होता यक्षद् व्यचस्वतीः सुप्रायणा ऽ ऋतावृधो द्वारो देवीर् हिरण्ययीर् ब्रह्माणम् इन्द्रं वयोधसम् । पङ्क्तिं छन्द ऽ इहेन्द्रियं तुर्यवाहं गां वयो दधद् व्यन्त्व् आज्यस्य होतर् यज
होता यक्षत् सुपेशसा सुशिल्पे बृहती ऽ उभे नक्तोषासा न दर्शते विश्वम् इन्द्रं वयोधसम् । त्रिष्टुभं छन्द ऽ इहेन्द्रियं पष्ठवाहं गां वयो दधद् वीताम् आज्यस्य होतर् यज
होता यक्षत् प्रचेतसा देवानाम् उत्तमं यशो होतारा दैव्या कवी सयुजेन्द्रं वयोधसम् । जगतीं छन्द ऽ इन्द्रियम् अनड्वाहं गां वयो दधद् वीताम् आज्यस्य होतर् यज
होता यक्षत् पेशस्वतीस् तिस्रो देवीर् हिरण्ययीर् भारतीर् बृहतीर् महीः पतिम् इन्द्रं वयोधसम् । विराजं छन्द ऽ इहेन्द्रियं धेनुं गां न वयो दधद् व्यन्त्व् आज्यस्य होतर् यज
होता यक्षत् सुरेतसं त्वष्टारं पुष्टिवर्धनꣳ रूपाणि बिभ्रतं पृथक् पुष्टिम् इन्द्रं वयोधसम् । द्विपदं छन्द ऽ इन्द्रियम् उक्षाणं गां न वयो दधद् वेत्व् आज्यस्य होतर् यज
होता यक्षद् वनस्पतिꣳ शमितारꣳ शतक्रतुꣳ हिरण्यपर्णम् उक्थिनꣳ रशनां बिभ्रतं वशिं भगम् इन्द्रं वयोधसम् । ककुभं छन्द ऽ इहेन्द्रियं वशां वेहतं गां वयो दधद् वेत्व् आज्यस्य होतर् यज
होता यक्षत् स्वाहाकृतीर् अग्निं गृहपतिं पृथग् वरुणं भेषजं कविं क्षत्रम् इन्द्रं वयोधसम् । अतिच्छन्दसं छन्द ऽ इन्द्रियं बृहद् ऋषभं गां वयो दधद् व्यन्त्व् आज्यस्य होतर् यज
देवं बर्हिर् वयोधसं देवम् इन्द्रम् अवर्धयत् । गायत्र्या छन्दसेन्द्रियं चक्षुर् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वेतु यज
देवीर् द्वारो वयोधसꣳ शुचिम् इन्द्रम् अवर्धयन् । उष्णिहा छन्दसेन्द्रियं प्राणम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य व्यन्तु यज
देवी ऽ उषासानक्ता देवम् इन्द्रं वयोधसं देवी देवम् अवर्धताम् । अनुष्टुभा छन्दसेन्द्रियं बलम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वीतां यज
देवी जोष्ट्री वसुधिती देवम् इन्द्रं वयोधसं देवी देवम् अवर्धताम् । बृहत्या छन्दसेन्द्रियꣳ श्रोत्रम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वीतां यज
देवी ऽ ऊर्जाहुती दुघे सुदुघे पयसेन्द्रं वयोधसं देवी देवम् अवर्धताम् । पङ्क्त्या छन्दसेन्द्रियꣳ शुक्रम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वीतां यज
देवा दैव्या होतारा देवम् इन्द्रं वयोधसं देवौ देवम् अवर्धताम् । त्रिष्टुभा छन्दसेन्द्रियं त्विषिम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वीतां यज
देवीस् तिस्रस् तिस्रो देवीर् वयोधसं पतिम् इन्द्रम् अवर्धयन् । जगत्या छन्दसेन्द्रियꣳ शूषम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य व्यन्तु यज
