इरावती धेनुमती हि भूतꣳ सूयवसिनी मनवे दशस्या । व्यस्कभ्ना रोदसी विष्णव् एते दाधर्त्थ पृथिवीम् अभितो मयूखैः स्वाहा
देवश्रुतौ देवेष्व् आ घोषतम् । प्राची प्रेतम् अध्वरं कल्पयन्ती ऽ ऊर्ध्वं यज्ञं नयतं मा जिह्वरतम् । स्वं गोष्ठम् आ वदतं देवी दुर्ये ऽ आयुर् मा निर्वादिष्टं प्रजां मा निर्वादिष्टम् । अत्र रमेथां वर्ष्मन् पृथिव्याः
विष्णोर् नु कं वीर्याणि प्र वोचं यः पार्थिवानि विममे रजाꣳसि । यो ऽ अस्कभायद् उत्तरꣳ सधस्थं विचक्रमाणस् त्रेधोरुगायः । विष्णवे त्वा
दिवो वा विष्ण ऽ उत वा पृथिव्या महो वा विष्णऽउरोरन्तरिक्षात् । उभा हि हस्ता वसुना पृणस्वा प्रयच्छ दक्षिणाद् ओत सव्यात् । विष्णवे त्वा
प्र तद् विष्णु स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेष्व् अधिक्षियन्ति भुवनानि विश्वा
विष्णो रराटम् असि । विष्णोः श्नप्त्रे स्थः । विष्णोः स्यूर् असि । विष्णोर् ध्रुवो सि । वैष्णवम् असि विष्णवे त्वा
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् । आ ददे नार्य् असि । इदम् अहꣳ रक्षसां ग्रीवा ऽ अपिकृन्तामि । बृहन्न् असि बृहद्रवा बृहतीम् इन्द्राय वाचं वद
रक्षोहणं वलगहनं वैष्णवीम् । इदम् अहं तं वलगम् उत् किरामि यं मे निष्ट्यो यम् अमात्यो निचखान । इदम् अहं तं वलगम् उत् किरामि यं मे समानो यम् असमानो निचखान । इदम् अहं तं वलगम् उत् किरामि यं मे सबन्धुर् यम् असबन्धुर् निचखान । इदम् अहं तं वलगम् उत् किरामि यं मे सजातो यम् असजातो निचखान । उत् कृत्यां किरामि
स्वराड् असि सपत्नहा । सत्रराड् अस्य् अभिमातिहा । जनराड् असि रक्षोहा । सर्वराड् अस्य् अमित्रहा
रक्षोहणो वो वलगहनः प्रोक्षामि वैष्णवान् । रक्षोहणो वो वलगहनो ऽव नयामि वैष्णवान् । रक्षोहणो वो वलगहनो ऽव स्तृणामि वैष्णवान् । रक्षोहणौ वां वलगहना ऽ उप दधामि वैष्णवी । रक्षोहणौ वां वलगहनौ पर्य् ऊहामि वैष्णवी । वैष्णवम् असि । वैष्णवा स्थ
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् । आ ददे नार्य् असि । इदम् अहꣳ रक्षसां ग्रीवा ऽ अपि कृन्तामि । यवो ऽसि यवयास्मद् द्वेषो यवयारातीः । दिवे त्वाऽन्तरिक्षाय त्वा पृथिव्यै त्वा । शुन्धन्तां लोकाः पितृषदनाः । पितृषदनम् असि
उद् दिवꣳ स्तभानान्तरिक्षं पृण दृꣳहस्व पृथिव्याम् । द्युतानास् त्वा मारुतो मिनोतु मित्रावरुणौ ध्रुवेण धर्मणा । ब्रह्मवनि त्वा क्षत्रवनि त्वा रायस्पोषवनि पर्य् ऊहामि । ब्रह्म दृꣳह क्षत्रं दृꣳहायुर् दृꣳह प्रजां दृꣳह
ध्रुवासि ध्रुवो ऽयं यजमानो ऽस्मिन्न् आयतने प्रजया पशुभिर् भूयात् । घृतेन द्यावापृथिवी पूर्येथाम् । इन्द्रस्य छदिर् असि विश्वजनस्य छाया
परि त्वा गिर्वणो गिर ऽ इमा भवन्तु विश्वतः । वृद्धायुम् अनु वृद्धयो जुष्टा भवन्तु जुष्टयः
इन्द्रस्य स्यूर् असि । इन्द्रस्य ध्रुवो ऽसि । ऐन्द्रम् असि । वैश्वदेवम् असि
