यद् अक्रन्दः प्रथमं जायमान ऽ उद्यन्त् समुद्राद् उत वा पुरीषात् । श्येनस्य पक्षा हरिणस्य बाहू ऽ उपस्तुत्यं महि जातं ते ऽ अर्वन्
यमेन दत्तं त्रित ऽ एनम् आयुनग् इन्द्र ऽ एणं प्रथमो ऽ अध्य् अतिष्ठत् । गन्धर्वो ऽ अस्य रशनाम् अगृभ्णात् सूराद् अश्वं वसवो निर् अतष्ट
असि यमो ऽ अस्य् आदित्यो ऽ अर्वन्न् असि त्रितो गुह्येन व्रतेन । असि सोमेन समया विपृक्त ऽ आहुस् ते त्रीणि दिवि बन्धनानि
त्रीणि त ऽ आहुर् दिवि बन्धनानि त्रीण्य् अप्सु त्रीण्य् अन्तः समुद्रे । उतेव मे वरुणश् छन्त्स्य् अर्वन् यत्रा त ऽ आहुः परमं जनित्रम्
इमा ते वाजिन्न् अवमार्जनानीमा शफानाꣳ सनितुर् निधाना । अत्रा ते भद्रा रशना ऽ अपश्यम् ऋतस्य या ऽ अभिरक्षन्ति गोपाः
आत्मानं ते मनसाराद् अजानाम् अवो दिवा पतयन्तं पतंगम् । शिरो ऽ अपश्यं पथिभिः सुगेभिर् अरेणुभिर् जेहमानं पतत्रि
अत्रा ते रूपम् उत्तमम् अपश्यं जिगीषमाणम् इष ऽ आ पदे गोः । यदा ते मर्तो ऽ अनु भोगम् आनड् आद् इद् ग्रसिष्ठ ऽ ओषधीर् अजीगः
अनु त्वा रथो ऽ अनु मर्यो ऽ अर्वन्न् अनु गावो ऽनु भगः कनीनाम् । अनु व्रातासस् तव सख्यम् ईयुर् अनु देवा ममिरे वीर्यं ते
हिरण्यशृङ्गो ऽयो अस्य पादा मनोजवा ऽ अवर इन्द्र ऽ आसीत् । देवा ऽ इद् अस्य हविरद्यम् आयन् यो ऽ अर्वन्तं प्रथमो ऽ अध्यतिष्ठत्
ईर्मान्तासः सिलिकमध्यमासः सꣳ शूरणासो दिव्यासो ऽ अत्याः । हꣳसा ऽ इव श्रेणिशो यतन्ते यद् आक्षिषुर् दिव्यम् अज्मम् अश्वाः
तव शरीरं पतयिष्ण्व् अर्वन् तव चित्तं वात ऽ इव ध्रजीमान् । तव शृङ्गाणि विष्ठिता पुरुत्रारण्येषु जर्भुराणा चरन्ति
उप प्रागाच् छसनं वाज्य् अर्वा देवद्रीचा मनसा दीध्यानः । अजः पुरो नीयते नाभिर् अस्यानु पश्चात् कवयो यन्ति रेभाः
उप प्रागात् परमं यत् सधस्थम् अर्वाꣳ२ऽ अच्छा पितरं मातरं च । अद्या देवान् जुष्टतमो हि गम्या ऽ अथा शास्ते दाशुषे वार्याणि
समिद्धो ऽ अद्य मनुषो दुरोणे देवो देवान् यजसि जातवेदः । आ च वह मित्रमहश् चिकित्वान् त्वं दूतः कविर् असि प्रचेताः
तनूनपात् पथ ऽ ऋतस्य यानान् मध्वा समञ्जन्त् स्वदया सुजिह्व । मन्मानि धीभिर् उत यज्ञम् ऋन्धन् देवत्रा च कृणुह्य् अध्वरं नः
नराशꣳसस्य महिमानम् एषाम् उप स्तोषाम यजतस्य यज्ञैः । ये सुक्रतवः शुचयो धियंधाः स्वदन्ति देवा ऽ उभयानि हव्या
आजुह्वान ऽ ईड्यो वन्द्यश् चा याह्य् अग्ने वसुभिः सजोषाः । त्वं देवानाम् असि यह्व होता स ऽ एनान् यक्षीषितो यजीयान्
प्राचीनं बर्हिः प्रदिशा पृथिव्या वस्तोर् अस्या वृज्यते ऽ अग्रे ऽ अह्नाम् । व्य् उ प्रथते वितरं वरीयो देवेभ्यो ऽ अदितये स्योनम्
व्यचस्वतीर् उर्विया वि श्रयन्तां पतिभ्यो न जनयः शुम्भमानाः । देवीर् द्वारो बृहतीर् विश्वमिन्वा देवेभ्यो भवत सुप्रायणाः
आ सुष्वयन्ती यजते ऽ उपाके ऽ उषासानक्ता सदतां नि योनौ । दिव्ये योषणे बृहती सुरुक्मे ऽ अधि श्रियꣳ शुक्रपिशं दधाने
दैव्या होतारा प्रथमा सुवाचा मिमाना यज्ञं मनुषो यजध्यै । प्रचोदयन्ता विदथेषु कारू प्राचीनं ज्योतिः प्रदिशा दिशन्ता
आ नो यज्ञं भारती तूयम् एत्व् इडा मनुष्वद् इह चेतयन्ती । तिस्रो देवीर् बर्हिर् एदꣳ स्योनꣳ सरस्वती स्वपसः सदन्तु
य ऽ इमे द्यावापृथिवी जनित्री रूपइर् अपिꣳशद् भुवनानि विश्वा । तम् अद्य होतर् इषितो यजीयान् देवं त्वष्टारम् इह यक्षि विद्वान्
उपाव सृज त्मन्या समञ्जन् देवानां पाथ ऽ ऋतुथा हवीꣳषि । वनस्पतिः शमिता देवो ऽ अग्निः स्वदन्तु हव्यं मधुना घृतेन
सद्यो जातो व्यमिमीत यज्ञम् अग्निर् देवानाम् अभवत् पुरोगाः । अस्य होतुः प्रदिश्य् ऋतस्य वाचि स्वाहाकृतꣳ हविर् अदन्तु देवाः
केतुं कृण्वन्न् अकेतवे पेशो मर्या ऽ अपेशसे । सम् उषद्भिर् अजायथाः
जीमूतस्येव भवति प्रतीकं यद् वर्मी याति समदाम् उपस्थे । अनाविद्धया तन्वा जय त्वꣳ स त्वा वर्मणो महिमा पिपर्तु
धन्वना गा धन्वनाजिं जयेम धन्वना तीव्राः समदो जयेम । धनुः शत्रोर् अपकामं कृणोति धन्वना सर्वाः प्रदिशो जयेम
वक्ष्यन्तीवेद् आ गनीगन्ति कर्णं प्रियꣳ सखायं परिषस्वजाना । योषेव शिङ्क्ते वितताधि धन्वन् ज्या इयꣳ समने पारयन्ती
ते ऽ आचरन्ती समनेव योषा मातेव पुत्रं बिभृताम् उपस्थे । अप शत्रून् विध्यताꣳ संविदाने ऽ आर्त्नी इमे विष्फुरन्ती ऽ अमित्रान्