यत् पुरुषं व्य् अदधुः कतिधा व्यकल्पयन् । मुखं किम् अस्य कौ बाहू का ऊरू पादा ऽ उच्येते
ब्राह्मणो ऽस्य मुखम् आसीद् बाहू राजन्यः कृतः । ऊरू तद् अस्य यद् वैश्यः पद्भ्याꣳ शूद्रो ऽ अजायत
चन्द्रमा मनसो जातश् चक्षोः सूर्यो ऽ अजायत । श्रोत्राद् वायुश् च प्राणश् च मुखाद् अग्निर् अजायत
नाभ्या ऽ आसीद् अन्तरिक्षꣳ शीर्ष्णो द्यौः सम् अवर्तत । पद्भ्यां भूमिर् दिशः श्रोत्रात् तथा लोकाꣳऽ अकल्पयन्
यत् पुरुषेण हविषा देवा यज्ञम् अतन्वत । वसन्तो ऽस्यासीद् आज्यं ग्रीष्म ऽ इध्मः शरद् धविः
सप्तास्यासन् परिधयस् त्रिः सप्त समिधः कृताः । देवा यद् यज्ञं तन्वाना ऽ अबध्नन् पुरुषं पशुम्
यज्ञेन यज्ञम् अयजन्त देवास् तानि धर्माणि प्रथमान्य् आसन् । ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः
अद्भ्यः सम्भृतः पृथिव्यै रसाच् च विश्वकर्मणः सम् अवर्तताग्रे । तस्य त्वष्टा विदधद् रूपम् एति तन् मर्त्यस्य देवत्वम् आजानम् अग्रे
वेदाहम् एतं पुरुषं महान्तम् आदित्यवर्णं तमसः परस्तात् । तम् एव विदित्वाति मृत्युम् एति नान्यः पन्था विद्यते ऽयनाय
प्रजापतिश् चरति गर्भे ऽअन्तर् अजायमानो बहुधा वि जायते । तस्य योनिं परि पश्यन्ति धीरास् तस्मिन् ह तस्थुर् भुवनानि विश्वा
यो देवेभ्य ऽ आतपति यो देवानां पुरोहितः । पूर्वो यो देवेभ्यो जातो नमो रुचाय ब्राह्मये
रुचं ब्राह्म्यं जनयन्तो देवा ऽ अग्रे तद् अब्रुवन् । यस् त्वैवं ब्राह्मणो विद्यात् तस्य देवा ऽ असन् वशे
श्रीश् च ते लक्ष्मीश् च पत्न्याव् अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्ताम् । इष्णन्न् इषाणामुं म ऽ इषाण सर्वलोकं म ऽ इषाण
तद् एवाग्निस् तद् आदित्यस् तद् वायुस् तद् उ चन्द्रमाः । तद् एव शुक्रं तद् ब्रह्म ता ऽ आपः स प्रजापतिः
सर्वे निमेषा जज्ञिरे विद्युतः पुरुषाद् अधि । नैनमूर्ध्वं न तिर्यञ्चं न मध्ये परि जग्रभत्
न तस्य प्रतिमा ऽ अस्ति यस्य नाम महद् यशः । हिरण्यगर्भ ऽ इत्य् एषः । मा मा हिꣳसीद् इत्य् एषा । यस्मान् न जात ऽ इत्य् एष
एषो ह देवः प्रदिशो ऽनु सर्वाः पूर्वो ह जातः स ऽ उ गर्भे ऽ अन्तः । स ऽ एव जातः स जनिष्यमाणः प्रत्यङ् जनास् तिष्ठति सर्वतोमुखः
यस्माज् जातं न पुरा किं चनैव य आबभूव भुवनानि विश्वा । प्रजापतिः प्रजया सꣳरराणस् त्रीणि ज्योतीꣳषि सचते स षोडशी
येन द्यौर् उग्रा पृथिवी च दृढा येन स्व स्तभितं येन नाकः । यो ऽ अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम
यं क्रन्दसी ऽ अवसा तस्तभाने ऽ अभ्यैक्षेतां मनसा रेजमाने । यत्राधि सूर ऽ उदितो विभाति कस्मै देवाय हविषा विधेम । आपो ह यद् बृहतीः । यश् चिद् आपः
वेनस् तत् पश्यन् निहितं गुहा सद् यत्र विश्वं भवत्य् एकनीडम् । तस्मिन्न् इदꣳ सं च वि चैति सर्वꣳ स ऽ ओतः प्रोतश् च विभूः प्रजासु
प्र तद् वोचेद् अमृतं नु विद्वान् गन्धर्वो धाम विभृतं गुहा सत् । त्रीणि पदानि निहिता गुहास्य यस् तानि वेद स पितुः पितासत्
स नो बन्धुर् जनिता स विधाता धामानि वेद भुवनानि विश्वा । यत्र देवा ऽ अमृतम् आनशानास् तृतीये धामन्न् अध्य् ऐरयन्त
परीत्य भूतानि परीत्य लोकान् परीत्य सर्वाः प्रदिशो दिशश् च । उपस्थाय प्रथमजाम् ऋतस्यात्मनात्मानम् अभि सं विवेश
परि द्यावापृथिवी सद्य ऽ इत्वा परि लोकान् परि दिशः परि स्वः । ऋतस्य तन्तुं विततं विचृत्य तद् अपश्यत् तद् अभवत् तद् आसीत्
सदसस् पतिम् अद्भुतं प्रियम् इन्द्रस्य काम्यम् । सनिं मेधाम् अयासिषꣳम् स्वाहा
यां मेधां देवगणाः पितरश् चोपासते । तया माम् अद्य मेधयाग्ने मेधाविनं कुरु स्वाहा
मेधां मे वरुणो ददातु मेधाम् अग्निः प्रजापतिः । मेधाम् इन्द्रस् च वायुश् च मेधां धाता ददातु मे स्वाहा
इदं मे ब्रह्म च क्षत्रं चोभे श्रियम् अश्नुताम् । मयि देवा दधतु[ दधवु ] श्रियम् उत्तमां तस्यै ते स्वाहा
अस्याजरासो दमाम् अरित्रा ऽ अर्चद्धूमासो ऽ अग्नयः पावकाः । श्वितीचयः श्वात्रासो भुरण्यवो वनर्षदो वायवो न सोमाः