अग्ने शर्ध महते सौभगाय तव द्युम्नान्य् उत्तमानि सन्तु । सं जास्पत्यꣳ सुयमम् आ कृणुष्व शत्रूयताम् अभि तिष्ठा महाꣳसि
त्वाꣳ हि मन्द्रतमम् अर्कशोकैर् ववृमहे महि नः श्रोष्य् अग्ने । इन्द्रं न त्वा शवसा देवता वायुं पृणन्ति राधसा नृतमाः
त्वे ऽ अग्ने स्वाहुत प्रियासः सन्तु सूरयः । यन्तारो ये मघवानो जनानामूर्वान् दयन्त गोनाम्
श्रुधि श्रुत्कर्ण वह्निभिर् देवैर् अग्ने सयावभिः । आ सीदन्तु बर्हिषि मित्रो ऽ अर्यमा प्रातर्यावाणो ऽ अध्वरम्
विश्वेषाम् अदितिर् यज्ञियानां विश्वेषाम् अतिथिर् मानुषाणाम् । अग्निर् देवानाम् अव ऽ आवृणानः सुमृडीको भवतु जातवेदाः
महो ऽ अग्नेः समिधानस्य शर्मण्य् अनागा मित्रे वरुणे स्वस्तये । श्रेष्ठे स्याम सवितुः सवीमनि तद् देवानाम् अवो ऽ अद्या वृणीमहे
आपश् चित् पिप्यु स्तर्यो न गावो नक्षन्न् ऋतं जरितारस् त ऽ इन्द्र । याहि वायुर् न नियुतो नो ऽ अच्छा त्वꣳ हि धीभिर् दयसे वि वाजान्
गाव ऽ उपावतावतं मही यज्ञस्य रप्सुदा । उभा कर्णा हिरण्यया
यद् अद्य सूर ऽ उदिते नागा मित्रो ऽ अर्यमा । सुवाति सविता भगः
आ सुते सिञ्चत श्रियꣳ रोदस्योर् अभिश्रियम् । रसा दधीत वृषभम् ॥[ तं प्रत्नथा। अयं वेनः॥]
आतिष्ठन्तं परि विश्वे ऽ अभूषञ् छ्रियो वसानश् चरति स्वरोचिः । महत् तद् वृष्णो ऽ असुरस्य नामा विश्वरूपो ऽ अमृतानि तस्थौ
प्र वो महे मन्दमानायान्धसो ऽर्चा विश्वानराय विश्वाभुवे । इन्द्रस्य यस्य सुमखꣳ सहो महि श्रवो नृम्णं च रोदसी सपर्यतः
बृहन्न् इद् इध्म ऽ एषां भूरि शस्तं पृथुः स्वरुः । येषाम् इन्द्रो युवा सखा
इन्द्रेहि मत्स्य् अन्धसो विश्वेभिः सोमपर्वभिः । महाꣳ२ऽ अभिष्टिर् ओजसा
इन्द्रो वृत्रम् अवृणोच्छर्धनीतिः प्र मायिनाम् अमिनाद् वर्पणीतिः । अहन् व्यꣳसम् उशधग् वनेष्व् आविर् धेना ऽ अकृणोद् राम्याणाम्
कुतस् त्वम् इन्द्र माहिनः सन्न् एको यासि सत्पते किं त ऽ इत्था । सं पृच्छसे समराणः शुभानैर् वोचेस् तन् नो हरिवो यत् ते ऽ अस्मे । महाꣳ२ऽ इन्द्रो य ऽ ओजसा । कदा चन स्तरीर् असि । कदा चन प्र युच्छसि
आ तत् त ऽ इन्द्रायवः पनन्ताभि य ऽ ऊर्वं गोमन्तं तितृत्सान् । सकृत्स्वं ये पुरुपुत्रां महीꣳ सहस्रधारां बृहतीं दुदुक्षन्
इमां ते धियं प्र भरे महो महीम् अस्य स्तोत्रे धिषणा यत् त ऽ आनजे । तम् उत्सवे च प्रसवे च सासहिम् इन्द्रं देवासः शवसामदन्न् अनु
विभ्राड् बृहत् पिबतु सोम्यं मध्व् आयुर् दधद् यज्ञपताव् अविह्रुतम् । वातजूतो यो ऽ अभिरक्षति त्मना प्रजाः पुपोष पुरुधा वि राजति
उद् उ त्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यꣳ स्वाहा
येना पावक चक्षसा भुरण्यन्तं जनाꣳ२ऽ अनु । त्वं वरुण पश्यसि
दैव्याव् अध्वर्यू ऽ आ गतꣳ रथेन सूर्यत्वचा । मध्वा यज्ञꣳ सम् अञ्जाथे । तं प्रत्नथा । अयं वेनः। चित्रं देवानाम्(अ.वे.) अयं वेनः । चित्रम् देवानाम्
आ न ऽ इडाभिर् विदथे सुशस्ति विश्वानरः सविता देव ऽ एतु । अपि यथा युवानो मत्सथा नो विश्वं जगद् अभिपित्वे मनीषा
यद् अद्य कच् च वृत्रहन्न् उदगा ऽ अभि सूर्य । सर्वं तद् इन्द्र ते वशे
तरणिर् विश्वदर्शतो ज्योतिष्कृद् असि सूर्य । विश्वम् आ भासि रोचनम्
तत् सूर्यस्य देवत्वं तन् महित्वं मध्या कर्तोर् विततꣳ सं जभार । यदेद् अयुक्त हरितः सधस्थाद् आद् रात्री वासस् तनुते सिमस्मै
तन् मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योर् उपस्थे । अनन्तम् अन्यद् रुशद् अस्य पाजः कृष्णम् अन्यद् धरितः सं भरन्ति
बण् महाꣳ२ऽ असि सूर्य बड् आदित्य महाꣳ२ऽ असि । महस् ते सतो महिमा पनस्यते द्धा देव महाꣳ२ऽ असि
बट् सूर्य श्रवसा महाꣳ२ऽ असि सत्रा देव महाꣳ२ऽ असि । मह्ना देवानाम् असुर्यः पुरोहितो विभु ज्योतिर् अदाभ्यम्
श्रायन्त ऽ इव सूर्यं विश्वेद् इन्द्रस्य भक्षत । वसूनि जाते जनमान ऽ ओजसा प्रति भागं न दीधिम