देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् । आ ददे नार्य् असि । इदम् अहꣳ रक्षसां ग्रीवा ऽ अपि कृन्तामि । यवो ऽसि यवयास्मद् द्वेषो यवयारातीः । दिवे त्वाऽन्तरिक्षाय त्वा पृथिव्यै त्वा । शुन्धन्तां लोकाः पितृषदनाः । पितृषदनम् असि
उद् दिवꣳ स्तभानान्तरिक्षं पृण दृꣳहस्व पृथिव्याम् । द्युतानास् त्वा मारुतो मिनोतु मित्रावरुणौ ध्रुवेण धर्मणा । ब्रह्मवनि त्वा क्षत्रवनि त्वा रायस्पोषवनि पर्य् ऊहामि । ब्रह्म दृꣳह क्षत्रं दृꣳहायुर् दृꣳह प्रजां दृꣳह
ध्रुवासि ध्रुवो ऽयं यजमानो ऽस्मिन्न् आयतने प्रजया पशुभिर् भूयात् । घृतेन द्यावापृथिवी पूर्येथाम् । इन्द्रस्य छदिर् असि विश्वजनस्य छाया
परि त्वा गिर्वणो गिर ऽ इमा भवन्तु विश्वतः । वृद्धायुम् अनु वृद्धयो जुष्टा भवन्तु जुष्टयः
इन्द्रस्य स्यूर् असि । इन्द्रस्य ध्रुवो ऽसि । ऐन्द्रम् असि । वैश्वदेवम् असि
[[ब्रह्माण्डपुराणम्/पूर्वभागः/अध्यायः १२|ब्रह्माण्डपुराणम् १.२.१२.२७]], [[वायुपुराणम्/पूर्वार्धम्/अध्यायः २९|वायुपुराणम् २९.२६]]विभूर् असि प्रवाहणः । वह्निर् असि हव्यवाहनः । श्वात्रो ऽसि प्रचेताः । तुथो ऽसि विश्ववेदाः
उशिग् असि कविः । अङ्घारिर् असि बम्भारिः । अवस्यूर् असि दुवस्वान् । शुन्ध्यूर् असि मार्जालीयः । सम्राड् असि कृशानुः । परिषद्योऽसि पवमानः । नभोऽसि प्रतक्वा । मृष्टो ऽसि हव्यसूदनः । ऽऋतधामासि स्वर्ज्योतिः
समुद्रो ऽसि विश्वव्यचाः । ऽअजो ऽस्य् एकपात् । अहिर् असि बुध्न्यः । वाग् अस्य् ऐन्द्रम् असि सदो ऽसि । ऋतस्य द्वारौ मा मा संताप्तम् । अध्वनाम् अध्वपते प्र मा तिर स्वस्ति मे ऽस्मिन् पथि देवयाने भूयात्
मित्रस्य मा चक्षुषेक्षध्वम् । अग्नयः सगराः सगरा स्थ सगरेण नाम्ना रुद्रेणानीकेन पात माग्नयः पिपृत माग्नयो गोपायत मा नमो वो स्तु मा मा हिꣳसिष्ट
ज्योतिर् असि विश्वरूपं विश्वेषां देवाना समित् । त्वꣳ सोम तनूकृद्भ्यो द्वेषोभ्यो ऽन्यकृतेभ्य ऽउरु यन्तासि वरूथꣳ स्वाहा । जुषाणो ऽअप्तुर् आज्यस्य वेतु स्वाहा
अग्ने नय सुपथा राये ऽअस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्य् अस्मज् जुहुराणम् एनो भूयिष्ठां ते नमऽउक्तिं विधेम
अयं नो ऽ अग्निर् वरिवस् कृणोत्व् अयं मृधः पुर ऽएतु प्रभिन्दन् । अयं वाजान् जयतु वाजसाताव् अयꣳ शत्रून् जयतु जर्हृषाणः स्वाहा
उरु विष्णो वि क्रमस्वोरु क्षयाय नस् कृधि । घृतं घृतयोने पिब प्र-प्र यज्ञपतिं तिर स्वाहा
देव सवितर् एष ते सोमस् तꣳ रक्षस्व मा त्वा दभन् । एतत् त्वं देव सोम देवो देवाँ2 ऽ उपागा ऽ इदम् अहं मनुष्यान्त् सह रायस्पोषेण स्वाहा निर् वरुणस्य पाशान् मुच्ये
अग्ने व्रतपास् त्वे व्रतपा या तव तनूर् मय्य् अभूद् एषा सा त्वयि यो मम तनूस् त्वय्य् अभूद् इयꣳ सा मयि । यथायथं नौ व्रतपते व्रतान्य् अनु मे दीक्षां दीक्षापतिर् अमꣳस्तानु तपस् तपस्पतिः