[[ब्रह्माण्डपुराणम्/पूर्वभागः/अध्यायः १२|ब्रह्माण्डपुराणम् १.२.१२.२७]], [[वायुपुराणम्/पूर्वार्धम्/अध्यायः २९|वायुपुराणम् २९.२६]]विभूर् असि प्रवाहणः । वह्निर् असि हव्यवाहनः । श्वात्रो ऽसि प्रचेताः । तुथो ऽसि विश्ववेदाः
उशिग् असि कविः । अङ्घारिर् असि बम्भारिः । अवस्यूर् असि दुवस्वान् । शुन्ध्यूर् असि मार्जालीयः । सम्राड् असि कृशानुः । परिषद्योऽसि पवमानः । नभोऽसि प्रतक्वा । मृष्टो ऽसि हव्यसूदनः । ऽऋतधामासि स्वर्ज्योतिः
समुद्रो ऽसि विश्वव्यचाः । ऽअजो ऽस्य् एकपात् । अहिर् असि बुध्न्यः । वाग् अस्य् ऐन्द्रम् असि सदो ऽसि । ऋतस्य द्वारौ मा मा संताप्तम् । अध्वनाम् अध्वपते प्र मा तिर स्वस्ति मे ऽस्मिन् पथि देवयाने भूयात्
मित्रस्य मा चक्षुषेक्षध्वम् । अग्नयः सगराः सगरा स्थ सगरेण नाम्ना रुद्रेणानीकेन पात माग्नयः पिपृत माग्नयो गोपायत मा नमो वो स्तु मा मा हिꣳसिष्ट
ज्योतिर् असि विश्वरूपं विश्वेषां देवाना समित् । त्वꣳ सोम तनूकृद्भ्यो द्वेषोभ्यो ऽन्यकृतेभ्य ऽउरु यन्तासि वरूथꣳ स्वाहा । जुषाणो ऽअप्तुर् आज्यस्य वेतु स्वाहा
अग्ने नय सुपथा राये ऽअस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्य् अस्मज् जुहुराणम् एनो भूयिष्ठां ते नमऽउक्तिं विधेम
अयं नो ऽ अग्निर् वरिवस् कृणोत्व् अयं मृधः पुर ऽएतु प्रभिन्दन् । अयं वाजान् जयतु वाजसाताव् अयꣳ शत्रून् जयतु जर्हृषाणः स्वाहा
उरु विष्णो वि क्रमस्वोरु क्षयाय नस् कृधि । घृतं घृतयोने पिब प्र-प्र यज्ञपतिं तिर स्वाहा
देव सवितर् एष ते सोमस् तꣳ रक्षस्व मा त्वा दभन् । एतत् त्वं देव सोम देवो देवाँ2 ऽ उपागा ऽ इदम् अहं मनुष्यान्त् सह रायस्पोषेण स्वाहा निर् वरुणस्य पाशान् मुच्ये
अग्ने व्रतपास् त्वे व्रतपा या तव तनूर् मय्य् अभूद् एषा सा त्वयि यो मम तनूस् त्वय्य् अभूद् इयꣳ सा मयि । यथायथं नौ व्रतपते व्रतान्य् अनु मे दीक्षां दीक्षापतिर् अमꣳस्तानु तपस् तपस्पतिः
उरु विष्णो वि क्रमस्वोरु क्षयाय नस् कृधि । घृतं घृतयोने पिब प्र-प्र यज्ञपतिं तिर स्वाहा
अत्य् अन्याꣳ ऽ अगां नान्याꣳ ऽ उपागाम् अर्वाक् त्वा परेभ्यो ऽविदं परो ऽवरेभ्यः । तं त्वा जुषामहे देव वनस्पते देवयज्यायै देवास् त्वा देवयज्यायै जुषन्तां विष्णवे त्वा । ओषधे त्रायस्व । स्वधिते मैनꣳ हिꣳसीः
द्यां मा लेखीर् अन्तरिक्षं मा हिꣳसीः पृथिव्या सं भव । अयꣳ हि त्वा स्वधितिस् तेतिजानः प्रणिनाय महते सौभगाय । अतस् त्वं देव वनस्पते शतवल्शो वि रोह सहस्रवल्शा वि वयꣳ रुहेम
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् । आ ददे नार्य् असि । इदम् अहꣳ रक्षसां ग्रीवा ऽ अपि कृन्तामि । यवो ऽसि यवयास्मद् द्वेषो यवयारातीः । दिवेऽत्वान्तरिक्षाय त्वा पृथिव्यै त्वा । शुन्धन्तां लोकाः पितृषदनाः । पितृषदनम् असि
अग्रेणीर् असि स्वावेश ऽ उन्नेतॄणाम् एतस्य वित्ताद् अधि त्वा स्थास्यति । देवस् त्वा सविता मध्व् आनक्तु । सुपिप्पलाभ्यस् त्वौषधीभ्यः । द्याम् अग्रेणास्पृक्ष ऽ आन्तरिक्षं मध्येनाप्राः पृथिवीम् उपरेणादृꣳहीः