भायै दार्वाहारं प्रभाया ऽ अग्न्येधं ब्रध्नस्य विष्टपायाभिषेक्तारं वर्षिष्ठाय नाकाय परिवेष्टारं देवलोकाय पेशितारं मनुष्यलोकाय प्रकरितारꣳ सर्वेभ्यो लोकेभ्यो ऽ उपसेक्तारम् अव ऽ ऋत्यै वधायोपमन्थितारं मेधाय वासःपल्पूलीं प्रकामाय रजयित्रीम्
ऋतये स्तेनहृदयं वैरहत्याय पिशुनं विविक्त्यै क्षत्तारम् औपद्रष्ट्र्यायानुक्षत्तारं बालायानुचरं भूम्ने परिष्कन्दं प्रियाय प्रियवादिनम् अरिष्ट्या ऽ अश्वसादꣳ स्वर्गाय लोकाय भागदुघं वर्षिष्ठाय नाकाय परिवेष्टारम्
मन्यवे ऽयस्तापं क्रोधाय निसरं योगाय योक्तारꣳ शोकायाभिसर्तारं क्षेमाय विमोक्तारम् उत्कीलेभ्यस् त्रिष्ठिनं वपुषे मानस्कृतꣳ शीलायाञ्जनीकारीं निर्ऋत्यै कोशकारीं यमायासूम्
यमाय यमसूम् अथर्वभ्यो ऽवतोकाꣳ संवत्सराय पर्यायिणीं परिवत्सरायाविजाताम् इदावत्सरायातीत्वरीम् इद्वत्सरायातिष्कद्वरीं वत्सराय विजर्जराꣳ संवत्सराय पलिक्नीम् ऋभुभ्यो ऽजिनसंधꣳ साध्येभ्यश् चर्मम्नम्
सरोभ्यो धैवरम् उपस्थावराभ्यो दाशं वैशन्ताभ्यो बैन्दं नड्वलाभ्यः शौष्कलं पाराय मार्गारम् अवराय केवर्तं तीर्थेभ्य ऽ आन्दं विषमेभ्यो मैनालꣳ स्वनेभ्यः पर्णकं गुहाभ्यः किरातꣳ सानुभ्यो जम्भकं पर्वतेभ्यः किम्पूरुषम्
बीभत्सायै पौल्कसं वर्णाय हिरण्यकारं तुलायै वाणिजं पश्चादोषाय ग्लाविनं विश्वेभ्यो भूतेभ्यः सिध्मलं भूत्यै जागरणम् अभूत्यै स्वपनम् आर्त्यै जनवादिनं व्यृद्ध्या ऽ अपगल्भꣳ सꣳशराय प्रच्छिदम्
अक्षराजाय कितवं कृतायादिनवदर्शं त्रेतायै कल्पिनं द्वापरायाधिकल्पिनम् आस्कन्दाय सभास्थाणुं मृत्यवे गोव्यच्छम् अन्तकाय गोघातं क्षुधे यो गां विकृन्तन्तं भिक्षमाण ऽ उपतिष्ठति दुष्कृताय चरकाचार्यं पाप्मने सैलगम्
प्रतिश्रुत्काया ऽ अर्तनं घोषाय भषम् अन्ताय बहुवादिनम् अनन्ताय मूकꣳ शब्दायाडम्बराघातं महसे वीणावादं क्रोशाय तूणवध्मम् अवरस्पराय शङ्खध्मं वनाय वनपम् अन्यतोरण्याय दावपम्
नर्माय पुꣳश्चलूꣳ हसाय कारिं यादसे शाबल्यां ग्रामण्यं गणकम् अभिक्रोशकं तान् महसे वीणावादं पाणिघ्नं तूणवध्मं तान् नृतायानन्दाय तलवम्
अग्नये पीवानं पृथिव्यै पीठसर्पिणं वायवे चाण्डालम् अन्तरिक्षाय वꣳशनर्तिनं दिवे खलतिꣳ सूर्याय हर्यक्षं नक्षत्रेभ्यः किर्मिरं चन्द्रमसे किलासम् अह्ने शुक्लं पिङ्गाक्षꣳ रात्र्यै कृष्णं पिङ्गाक्षम्
