उपास्मै गायता नरः पवमानायेन्दवे । अभि देवाꣳ२ऽ इयक्षते
ये त्वाहिहत्ये मघवन्न् अवर्धन् ये शाम्बरे हरिवो ये गविष्टौ । ये त्वा नूनम् अनुमदन्ति विप्राः पिबेन्द्र सोमꣳ सगणो मरुद्भिः
जनिष्ठा ऽ उग्रः सहसे तुराय मन्द्र ऽ ओजिष्ठो बहुलाभिमानः । अवर्धन्न् इन्द्रं मरुतश् चिद् अत्र माता यद् वीरं दधनद् धनिष्ठा
आ तू न ऽ इन्द्र वृत्रहन्न् अस्माकम् अर्धम् आ गहि । महान् महीभिर् ऊतिभिः
त्वम् इन्द्र प्रतूर्तिष्व् अभि विश्वा ऽ असि स्पृधः । अशस्तिहा जनिता विश्वतूर् असि त्वं तूर्य तरुष्यतः
अनु ते शुष्मं तुरयन्तम् ईयतुः क्षोणी शिशुं न मातरा । विश्वास् ते स्पृधः श्नथयन्त मन्यवे वृत्रं यद् इन्द्र तूर्वसि
यज्ञो देवानां प्रत्य् एति सुम्नम् आदित्यासो भवता मृडयन्तः । आ वो ऽर्वाची सुमतिर् ववृत्याद् अꣳहोश् चिद् या वरिवोवित्तरासत्
अदब्धेभिः सवितः पायुभिष् ट्वꣳ शिवेभिर् अद्य परि पाहि नो गयम् । हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर् नो ऽ अघशꣳस ऽ ईशत
प्र वीरया शुचयो दद्रिरे वाम् अध्वर्युभिर् मधुमन्तः सुतासः । वह वायो नियुतो याह्य् अच्छा पिबा सुतस्यान्धसो मदाय
गाव ऽ उपावतावतं मही यज्ञस्य रप्सुदा । उभा कर्णा हिरण्यया
काव्ययोर् आजानेषु क्रत्वा दक्षस्य दुरोणे । रिशादसा सधस्थ ऽ आ
दैव्याव् अध्वर्यू आ गतꣳ रथेन सूर्यत्वचा । मध्वा यज्ञꣳ सम् अञ्जाथे । [ + तं प्रत्नथा । अयं वेनः ॥]
तिरश्चीनो विततो रश्मिर् एषाम् अधः स्विद् आसी३द् उपरि स्विद् आसी३त् । रेतोधा ऽ आसन् महिमान ऽ आसन्त् स्वधा ऽ अवस्तात् प्रयतिः परस्तात्
आ रोदसी ऽ अपृणद् आ स्वर् महज् जातं यद् एनम् अपसो ऽ अधारयन् । सो ऽ अध्वराय परि णीयते कविर् अत्यो न वाजसातये चनोहितः
उक्थेभिर् वृत्रहन्तमा या मन्दाना चिद् आ गिरा । आङ्गूषैर् आविवासतः
उप नः सूनवो गिरः शृण्वन्त्व् अमृतस्य ये । सुमृडीका भवन्तु नः
ब्रह्माणि मे मतयः शꣳ सुतासः शुष्म ऽ इयर्ति प्रभृतो मे ऽ अद्रिः । आ शासते प्रति हर्यन्त्य् उक्थेमा हरी वहतस् ता नो ऽ अच्छ
अनुत्तमा ते मघवन् नकिर् नु न त्वावाꣳ२ऽ अस्ति देवता विदानः । न जायमानो नशते न जातो यानि करिष्या कृणुहि प्रवृद्ध
तद् इद् आस भुवनेषु ज्येष्ठं यतो जज्ञ ऽ उग्रस् त्वेषनृम्णः । सद्यो जज्ञानो नि रिणाति शत्रून् अनु यं विश्वे मदन्त्य् ऊमाः
इमा ऽ उ त्वा पुरूवसो गिरो वर्धन्तु या मम । पावकवर्णाः शुचयो विपश्चितो ऽभि स्तोमैर् अनूषत
यस्यायं विश्व ऽ आर्यो दासः शेवधिपा ऽ अरिः । तिरश् चिद् अर्ये रुशमे परीरवि तुभ्येत् सो ऽ अज्यते रयिः
अयꣳ सहस्रम् ऋषिभिः सहस्कृतः समुद्र ऽ इव पप्रथे । सत्यः सो ऽ अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये
अदब्धेभिः सवितः पायुभिष् ट्वꣳ शिवेभिर् अद्य परि पाहि नो गयम् । हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर् नो ऽ अघशꣳस ऽ ईशत
आ नो यज्ञं दिविस्पृशं वायो याहि सुमन्मभिः । अन्तः पवित्र ऽ उपरि श्रीणानो ऽयꣳ शुक्रो ऽ अयामि ते
इन्द्रवायू सुसंदृशा सुहवेह हवामहे । यथा नः सर्व ऽ इज् जनो ऽनमीवः संगमे सुमना ऽ असत्
ऋधग् इत्था स मर्त्यः शशमे देवतातये । यो नूनं मित्रावरुणाव् अभिष्टय ऽ आचक्रे हव्यदातये
आ यातम् उप भूषतं मध्वः पिबतम् अश्विना । दुग्धं पयो वृषणा जेन्यावसू मा नो मर्धिष्टम् आ गतम्
प्रैतु ब्रह्मणस् पतिः प्र देव्य् एतु सूनृता । अच्छा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः
चन्द्रमा ऽ अप्स्व् अन्तर् आ सुपर्णो धावते दिवि । रयिं पिशंगं बहुलं पुरुस्पृहꣳ हरिर् एति कनिक्रदत्
देवं-देवं वो ऽवसे देवं-देवम् अभिष्टये । देवं-देवꣳ हुवेम वाजसातये गृणन्तो देव्या धिया