काव्ययोर् आजानेषु क्रत्वा दक्षस्य दुरोणे । रिशादसा सधस्थ ऽ आ
दैव्याव् अध्वर्यू आ गतꣳ रथेन सूर्यत्वचा । मध्वा यज्ञꣳ सम् अञ्जाथे । [ + तं प्रत्नथा । अयं वेनः ॥]
तिरश्चीनो विततो रश्मिर् एषाम् अधः स्विद् आसी३द् उपरि स्विद् आसी३त् । रेतोधा ऽ आसन् महिमान ऽ आसन्त् स्वधा ऽ अवस्तात् प्रयतिः परस्तात्
आ रोदसी ऽ अपृणद् आ स्वर् महज् जातं यद् एनम् अपसो ऽ अधारयन् । सो ऽ अध्वराय परि णीयते कविर् अत्यो न वाजसातये चनोहितः
उक्थेभिर् वृत्रहन्तमा या मन्दाना चिद् आ गिरा । आङ्गूषैर् आविवासतः
उप नः सूनवो गिरः शृण्वन्त्व् अमृतस्य ये । सुमृडीका भवन्तु नः
ब्रह्माणि मे मतयः शꣳ सुतासः शुष्म ऽ इयर्ति प्रभृतो मे ऽ अद्रिः । आ शासते प्रति हर्यन्त्य् उक्थेमा हरी वहतस् ता नो ऽ अच्छ
अनुत्तमा ते मघवन् नकिर् नु न त्वावाꣳ२ऽ अस्ति देवता विदानः । न जायमानो नशते न जातो यानि करिष्या कृणुहि प्रवृद्ध
तद् इद् आस भुवनेषु ज्येष्ठं यतो जज्ञ ऽ उग्रस् त्वेषनृम्णः । सद्यो जज्ञानो नि रिणाति शत्रून् अनु यं विश्वे मदन्त्य् ऊमाः
इमा ऽ उ त्वा पुरूवसो गिरो वर्धन्तु या मम । पावकवर्णाः शुचयो विपश्चितो ऽभि स्तोमैर् अनूषत
यस्यायं विश्व ऽ आर्यो दासः शेवधिपा ऽ अरिः । तिरश् चिद् अर्ये रुशमे परीरवि तुभ्येत् सो ऽ अज्यते रयिः
अयꣳ सहस्रम् ऋषिभिः सहस्कृतः समुद्र ऽ इव पप्रथे । सत्यः सो ऽ अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये
अदब्धेभिः सवितः पायुभिष् ट्वꣳ शिवेभिर् अद्य परि पाहि नो गयम् । हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर् नो ऽ अघशꣳस ऽ ईशत
आ नो यज्ञं दिविस्पृशं वायो याहि सुमन्मभिः । अन्तः पवित्र ऽ उपरि श्रीणानो ऽयꣳ शुक्रो ऽ अयामि ते
इन्द्रवायू सुसंदृशा सुहवेह हवामहे । यथा नः सर्व ऽ इज् जनो ऽनमीवः संगमे सुमना ऽ असत्
ऋधग् इत्था स मर्त्यः शशमे देवतातये । यो नूनं मित्रावरुणाव् अभिष्टय ऽ आचक्रे हव्यदातये
आ यातम् उप भूषतं मध्वः पिबतम् अश्विना । दुग्धं पयो वृषणा जेन्यावसू मा नो मर्धिष्टम् आ गतम्
प्रैतु ब्रह्मणस् पतिः प्र देव्य् एतु सूनृता । अच्छा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः
चन्द्रमा ऽ अप्स्व् अन्तर् आ सुपर्णो धावते दिवि । रयिं पिशंगं बहुलं पुरुस्पृहꣳ हरिर् एति कनिक्रदत्
देवं-देवं वो ऽवसे देवं-देवम् अभिष्टये । देवं-देवꣳ हुवेम वाजसातये गृणन्तो देव्या धिया
दिवि पृष्टो ऽ अरोचताग्निर् वैश्वानरो बृहन् । क्ष्मया वृधान ऽ ओजसा चनोहितो ज्योतिषा बाधते तमः
इन्द्राग्नी ऽ अपाद् इयं पूर्वागात् पद्वतीभ्यः । हित्वी शिरो जिह्वया वावदच् चरत् त्रिꣳशत् पदा न्य् अक्रमीत्
देवासो हि ष्मा मनवे समन्यवो विश्वे साकꣳ सरातयः । ते नो ऽ अद्य ते अपरं तुचे तु नो भवन्तु वरिवोविदः
अपाधमद् अभिशस्तीर् अशस्तिहाथेन्द्रो द्युम्न्य् आभवत् । देवास् त ऽ इन्द्र सख्याय येमिरे बृहद्भानो मरुद्गण
प्र व ऽ इन्द्राय बृहते मरुतो ब्रह्मार्चत । वृत्रꣳ हनति वृत्रहा शतक्रतुर् वज्रेण शतपर्वणा
अस्येद् इन्द्रो वावृधे वृष्ण्यꣳ शवो मदे सुतस्य विष्णवि । अद्या तम् अस्य महिमानम् आयवो ऽनु ष्टुवन्ति पूर्वथा । [इमा ऽ उ त्वा । यस्यायम् । अयꣳ सहस्रम् । ऊर्ध्व ऽ ऊ षु णः ॥] (अ.वे. )
यज् जाग्रतो दूरम् उदैति दैवं तद् उ सुप्तस्य तथैवैति । दूरंगमं ज्योतिषां ज्योतिर् एकं तन् मे मनः शिवसंकल्पम् अस्तु
येन कर्माण्य् अपसो मनीषिणो यज्ञे कृण्वन्ति विदथेषु धीराः । यद् अपूर्वं यक्षम् अन्तः प्रजानां तन् मे मनः शिवसंकल्पम् अस्तु
यत् प्रज्ञानम् उत चेतो धृतिश् च यज् ज्योतिर् अन्तर् अमृतं प्रजासु । यस्मान् न ऽ ऋते किं चन कर्म क्रियते तन् मे मनः शिवसंकल्पम् अस्तु
येनेदं भूतं भुवनं भविष्यत् परिगृहीतम् अमृतेन सर्वम् । येन यज्ञस् तायते सप्तहोता तन् मे मनः शिवसंकल्पम् अस्तु