तव शरीरं पतयिष्ण्व् अर्वन् तव चित्तं वात ऽ इव ध्रजीमान् । तव शृङ्गाणि विष्ठिता पुरुत्रारण्येषु जर्भुराणा चरन्ति
उप प्रागाच् छसनं वाज्य् अर्वा देवद्रीचा मनसा दीध्यानः । अजः पुरो नीयते नाभिर् अस्यानु पश्चात् कवयो यन्ति रेभाः
उप प्रागात् परमं यत् सधस्थम् अर्वाꣳ२ऽ अच्छा पितरं मातरं च । अद्या देवान् जुष्टतमो हि गम्या ऽ अथा शास्ते दाशुषे वार्याणि
समिद्धो ऽ अद्य मनुषो दुरोणे देवो देवान् यजसि जातवेदः । आ च वह मित्रमहश् चिकित्वान् त्वं दूतः कविर् असि प्रचेताः
तनूनपात् पथ ऽ ऋतस्य यानान् मध्वा समञ्जन्त् स्वदया सुजिह्व । मन्मानि धीभिर् उत यज्ञम् ऋन्धन् देवत्रा च कृणुह्य् अध्वरं नः
नराशꣳसस्य महिमानम् एषाम् उप स्तोषाम यजतस्य यज्ञैः । ये सुक्रतवः शुचयो धियंधाः स्वदन्ति देवा ऽ उभयानि हव्या
आजुह्वान ऽ ईड्यो वन्द्यश् चा याह्य् अग्ने वसुभिः सजोषाः । त्वं देवानाम् असि यह्व होता स ऽ एनान् यक्षीषितो यजीयान्
प्राचीनं बर्हिः प्रदिशा पृथिव्या वस्तोर् अस्या वृज्यते ऽ अग्रे ऽ अह्नाम् । व्य् उ प्रथते वितरं वरीयो देवेभ्यो ऽ अदितये स्योनम्
व्यचस्वतीर् उर्विया वि श्रयन्तां पतिभ्यो न जनयः शुम्भमानाः । देवीर् द्वारो बृहतीर् विश्वमिन्वा देवेभ्यो भवत सुप्रायणाः
आ सुष्वयन्ती यजते ऽ उपाके ऽ उषासानक्ता सदतां नि योनौ । दिव्ये योषणे बृहती सुरुक्मे ऽ अधि श्रियꣳ शुक्रपिशं दधाने
दैव्या होतारा प्रथमा सुवाचा मिमाना यज्ञं मनुषो यजध्यै । प्रचोदयन्ता विदथेषु कारू प्राचीनं ज्योतिः प्रदिशा दिशन्ता
आ नो यज्ञं भारती तूयम् एत्व् इडा मनुष्वद् इह चेतयन्ती । तिस्रो देवीर् बर्हिर् एदꣳ स्योनꣳ सरस्वती स्वपसः सदन्तु
य ऽ इमे द्यावापृथिवी जनित्री रूपइर् अपिꣳशद् भुवनानि विश्वा । तम् अद्य होतर् इषितो यजीयान् देवं त्वष्टारम् इह यक्षि विद्वान्
उपाव सृज त्मन्या समञ्जन् देवानां पाथ ऽ ऋतुथा हवीꣳषि । वनस्पतिः शमिता देवो ऽ अग्निः स्वदन्तु हव्यं मधुना घृतेन
सद्यो जातो व्यमिमीत यज्ञम् अग्निर् देवानाम् अभवत् पुरोगाः । अस्य होतुः प्रदिश्य् ऋतस्य वाचि स्वाहाकृतꣳ हविर् अदन्तु देवाः
केतुं कृण्वन्न् अकेतवे पेशो मर्या ऽ अपेशसे । सम् उषद्भिर् अजायथाः
जीमूतस्येव भवति प्रतीकं यद् वर्मी याति समदाम् उपस्थे । अनाविद्धया तन्वा जय त्वꣳ स त्वा वर्मणो महिमा पिपर्तु
धन्वना गा धन्वनाजिं जयेम धन्वना तीव्राः समदो जयेम । धनुः शत्रोर् अपकामं कृणोति धन्वना सर्वाः प्रदिशो जयेम
वक्ष्यन्तीवेद् आ गनीगन्ति कर्णं प्रियꣳ सखायं परिषस्वजाना । योषेव शिङ्क्ते वितताधि धन्वन् ज्या इयꣳ समने पारयन्ती
ते ऽ आचरन्ती समनेव योषा मातेव पुत्रं बिभृताम् उपस्थे । अप शत्रून् विध्यताꣳ संविदाने ऽ आर्त्नी इमे विष्फुरन्ती ऽ अमित्रान्
बह्वीनां पिता बहुर् अस्य पुत्रश् चिश्चा कृणोति समनावगत्य । इषुधिः सङ्काः पृतनाश् च सर्वाः पृष्ठे निनद्धो जयति प्रसूतः
रथे तिष्ठन् नयति वाजिनः पुरो यत्र-यत्र कामयते सुषारथिः । अभीशूनां महिमानं पनायत मनः पश्चाद् अनु यच्छन्ति रश्मयः
तीव्रान् घोषान् कृण्वते वृषपाणयो ऽश्वा रथेभिः सह वाजयन्तः । अवक्रामन्तः प्रपदैर् अमित्रान् क्षिणन्ति शत्रूꣳ१ऽ रनपव्ययन्तः
रथवाहनꣳ हविर् अस्य नाम यत्रायुधं निहितम् अस्य वर्म । तत्रा रथम् उप शग्मꣳ सदेम विश्वाहा वयꣳ सुमनस्यमानाः
स्वादुषꣳसदः पितरो वयोधाः कृच्छ्रेश्रितः शक्तीवन्तो गभीराः । चित्रसेना ऽ इषुबला ऽ अमृध्राः सतोवीरा ऽ उरवो व्रातसाहाः
ब्राह्मणासः पितरः सोम्यासः शिवे नो द्यावापृथिवी ऽ अनेहसा । पूषा नः पातु दुरिताद् ऋतावृधो रक्षा माकिर् नो ऽ अघशꣳस ऽ ईशत
सुपर्णं वस्ते मृगो ऽ अस्या दन्तो गोभिः संनद्धा पतति प्रसूता । यत्रा नरः सं च वि च द्रवन्ति तत्रास्मभ्यम् इषवः शर्म यꣳसन्
ऋजीते परि वृङ्धि नो ऽश्मा भवतु नस् तनूः । सोमो ऽ अधि ब्रवीतु नो ऽदितिः शर्म यच्छतु
आ जङ्घन्ति सान्व् एषां जघनाꣳ२ऽ उप जिघ्नते । अश्वाजनि प्रचेतसो ऽश्वान्त् समत्सु चोदय
अहिर् इव भोगैः पर्य् एति बाहुं ज्याया हेतिं परिबाधमानः । हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमाꣳसं परि पातु विश्वतः