हरयो धूमकेतवो वातजूता ऽ उप द्यवि । यतन्ते वृथग् अग्नयः
यजा नो मित्रावरुणा यजा देवाꣳ २ऽ ऋतं बृहत् । अग्ने यक्षि स्वं दमम्
युक्ष्वा हि देवहूतमाꣳ२ऽ अश्वाꣳ२ऽ अग्ने रथीर् इव । नि होता पूर्व्यः सदः
द्वे विरूपे चरतः स्वर्थे ऽ अन्यान्या वत्सम् उप धापयेते । हरिर् अन्यस्यां भवति स्वधावाञ्छुक्रो ऽ अन्यस्यां ददृशे सुवर्चाः
अयम् इह प्रथमो धायि धातृभिर् होता यजिष्ठो ऽ अध्वरेष्व् ईड्यः । यम् अप्नवानो भृगवो विरुरुचुर् वनेषु चित्रं विभ्वं विशे-विशे
त्रीणि शता त्री सहस्राण्य् अग्निं त्रिꣳशच् च देवा नव चासपर्यन् । औक्षन् घृतैर् अस्तृणन् बर्हिर् अस्मा ऽ आद् इद् होतारं न्य् असादयन्त
मूर्धानं दिवो ऽ अरतिं पृथिव्या वैश्वानरम् ऋत ऽ आ जातम् अग्निम् । कविꣳ सम्राजम् अतिथिं जनानाम् आसन्न् आ पात्रं जनयन्त देवाः
अग्निर् वृत्राणि जङ्घनद् द्रविणस्युर् विपन्यया । समिद्धः शुक्र ऽ आहुतः
विश्वेभिः सोम्यं मध्व् अग्न ऽ इन्द्रेण वायुना । पिबा मित्रस्य धामभिः
आ यद् इषे नृपतिं तेज ऽ आनट् शुचि रेतो निषिक्तं द्यौर् अभीके । अग्निः शर्धम् अनवद्यं युवानꣳ स्वाध्यं जनयत् सूदयच् च
अग्ने शर्ध महते सौभगाय तव द्युम्नान्य् उत्तमानि सन्तु । सं जास्पत्यꣳ सुयमम् आ कृणुष्व शत्रूयताम् अभि तिष्ठा महाꣳसि
त्वाꣳ हि मन्द्रतमम् अर्कशोकैर् ववृमहे महि नः श्रोष्य् अग्ने । इन्द्रं न त्वा शवसा देवता वायुं पृणन्ति राधसा नृतमाः
त्वे ऽ अग्ने स्वाहुत प्रियासः सन्तु सूरयः । यन्तारो ये मघवानो जनानामूर्वान् दयन्त गोनाम्
श्रुधि श्रुत्कर्ण वह्निभिर् देवैर् अग्ने सयावभिः । आ सीदन्तु बर्हिषि मित्रो ऽ अर्यमा प्रातर्यावाणो ऽ अध्वरम्
विश्वेषाम् अदितिर् यज्ञियानां विश्वेषाम् अतिथिर् मानुषाणाम् । अग्निर् देवानाम् अव ऽ आवृणानः सुमृडीको भवतु जातवेदाः
महो ऽ अग्नेः समिधानस्य शर्मण्य् अनागा मित्रे वरुणे स्वस्तये । श्रेष्ठे स्याम सवितुः सवीमनि तद् देवानाम् अवो ऽ अद्या वृणीमहे
आपश् चित् पिप्यु स्तर्यो न गावो नक्षन्न् ऋतं जरितारस् त ऽ इन्द्र । याहि वायुर् न नियुतो नो ऽ अच्छा त्वꣳ हि धीभिर् दयसे वि वाजान्
गाव ऽ उपावतावतं मही यज्ञस्य रप्सुदा । उभा कर्णा हिरण्यया
यद् अद्य सूर ऽ उदिते नागा मित्रो ऽ अर्यमा । सुवाति सविता भगः
आ सुते सिञ्चत श्रियꣳ रोदस्योर् अभिश्रियम् । रसा दधीत वृषभम् ॥[ तं प्रत्नथा। अयं वेनः॥]
आतिष्ठन्तं परि विश्वे ऽ अभूषञ् छ्रियो वसानश् चरति स्वरोचिः । महत् तद् वृष्णो ऽ असुरस्य नामा विश्वरूपो ऽ अमृतानि तस्थौ
प्र वो महे मन्दमानायान्धसो ऽर्चा विश्वानराय विश्वाभुवे । इन्द्रस्य यस्य सुमखꣳ सहो महि श्रवो नृम्णं च रोदसी सपर्यतः
बृहन्न् इद् इध्म ऽ एषां भूरि शस्तं पृथुः स्वरुः । येषाम् इन्द्रो युवा सखा
इन्द्रेहि मत्स्य् अन्धसो विश्वेभिः सोमपर्वभिः । महाꣳ२ऽ अभिष्टिर् ओजसा
इन्द्रो वृत्रम् अवृणोच्छर्धनीतिः प्र मायिनाम् अमिनाद् वर्पणीतिः । अहन् व्यꣳसम् उशधग् वनेष्व् आविर् धेना ऽ अकृणोद् राम्याणाम्
कुतस् त्वम् इन्द्र माहिनः सन्न् एको यासि सत्पते किं त ऽ इत्था । सं पृच्छसे समराणः शुभानैर् वोचेस् तन् नो हरिवो यत् ते ऽ अस्मे । महाꣳ२ऽ इन्द्रो य ऽ ओजसा । कदा चन स्तरीर् असि । कदा चन प्र युच्छसि
आ तत् त ऽ इन्द्रायवः पनन्ताभि य ऽ ऊर्वं गोमन्तं तितृत्सान् । सकृत्स्वं ये पुरुपुत्रां महीꣳ सहस्रधारां बृहतीं दुदुक्षन्
इमां ते धियं प्र भरे महो महीम् अस्य स्तोत्रे धिषणा यत् त ऽ आनजे । तम् उत्सवे च प्रसवे च सासहिम् इन्द्रं देवासः शवसामदन्न् अनु
विभ्राड् बृहत् पिबतु सोम्यं मध्व् आयुर् दधद् यज्ञपताव् अविह्रुतम् । वातजूतो यो ऽ अभिरक्षति त्मना प्रजाः पुपोष पुरुधा वि राजति
उद् उ त्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यꣳ स्वाहा