उरु विष्णो वि क्रमस्वोरु क्षयाय नस् कृधि । घृतं घृतयोने पिब प्र-प्र यज्ञपतिं तिर स्वाहा
अत्य् अन्याꣳ ऽ अगां नान्याꣳ ऽ उपागाम् अर्वाक् त्वा परेभ्यो ऽविदं परो ऽवरेभ्यः । तं त्वा जुषामहे देव वनस्पते देवयज्यायै देवास् त्वा देवयज्यायै जुषन्तां विष्णवे त्वा । ओषधे त्रायस्व । स्वधिते मैनꣳ हिꣳसीः
द्यां मा लेखीर् अन्तरिक्षं मा हिꣳसीः पृथिव्या सं भव । अयꣳ हि त्वा स्वधितिस् तेतिजानः प्रणिनाय महते सौभगाय । अतस् त्वं देव वनस्पते शतवल्शो वि रोह सहस्रवल्शा वि वयꣳ रुहेम
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् । आ ददे नार्य् असि । इदम् अहꣳ रक्षसां ग्रीवा ऽ अपि कृन्तामि । यवो ऽसि यवयास्मद् द्वेषो यवयारातीः । दिवेऽत्वान्तरिक्षाय त्वा पृथिव्यै त्वा । शुन्धन्तां लोकाः पितृषदनाः । पितृषदनम् असि
अग्रेणीर् असि स्वावेश ऽ उन्नेतॄणाम् एतस्य वित्ताद् अधि त्वा स्थास्यति । देवस् त्वा सविता मध्व् आनक्तु । सुपिप्पलाभ्यस् त्वौषधीभ्यः । द्याम् अग्रेणास्पृक्ष ऽ आन्तरिक्षं मध्येनाप्राः पृथिवीम् उपरेणादृꣳहीः
या ते धामान्य् उश्मसि गमध्यै यत्र गावो भूरिशृङ्गा ऽ अयासः । अत्राह तद् उरुगायस्य विष्णोः परमं पदम् अव भारि भूरि । ब्रह्मवनि त्वा क्षत्रवनि रायस्पोषवनि पर्य् ऊहामि । ब्रह्म दृꣳह क्षत्रं दृꣳहायुर् दृꣳह प्रजां दृꣳह
विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे । इन्द्रस्य युज्यः सखा
तद् विष्णोः परमं पदꣳ सदा पश्यन्ति सूरयो दिवीव चक्षुर् आततम्
परिवीर् असि परि त्वा दैवीर् विशो व्ययन्तां परीमं यजमानꣳ रायो मनुष्याणाम् । दिवः सूनुर् असि । एष ते पृथिव्यां लोक ऽ आरण्यस् ते पशुः
उपावीर् असि । उप देवान् दैवीर् विशः प्रागुर् उशिजो वह्नितमान् । देव त्वष्टर् वसु रम हव्या ते स्वदन्ताम्
रेवती रमध्वं बृहस्पते धारया वसूनि । ऋतस्य त्वा देवहविः पाशेन प्रति मुञ्चामि धर्षा मानुषः
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् । अग्नीषोमाभ्यां जुष्टं नि युनज्मि । अद्भ्यस् त्वौषधीभ्योऽनु त्वा माता मन्यताम् अनु पितानु भ्राता सगर्भ्योऽनु सखा सयूथ्यः । अग्नीषोमाभ्यां त्वा जुष्टं प्रोक्षामि
अपां पेरुर् असि । आपो देवीः स्वदन्तु स्वात्तं चित् सद् देवहविः । सं ते प्राणो वातेन गच्छताꣳ सम् अङ्गानि यजत्रैः सं यज्ञपतिर् आशिषा
घृतेनाक्तौ पशूँस् त्रायेथा । रेवति यजमाने प्रियं धा ऽ आ विश । उरोर् अन्तरिक्षात् सजूर् देवेन वातेनास्य हविषस् त्मना यज समस्य तन्वा भव । वर्षो वर्षीयसि यज्ञे यज्ञपतिं धाः । स्वाहा देवेभ्यः । देवेभ्यः स्वाहा
माहिर् भूर् मा पृदाकुः । नमस् तऽ आतानानर्वा प्रेहि । घृतस्य कुल्याऽ उपऽ ऋतस्य पथ्याऽ अनु