अद्या देवा ऽ उदिता सूर्यस्य निर् अꣳहसः पिपृता निर् अवद्यात् । तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी ऽ उत द्यौः
आ कृष्णेन रजसा वर्तमानो निवेशयन्न् अमृतं मर्त्यं च । हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन्
प्र वावृजे सुप्रया बर्हिर् एषाम् आ विश्पतीव बीरिट ऽ इयाते । विशाम् अक्तोर् उषसः पूर्वहूतौ वायुः पूषा स्वस्तये नियुत्वान्
इन्द्रवायू बृहस्पतिं मित्राग्निं पूषणं भगम् । आदित्यान् मारुतं गणम्
वरुणः प्राविता भुवन् मित्रो विश्वाभिर् ऊतिभिः । करतां नः सुराधसः
अधि न इन्द्रेषां विष्णो सजात्यानाम् । इता मरुतो ऽ अश्विना । [तं प्रत्नथा । अयं वेनः । ये देवासः । आ न इडाभिः । विश्वेभिः सोम्यं मधु ।] (अ.वे. 7.12, 16. 19, ) ओमासश् चर्षणीधृतः
अग्न ऽ इन्द्र वरुण मित्र देवाः शर्धः प्र यन्त मारुतोत विष्णो । उभा नासत्या रुद्रो ऽ अध ग्नाः पूषा भगः सरस्वती जुषन्त
इन्द्राग्नी मित्रावरुणादितिꣳ स्वः पृथिवीं द्यां मरुतः पर्वताꣳ२ऽ अपः । हुवे विष्णुं पूषणं ब्रह्मणस्पतिं भगं नु शꣳसꣳ सवितारमूतये
अस्मे रुद्रा मेहना पर्वतासो वृत्रहत्ये भरहूतौ सजोषाः । यः शꣳसते स्तुवते धायि पज्र ऽ इन्द्रज्येष्ठा ऽ अस्माꣳ२ऽ अवन्तु देवाः
अर्वाञ्चो ऽ अद्या भवता यजत्रा ऽ आ वो हार्दि भयमानो व्ययेयम् । त्राध्वं नो देवा निजुरो वृकस्य त्राध्वं कर्ताद् अवपदो यजत्राः
विश्वे ऽ अद्य मरुतो विश्व ऽ ऊती विश्वे भवन्त्व् अग्नयः समिद्धाः । विश्वे नो देवा ऽ अवसा गमन्तु विश्वम् अस्तु द्रविणं वाजो ऽ अस्मे
विश्वे देवाः शृणुतेमꣳ हवं मे ये ऽ अन्तरिक्षे य ऽ उप द्यवि ष्ठ । ये ऽ अग्निजिह्वा ऽ उत वा यजत्रा ऽ आसद्यास्मिन् बर्हिषि मादयध्वम्
देवेभ्यो हि प्रथमं यज्ञियेभ्यो ऽमृतत्वꣳ सुवसि भागम् उत्तमम् । आद् इद् दामानꣳ सवितर् व्य् ऊर्णुषे ऽनूचीना जीविता मानुषेभ्यः
प्र वायुम् अच्छा बृहती मनीषा बृहद्रयिं विश्ववारꣳ रथप्राम् । द्युतद्यामा नियुतः पत्यमानः कविः कविम् इयक्षसि प्रयज्यो
इन्द्रवायू ऽ इमे सुता ऽ उप प्रयोभिर् आगतम् । इन्दवो वाम् उशन्ति हि
मित्रꣳ हुवे पूतदक्षं वरुणं च रिशादसम् । धियं घृताचीꣳ साधन्ता
दस्रा युवाकवः सुता नासत्या वृक्तबर्हिषः । आ यातꣳ रुद्रवर्तनी । [ तं प्रत्नथा । अयं वेनः ॥ ](अ.वे. 7.12.16)
विदद् यदी सरमा रुग्णम् अद्रेर् महि पाथः पूर्व्यꣳ सध्र्यक् कः । अग्रं नयत् सुपद्य् अक्षराणाम् अच्छा रवं प्रथमा जानती गात्
नहि स्पशम् अविदन्न् अन्यम् अस्माद् वैश्वानरात् पुर ऽ एतारम् अग्नेः । एम् एनम् अवृधन्न् अमृता ऽ अमर्त्यं वैश्वानरं क्षैत्रजित्याय देवाः
उग्रा विघनिना मृध ऽ इन्द्राग्नी हवामहे । ता नो मृडात ऽ ईदृशे
उपास्मै गायता नरः पवमानायेन्दवे । अभि देवाꣳ२ऽ इयक्षते
ये त्वाहिहत्ये मघवन्न् अवर्धन् ये शाम्बरे हरिवो ये गविष्टौ । ये त्वा नूनम् अनुमदन्ति विप्राः पिबेन्द्र सोमꣳ सगणो मरुद्भिः
जनिष्ठा ऽ उग्रः सहसे तुराय मन्द्र ऽ ओजिष्ठो बहुलाभिमानः । अवर्धन्न् इन्द्रं मरुतश् चिद् अत्र माता यद् वीरं दधनद् धनिष्ठा
आ तू न ऽ इन्द्र वृत्रहन्न् अस्माकम् अर्धम् आ गहि । महान् महीभिर् ऊतिभिः
त्वम् इन्द्र प्रतूर्तिष्व् अभि विश्वा ऽ असि स्पृधः । अशस्तिहा जनिता विश्वतूर् असि त्वं तूर्य तरुष्यतः
अनु ते शुष्मं तुरयन्तम् ईयतुः क्षोणी शिशुं न मातरा । विश्वास् ते स्पृधः श्नथयन्त मन्यवे वृत्रं यद् इन्द्र तूर्वसि
यज्ञो देवानां प्रत्य् एति सुम्नम् आदित्यासो भवता मृडयन्तः । आ वो ऽर्वाची सुमतिर् ववृत्याद् अꣳहोश् चिद् या वरिवोवित्तरासत्
अदब्धेभिः सवितः पायुभिष् ट्वꣳ शिवेभिर् अद्य परि पाहि नो गयम् । हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर् नो ऽ अघशꣳस ऽ ईशत
प्र वीरया शुचयो दद्रिरे वाम् अध्वर्युभिर् मधुमन्तः सुतासः । वह वायो नियुतो याह्य् अच्छा पिबा सुतस्यान्धसो मदाय
गाव ऽ उपावतावतं मही यज्ञस्य रप्सुदा । उभा कर्णा हिरण्यया