दिवि पृष्टो ऽ अरोचताग्निर् वैश्वानरो बृहन् । क्ष्मया वृधान ऽ ओजसा चनोहितो ज्योतिषा बाधते तमः
इन्द्राग्नी ऽ अपाद् इयं पूर्वागात् पद्वतीभ्यः । हित्वी शिरो जिह्वया वावदच् चरत् त्रिꣳशत् पदा न्य् अक्रमीत्
देवासो हि ष्मा मनवे समन्यवो विश्वे साकꣳ सरातयः । ते नो ऽ अद्य ते अपरं तुचे तु नो भवन्तु वरिवोविदः
अपाधमद् अभिशस्तीर् अशस्तिहाथेन्द्रो द्युम्न्य् आभवत् । देवास् त ऽ इन्द्र सख्याय येमिरे बृहद्भानो मरुद्गण
प्र व ऽ इन्द्राय बृहते मरुतो ब्रह्मार्चत । वृत्रꣳ हनति वृत्रहा शतक्रतुर् वज्रेण शतपर्वणा
अस्येद् इन्द्रो वावृधे वृष्ण्यꣳ शवो मदे सुतस्य विष्णवि । अद्या तम् अस्य महिमानम् आयवो ऽनु ष्टुवन्ति पूर्वथा । [इमा ऽ उ त्वा । यस्यायम् । अयꣳ सहस्रम् । ऊर्ध्व ऽ ऊ षु णः ॥] (अ.वे. )
यज् जाग्रतो दूरम् उदैति दैवं तद् उ सुप्तस्य तथैवैति । दूरंगमं ज्योतिषां ज्योतिर् एकं तन् मे मनः शिवसंकल्पम् अस्तु
येन कर्माण्य् अपसो मनीषिणो यज्ञे कृण्वन्ति विदथेषु धीराः । यद् अपूर्वं यक्षम् अन्तः प्रजानां तन् मे मनः शिवसंकल्पम् अस्तु
यत् प्रज्ञानम् उत चेतो धृतिश् च यज् ज्योतिर् अन्तर् अमृतं प्रजासु । यस्मान् न ऽ ऋते किं चन कर्म क्रियते तन् मे मनः शिवसंकल्पम् अस्तु
येनेदं भूतं भुवनं भविष्यत् परिगृहीतम् अमृतेन सर्वम् । येन यज्ञस् तायते सप्तहोता तन् मे मनः शिवसंकल्पम् अस्तु
यस्मिन्न् ऋचः साम यजूꣳषि यस्मिन् प्रतिष्ठिता रथनाभाव् इवाराः । यस्मिꣳश् चित्तꣳ सर्वम् ओतं प्रजानं तन् मे मनः शिवसंकल्पम् अस्तु
सुषारथिर् अश्वान् इव यन् मनुष्यान् नेनीयते ऽभीशुभिर् वाजिन ऽ इव । हृत्प्रतिष्ठं यद् अजिरं जविष्ठं तन् मे मनः शिवसंकल्पम् अस्तु
पितुं नु स्तोषं महो धर्माणं तविषीम् । यस्य त्रितो व्य् ओजसा वृत्रं विपर्वम् अर्दयत्
अन्व् इद् अनुमते त्वं मन्यासै शं च नस् कृधि । क्रत्वे दक्षाय नो हिनु प्र ण ऽ आयूꣳषि तारिषः
अनु नो ऽद्यानुमतिर् यज्ञं देवेषु मन्यताम् । अग्निश् च हव्यवाहनो भवतं दाशुषे मयः
सिनीवालि पृथुष्टुके या देवानाम् असि स्वसा । जुषस्व हव्यम् आहुतं प्रजां देवि दिदिड्ढि नः
पञ्च नद्यः सरस्वतीम् अपि यन्ति सस्रोतसः । सरस्वती तु पञ्चधा सो देशे ऽभवत् सरित्
त्वम् अग्ने प्रथमो ऽ अङ्गिरा ऽ ऋषिर् देवो देवानाम् अभवः शिवः सखा । तव व्रते कवयो विद्मनापसो ऽजायन्त मरुतो भ्राजदृष्टयः
त्वं नो ऽ अग्ने तव देव पायुभिर् मघोनो रक्ष तन्वश् च वन्द्य । त्राता तोकस्य तनये गवाम् अस्य् अनिमेषꣳ रक्षणस् तव व्रते
उत्तानायाम् अव भरा चिकित्वान्त् सद्यः प्रवीता वृषणं जजान । अरुषस्तूपो रुशद् अस्य पाज ऽ इडायास् पुत्रो वयुने ऽजनिष्ट
इडायास् त्वा पदे वयं नाभा पृथिव्या ऽ अधि । जातवेदो नि धीमह्य् अग्ने हव्याय वोढवे
प्र मन्महे शवसानाय शूषम् आङ्गूषं गिर्वणसे ऽ अङ्गिरस्वत् । सुवृक्तिभिः स्तुवत ऽ ऋग्मियायार्चामार्कं नरे विश्रुताय
प्र वो महे महि नमो भरध्वम् आङ्गूष्यꣳ शवसानाय साम । येना नः पूर्वे पितरः पदज्ञा ऽ अर्चन्तो ऽ अङ्गिरसो गा ऽ अविन्दन्
इच्छन्ति त्वा सोम्यासः सखायः सुन्वन्ति सोमं दधति प्रयाꣳसि । तितिक्षन्ते ऽ अभिशस्तिं जनानाम् इन्द्र त्वद् आ कश् चन हि प्रकेतः
न ते दूरे परमा चिद् रजाꣳस्य् अस्या तु प्र याहि हरिवो हरिभ्याम् । स्थिराय वृष्णे सवना कृतेमा युक्ता ग्रावाणः समिधाने ऽ अग्नौ
अषाढं युत्सु पृतनासु पप्रिꣳ स्वर्षाम् अप्सां वृजनस्य गोपाम् । भरेषुजाꣳ सुक्षितिꣳ सुश्रवसं जयन्तं त्वाम् अनु मदेम सोम
सोमो धेनुꣳ सोमो ऽ अर्वन्तम् आशुꣳ सोमो वीरं कर्मण्यं ददाति । सादन्यं विदथ्यꣳ सभेयं पितृश्रवणं यो ददाशद् अस्मै
त्वम् इमा ऽ ओषधीः सोम विश्वास् त्वम् अपो ऽ अजनयस् त्वं गाः । त्वम् आ ततन्थोर्व् अन्तरिक्षं त्वं ज्योतिषा वि तमो ववर्थ
देवेन नो मनसा देव सोम रायो भागꣳ सहसावन्न् अभि युध्य । मा त्वा तनद् ईशिषे वीर्यस्योभयेभ्यः प्र चिकित्सा गविष्टौ
अष्टौ व्यख्यत् ककुभः पृथिव्यास् त्री धन्व योजना सप्त सिन्धून् । हिरण्याक्षः सविता देव ऽ आगाद् दधद् रत्ना दाशुषे वार्याणि