देवो नराशꣳसो देवम् इन्द्रं वयोधसं देवो देवम् अवर्धयत् । विराजा छन्दसेन्द्रियꣳ रुपम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वेतु यज
देवो वनस्पतिर् देवम् इन्द्रं वयोधसं देवो देवम् अवर्धयत् । द्विपदा छन्दसेन्द्रियं भगम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वेतु यज
देवं बर्हिर् वारितीनां देवम् इन्द्रं वयोधसं देवं देवम् अवर्धयत् । ककुभा छन्दसेन्द्रियं यश ऽ इन्द्रे वयो दधद् वसुवने वसुधेयस्य वेतु यज
देवो ऽ अग्निः स्विष्टकृद् देवम् इन्द्रं वयोधसं देवो देवम् अवर्धयत् । अतिच्छन्दसा छन्दसेन्द्रियं क्षत्रम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वेतु यज
अग्निम् अद्य होतारम् अवृणीतायं यजमानः पचन् पक्तीः पचन् पुरोडाशं बध्नन्न् इन्द्राय वयोधसे छागम् । सूपस्था ऽ अद्य देवो वनस्पतिर् अभवद् इन्द्राय वयोधसे छागेन । अघत् तं मेदस्तः प्रति पचताग्रभीद् अवीवृधत् पुरोडाशेन । त्वाम् अद्य ऽ ऋष [आर्षेय ऋषीणां नपाद् अवृणीतायं यजमानो बहुभ्य आ संगतेभ्य एष मे देवेषु वसु वार्यायक्ष्यत इति ता या देवा देव दानान्य् अदुस् तान्य् अस्मा आ च शास्स्वा च गुरस्वेषितश् च होतर् असि भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहि ॥ ]
समिद्धो ऽ अञ्जन् कृदरं मतीनां घृतम् अग्ने मधुमत् पिन्वमानः । वाजी वहन् वाजिनं जातवेदो देवानां वक्षि प्रियम् आ सधस्थम्
घृतेनाञ्जन्त् सं पथो देवयानान् प्रजानन् वाज्य् अप्य् एतु देवान् । अनु त्वा सप्ते प्रदिशः सचन्ताꣳ स्वधाम् अस्मै यजमानाय धेहि
ईड्यश् चासि वन्द्यश् च वाजिन्न् आशुश् चासि मेध्यश् च सप्ते । अग्निष् ट्वा देवैर् वसुभिः सजोषाः प्रीतं वह्निं वहतु जातवेदाः
स्तीर्णं बर्हिः सुष्टरीमा जुषाणोरु पृथु प्रथमानं पृथिव्याम् । देवेभिर् युक्तम् अदितिः सजोषाः स्योनं कृण्वान सुविते दधातु
एता ऽ उ वः सुभगा विश्वरूपा वि पक्षोभिः श्रयमाणा ऽ उदातैः । ऋष्वाः सतीः कवषः शुम्भमाना द्वारो देवीः सुप्रायणा भवन्तु
अन्तरा मित्रावरुणा चरन्ती मुखं यज्ञानाम् अभि संविदाने । उषासा वाꣳ सुहिरण्ये सुशिल्पे ऽ ऋतस्य योनाव् इह सादयामि
प्रथमा वाꣳ सरथिना सुवर्णा देवौ पश्यन्तौ भुवनानि विश्वा । अपिप्रयं चोदना वां मिमाना होतारा ज्योतिः प्रदिशा दिशन्ता
आदित्यैर् नो भारती वष्टु यज्ञꣳ सरस्वती सह रुद्रैर् न ऽ आवीत् । इडोपहूता वसुभिः सजोषा यज्ञं नो देवीर् अमृतेषु धत्त
त्वष्टा वीरं देवकामं जजान त्वष्टुर् अर्वा जायत ऽ आशुर् अश्वः । त्वष्टेदं विश्वं भुवनं जजान बहोः कर्तारम् इह यक्षि होतः
अश्वो घृतेन त्मन्या समक्त ऽ उप देवाꣳ२ऽ ऋतुशः पाथ ऽ एतु । वनस्पतिर् देवलोकं प्रजानन्न् अग्निना हव्या स्वदितानि वक्षत्
प्रजापतेस् तपसा वावृधानः सद्यो जातो दधिषे यज्ञम् अग्ने । स्वाहाकृतेन हविषा पुरोगा याहि साध्या हविर् अदन्तु देवाः