हिरण्यपाणिः सविता विचर्षणिर् उभे द्यावापृथिवी ऽ अन्तर् ईयते । अपामीवां बाधते वेति सूर्यम् अभि कृष्णेन रजसा द्याम् ऋणोति
हिरण्यहस्तो ऽ असुरः सुनीथः सुमृडीकः स्ववाँ यात्व् अर्वाङ् । अपसेधन् रक्षसो यातुधानान् अस्थाद् देवः प्रतिदोषं गृणानः
ये ते पन्थाः सवितः पूर्व्यासो ऽरेणवः सुकृता ऽ अन्तरिक्षे । तेभिर् नो ऽ अद्य पथिभिः सुगेभी रक्षा च नो ऽ अधि च ब्रूहि देव
उभा पिबतम् अश्विनोभा नः शर्म यच्छतम् । अविद्रियाभिर् ऊतिभिः
अप्नस्वतीम् अश्विना वाचम् अस्मे कृतं नो दस्रा वृषणा मनीषाम् । अद्यूत्ये ऽवसे नि ह्वये वां वृधे च नो भवतं वाजसातौ
द्युभिर् अक्तुभिः परि पातम् अस्मान् अरिष्टेभिर् अश्विना सौभगेभिः । तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी ऽ उत द्यौः
आ कृष्णेन रजसा वर्तमानो निवेशयन्न् अमृतं मर्त्यं च । हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन्
आ रात्रि पर्थिवꣳ रजः पितुर् अप्रायि धामभिः । दिवः सदाꣳसि बृहती वि तिष्ठस ऽ आ त्वेषं वर्तते तमः
उषस् तच् चित्रम् आ भरास्मभ्यं वाजिनीवति । येन तोकं च तनयं च धामहे
प्रातर् अग्निं प्रातर् इन्द्रꣳ हवामहे प्रातर् मित्रावरुणा प्रातर् अश्विना । प्रातर् भगं पूषणं ब्रह्मणस्पतिं प्रातः सोमम् उत रुद्रꣳ हुवेम
प्रातर्जितं भगम् उग्रꣳ हुवेम वयं पुत्रम् अदितेर् यो विधर्ता । आध्रश् चिद् यं मन्यमानस् तुरश् चिद् राजा चिद् यं भगं भक्षीत्य् आह
भग प्रणेतर् भग सत्यराधो भगेमां धियम् उदवा ददन् नः । भग प्र णो जनय गोभिर् अश्वैर् भग प्र नृभिर् नृवन्तः स्याम
उतेदानीं भगवन्तः स्यामोत प्रपित्व ऽ उत मध्ये ऽ अह्नाम् । उतोदिता मघवन् सूर्यस्य वयं देवानाꣳ सुमतौ स्याम
भग ऽ एव भगवाꣳ२ऽ अस्तु देवास् तेन वयं भगवन्तः स्याम । तं त्वा भग सर्व ऽ इज्जोहवीति स नो भग पुर ऽ एता भवेह
सम् अध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय । अर्वाचीनं वसुविदं भगं नो रथम् इवाश्वा वाजिन ऽ आ वहन्तु
अश्वावतीर् गोमतीर् न ऽ उषासो वीरवतीः सदम् उच्छन्तु भद्राः । घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः
पूषन् तव व्रते वयं न रिष्येम कदा चन । स्तोतारस् त ऽ इह स्मसि
पथस्-पथः परिपतिं वचस्या कामेन कृतो ऽ अभ्यानड् अर्कम् । स नो रासच्छुरुधश् चन्द्राग्रा धियं-धियꣳ सीषधाति प्र पूषा
त्रीणि पदा वि चक्रमे विष्णुर् गोपा ऽ अदाभ्यः । अतो धर्माणि धारयन्
तद् विप्रासो विपन्यवो जागृवाꣳसः सम् इन्धते । विष्णोर् यत् परमं पदम्
घृतवती भुवनानाम् अभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा । द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते ऽ अजरे भूरिरेतसा
ये नः सपत्ना ऽ अप ते भवन्त्व् इन्द्राग्निभ्याम् अव बाधामहे तान् । वसवो रुद्रा ऽ आदित्या ऽ उपरिस्पृशं मोग्रं चेत्तारम् अधिराजम् अक्रन्
आ नासत्या त्रिभिर् एकादशैर् इह देवेभिर् यातं मधुपेयम् अश्विना । प्रायुस् तारिष्टं नी रपाꣳसि मृक्षतꣳ सेधतं द्वेषो भवतꣳ सचाभुवा
एष व स्तोमो मरुत ऽ इयं गीर् मान्दार्यस्य मान्यस्य कारोः । एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम्
सहस्तोमाः सहच्छन्दस ऽ आवृतः सहप्रमा ऽ ऋषयः सप्त दैव्याः । पूर्वेषां पन्थाम् अनुदृश्य धीरा ऽ अन्वालेभिरे रथ्यो न रश्मीन्
आयुष्यं वर्चस्यꣳ रायस्पोषम् औद्भिदम् । इदꣳ हिरण्यं वर्चस्वज् जैत्राया विशताद् उ माम्
न तद् रक्षाꣳसि न पिशाचास् तरन्ति देवानाम् ओजः प्रथमजꣳ ह्य् एतत् । यो बिभर्ति दाक्षायणꣳ हिरण्यꣳ स देवेषु कृणुते दीर्घम् आयुः स मनुष्येषु कृणुते दीर्घम् आयुः
यद् आबध्नन् दाक्षायणा हिरण्यꣳ शतानीकाय सुमनस्यमानाः । तन् म ऽ आ बध्नामि शतशारदायायुष्मान् जरदष्टिर् यथासम्
उत नो ऽहिर्बुध्न्यः शृणोत्व् अज ऽ एकपात् पृथिवी समुद्रः । विश्वे देवा ऽ ऋतावृधो हुवाना स्तुता मन्त्राः कविशस्ता ऽ अवन्तु
इमा गिर ऽ आदित्येभ्यो घृतस्नूः सनाद् राजभ्यो जुह्वा जुहोमि । शृणोतु मित्रो ऽ अर्यमा भगो नस् तुविजातो वरुणो दक्षो ऽअꣳशः