अथैतान् अष्टौ विरूपान् आ लभते ऽतिदीर्घं चातिह्रस्वं चातिस्थूलं चातिकृशं चातिशुक्लं चातिकृष्णं चातिकुल्वं चातिलोमशं च । अशूद्रा ऽ अब्राह्मणास् ते प्राजापत्याः । मागधः पुꣳश्चली कितवः क्लीबो ऽशूद्रा ऽ अब्राह्मणास् ते प्राजापत्याः
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमिꣳ सर्वत स्पृत्वात्य् अतिष्ठद् दशाङ्गुलम्
पुरुषऽएवेदꣳ सर्वं यद् भूतं यच् च भाव्यम् । उतामृतत्वस्येशानो यद् अन्नेनातिरोहति
एतावान् अस्य महिमातो ज्यायाꣳश् च पूरुषः । पादो ऽस्य विश्वा भूतानि त्रिपाद् अस्यामृतं दिवि
त्रिपाद् ऊर्ध्व उद् ऐत् पुरुषः पादो ऽस्येहाभवत् पुनः । ततो विष्वङ् व्यक्रामत् साशनानशने ऽ अभि
तस्माद् विराड् अजायत विराजो ऽ अधि पूरुषः । स जातो ऽ अत्य् अरिच्यत पश्चाद् भूमिम् अथो पुरः
तस्माद् यज्ञात् सर्वहुतः सम्भृतं पृषदाज्यम् । पशूꣳस् ताꣳश् चक्रे वायव्यान् आरण्या ग्राम्याश् च ये
तस्माद् यज्ञात् सर्वहुत ऽ ऋचः सामानि जज्ञिरे । छन्दाꣳसि जज्ञिरे तस्माद् यजुस् तस्माद् अजायत
तस्माद् अश्वा ऽ अजायन्त ये के चोभयादतः । गावो ह जज्ञिरे तस्मात् तस्माज् जाता ऽ अजावयः
तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातम् अग्रतः । तेन देवा ऽ अयजन्त साध्या ऽ ऋषयश् च ये
यत् पुरुषं व्य् अदधुः कतिधा व्यकल्पयन् । मुखं किम् अस्य कौ बाहू का ऊरू पादा ऽ उच्येते
ब्राह्मणो ऽस्य मुखम् आसीद् बाहू राजन्यः कृतः । ऊरू तद् अस्य यद् वैश्यः पद्भ्याꣳ शूद्रो ऽ अजायत
चन्द्रमा मनसो जातश् चक्षोः सूर्यो ऽ अजायत । श्रोत्राद् वायुश् च प्राणश् च मुखाद् अग्निर् अजायत
नाभ्या ऽ आसीद् अन्तरिक्षꣳ शीर्ष्णो द्यौः सम् अवर्तत । पद्भ्यां भूमिर् दिशः श्रोत्रात् तथा लोकाꣳऽ अकल्पयन्
यत् पुरुषेण हविषा देवा यज्ञम् अतन्वत । वसन्तो ऽस्यासीद् आज्यं ग्रीष्म ऽ इध्मः शरद् धविः
सप्तास्यासन् परिधयस् त्रिः सप्त समिधः कृताः । देवा यद् यज्ञं तन्वाना ऽ अबध्नन् पुरुषं पशुम्
यज्ञेन यज्ञम् अयजन्त देवास् तानि धर्माणि प्रथमान्य् आसन् । ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः
अद्भ्यः सम्भृतः पृथिव्यै रसाच् च विश्वकर्मणः सम् अवर्तताग्रे । तस्य त्वष्टा विदधद् रूपम् एति तन् मर्त्यस्य देवत्वम् आजानम् अग्रे
वेदाहम् एतं पुरुषं महान्तम् आदित्यवर्णं तमसः परस्तात् । तम् एव विदित्वाति मृत्युम् एति नान्यः पन्था विद्यते ऽयनाय
प्रजापतिश् चरति गर्भे ऽअन्तर् अजायमानो बहुधा वि जायते । तस्य योनिं परि पश्यन्ति धीरास् तस्मिन् ह तस्थुर् भुवनानि विश्वा