यः पृथिव्यां लोकम् इच्छतु । तस्मै युज्यन्ताम् उस्रियाः
वायुः पुनातु । सविता पुनातु । अग्नेर् भ्राजसा । सूर्यस्य वर्चसा । वि मुच्यन्ताम् उस्रियाः
अश्वत्थे वो निषदनं पर्णे वो वसतिष् कृता । गोभाजऽइत् किलासथ यत् सनवथ पूरुषम्
सविता ते शरीराणि मातुर् उपस्थ ऽ आ वपतु । तस्मै पृथिवि शं भव
प्रजापतौ त्वा देवतायाम् उपोदके लोके नि दधाम्य् असौ । अप नः शोशुचद् अघम्
परं मृत्यो ऽ अनु परेहि पन्थां यस् ते ऽ अन्य इतरो देवयानात् । चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजाꣳ रीरिषो मोत वीरान्
शं वातः शꣳ हि ते घृणिः शं ते भवन्त्व् इष्टकाः । शं ते भवन्त्व् अग्नयः पार्थिवासो मा त्वाभि शूशुचन्
कल्पन्तां ते दिशस् तुभ्यम् आपः शिवतमास् तुभ्यं भवन्तु सिन्धवः । अन्तरिक्षꣳ शिवं तुभ्यं कल्पन्तां ते दिशः सर्वाः
अश्मन्वती रीयते सꣳ रभध्वम् उत् तिष्ठत प्र तरता सखायः । अत्र जहीमो ऽशिवा ये ऽ असञ्छिवान् वयम् उत्तरेमाभि वाजान्
अपाघम् अप किल्विषम् अप कृत्याम् अपो रपः । अपामार्ग त्वम् अस्मद् अप दुःष्वप्न्यꣳ सुव
सुमित्रिया न ऽ आप ऽ ओषधयः सन्तु दुर्मित्रियास् तस्मै सन्तु यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः
अनड्वाहम् आ रभामहे सौरभेयꣳ स्वस्तये । स न ऽ इन्द्र ऽ इव देवेभ्यो वह्निः संतरणो भव
उद् वयं तमसस् परि स्वः पश्यन्त ऽ उत्तरम् । देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम्
इमं जीवेभ्यः परिधिं दधामि मैषां नु गाद् अपरो ऽ अर्थम् एतम् । शतं जीवन्तु शरदः पुरूचीर् अन्तर् मृत्युं दधतां पर्वतेन
अग्न ऽ आयूꣳषि पवस ऽ आ सुवोर्जम् इषं च नः । आरे बाधस्व दुच्छुनाम्