प्रातर्जितं भगम् उग्रꣳ हुवेम वयं पुत्रम् अदितेर् यो विधर्ता । आध्रश् चिद् यं मन्यमानस् तुरश् चिद् राजा चिद् यं भगं भक्षीत्य् आह
भग प्रणेतर् भग सत्यराधो भगेमां धियम् उदवा ददन् नः । भग प्र णो जनय गोभिर् अश्वैर् भग प्र नृभिर् नृवन्तः स्याम
उतेदानीं भगवन्तः स्यामोत प्रपित्व ऽ उत मध्ये ऽ अह्नाम् । उतोदिता मघवन् सूर्यस्य वयं देवानाꣳ सुमतौ स्याम
भग ऽ एव भगवाꣳ२ऽ अस्तु देवास् तेन वयं भगवन्तः स्याम । तं त्वा भग सर्व ऽ इज्जोहवीति स नो भग पुर ऽ एता भवेह
सम् अध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय । अर्वाचीनं वसुविदं भगं नो रथम् इवाश्वा वाजिन ऽ आ वहन्तु
अश्वावतीर् गोमतीर् न ऽ उषासो वीरवतीः सदम् उच्छन्तु भद्राः । घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः
पूषन् तव व्रते वयं न रिष्येम कदा चन । स्तोतारस् त ऽ इह स्मसि
पथस्-पथः परिपतिं वचस्या कामेन कृतो ऽ अभ्यानड् अर्कम् । स नो रासच्छुरुधश् चन्द्राग्रा धियं-धियꣳ सीषधाति प्र पूषा
त्रीणि पदा वि चक्रमे विष्णुर् गोपा ऽ अदाभ्यः । अतो धर्माणि धारयन्
तद् विप्रासो विपन्यवो जागृवाꣳसः सम् इन्धते । विष्णोर् यत् परमं पदम्
घृतवती भुवनानाम् अभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा । द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते ऽ अजरे भूरिरेतसा
ये नः सपत्ना ऽ अप ते भवन्त्व् इन्द्राग्निभ्याम् अव बाधामहे तान् । वसवो रुद्रा ऽ आदित्या ऽ उपरिस्पृशं मोग्रं चेत्तारम् अधिराजम् अक्रन्
आ नासत्या त्रिभिर् एकादशैर् इह देवेभिर् यातं मधुपेयम् अश्विना । प्रायुस् तारिष्टं नी रपाꣳसि मृक्षतꣳ सेधतं द्वेषो भवतꣳ सचाभुवा
एष व स्तोमो मरुत ऽ इयं गीर् मान्दार्यस्य मान्यस्य कारोः । एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम्
सहस्तोमाः सहच्छन्दस ऽ आवृतः सहप्रमा ऽ ऋषयः सप्त दैव्याः । पूर्वेषां पन्थाम् अनुदृश्य धीरा ऽ अन्वालेभिरे रथ्यो न रश्मीन्
आयुष्यं वर्चस्यꣳ रायस्पोषम् औद्भिदम् । इदꣳ हिरण्यं वर्चस्वज् जैत्राया विशताद् उ माम्
न तद् रक्षाꣳसि न पिशाचास् तरन्ति देवानाम् ओजः प्रथमजꣳ ह्य् एतत् । यो बिभर्ति दाक्षायणꣳ हिरण्यꣳ स देवेषु कृणुते दीर्घम् आयुः स मनुष्येषु कृणुते दीर्घम् आयुः
यद् आबध्नन् दाक्षायणा हिरण्यꣳ शतानीकाय सुमनस्यमानाः । तन् म ऽ आ बध्नामि शतशारदायायुष्मान् जरदष्टिर् यथासम्
उत नो ऽहिर्बुध्न्यः शृणोत्व् अज ऽ एकपात् पृथिवी समुद्रः । विश्वे देवा ऽ ऋतावृधो हुवाना स्तुता मन्त्राः कविशस्ता ऽ अवन्तु
इमा गिर ऽ आदित्येभ्यो घृतस्नूः सनाद् राजभ्यो जुह्वा जुहोमि । शृणोतु मित्रो ऽ अर्यमा भगो नस् तुविजातो वरुणो दक्षो ऽअꣳशः
सप्त ऽ ऋषयः प्रतिहिताः शरीरे सप्त रक्षन्ति सदम् अप्रमादम् । सप्तापः स्वपतो लोकम् ईयुस् तत्र जागृतो ऽ अस्वप्नजौ सत्रसदौ च देवौ
उत् तिष्ठ ब्रह्मणस्पते देवयन्तस् त्वेमहे । उप प्र यन्तु मरुतः सुदानव ऽ इन्द्र प्राशूर् भवा सचा
प्र नूनं ब्रह्मणस्पतिर् मन्त्रं वदत्य् उक्थ्यम् । यस्मिन्न् इन्द्रो वरुणो मित्रो ऽ अर्यमा देवा ऽ ओकाꣳसि चक्रिरे
ब्रह्मणस्पते त्वम् अस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व । विश्वं तद् भद्रं यद् अवन्ति देवा बृहद् वदेम विदथे सुवीराः । [य इमा विश्वा । विश्वकर्मा । यो नः पिता । अन्नपते न्नस्य नो देहि ॥ ] (अ.वे. 17. , 11. )
अपेतो यन्तु पणयो ऽसुम्ना देवपीयवः । अस्य लोकः सुतावतः । द्युभिर् अहोभिर् अक्तुभिर् व्यक्तं यमो ददात्व् अवसानम् अस्मै
सविता ते शरीरेभ्यः पृथिव्यां लोकम् इच्छतु । तस्मै युज्यन्ताम् उस्रियाः
वायुः पुनातु । सविता पुनातु । अग्नेर् भ्राजसा । सूर्यस्य वर्चसा । वि मुच्यन्ताम् उस्रियाः
अश्वत्थे वो निषदनं पर्णे वो वसतिष् कृता । गोभाजऽइत् किलासथ यत् सनवथ पूरुषम्
सविता ते शरीराणि मातुर् उपस्थ ऽ आ वपतु । तस्मै पृथिवि शं भव
प्रजापतौ त्वा देवतायाम् उपोदके लोके नि दधाम्य् असौ । अप नः शोशुचद् अघम्