उस्राव् एतं धूर्षाहौ युज्येथाम् अनश्रूऽ अवीरहणौ ब्रह्मचोदनौ । स्वस्ति यजमानस्य गृहान् गच्छतम्
भद्रो मेऽ सि प्रच्यवस्व भुवस्पते विश्वान्य् अभि धामानि । मा त्वा परिपरिणो विदन् मा त्वा परिपन्थिनो विदन् मा वृकाऽ अघायवो विदन् । श्येनो भूत्वा परा पत यजमानस्य गृहान् गच्छ तन् नौ सँ̐स्कृतम्
नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तद् ऋतꣳ सपर्यत । दूरेदृशे देवजाताय केतवे दिवस् पुत्राय सूर्याय शꣳसत
वरुणस्योत्तम्भनम् असि । वरुणस्य स्कम्भसर्जनी स्थः । वरुणस्यऽ ऋतसदन्य् असि वरुणस्यऽ ऋतसदनम् असि । वरुणस्य ऽऋतसदनम् आ सीद
या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूर् अस्तु यज्ञम् । गयस्फानः प्रतरणः सुवीरो ऽवीरहा प्रचरा सोम दुर्यान्
अग्नेस् तनूर् असि विष्णवे त्वा सोमस्य तनूर् असि विष्णवे त्वातिऽतिथेर् आतिथ्यम् असि विष्णवे श्येनाय त्वा सोमभृते विष्णवे त्वाऽग्नये त्वा रायस्पोषदे विष्णवे त्वा
अग्नेर् जनित्रम् असि । वृषणौ स्थः । ऽउर्वश्य् असि । आयुर् असि । ऽ पुरूरवा असि । गायत्रेण त्वा छन्दसा मन्थामि । त्रैष्टुभेन त्वा छन्दसा मन्थामि । जागतेन त्वा छन्दसा मन्थामि
भवतं नः समनसौ सचेतसाव् अरेपसौ । मा यज्ञꣳ हिꣳसिष्टं मा यज्ञपतिं जातवेदसौ शिवौ भवतम् अद्य नः
अग्नाव् अग्निश् चरति प्रविष्ट ऽ ऋषीणां पुत्रो ऽअभिशस्तिपावा । स नः स्योनः सुयजा यजेह देवेभ्यो हव्यꣳ सदम् अप्रयुच्छन्त् स्वाहा
आपतये त्वा परिपतये गृह्णामि तनूनप्त्र्ये शाक्वराय शक्वन ऽ ओजिष्ठाय । अनाधृष्टम् अस्य् अनाधृष्यं देवानाम् ओजो ऽनभिशस्त्य् अभिशस्तिपा ऽ अनभिशस्तेन्यम् अञ्जसा सत्यम् उप गेषꣳ स्विते मा धाः
अग्ने व्रतपास् त्वे व्रतपा या तव तनूर् इयꣳ सा मयि यो मम तनूर् एषा सा त्वयि । सह नौ व्रतपते व्रतान्य् अनु मे दीक्षां दीक्षापतिर् मन्यताम् अनु तपस् तपस्पतिः
अꣳशुर्-अꣳशुष्टे देव सोमाप्यायताम् इन्द्रायैकधनविदे । आ तुभ्यम् इन्द्रः प्यायताम् आ त्वम् इन्द्राय प्यायस्व । आ प्याययास्मान्त् सखीन्त् सन्या मेधया स्वस्ति ते देव सोम सुत्याम् अशीय । एष्टा रायः प्रेषे भगाय ऋतम् ऋतवादिभ्यो नमो द्यावापृथिवीभ्याम्
या ते ऽ अग्ने ऽयःशया तनूर् वर्षिष्ठा गह्वरेष्ठा । उग्रं वचोऽअपावधीत् त्वेषं वचो ऽ अपावधीत् स्वाहा । या ते ऽ अग्ने रजःशया तनूर् वर्षिष्ठा गह्वरेष्ठा । उग्रं वचो ऽ अपावधीत् त्वेषं वचो ऽ अपावधीत् स्वाहा । या ते अग्ने हरिशया तनूर् वर्षिष्ठा गह्वरेष्ठा । उग्रं वचो ऽ अपावधीत् त्वेषं वचो ऽ अपावधीत् स्वाहा
तप्तायनी मे ऽसि । वित्तायनी मे ऽसि । अवतान् मा नाथितात् । अवतान् मा व्यथितात् । विदेद् अग्निर् नभो नाम । अग्ने ऽ अङ्गिर ऽ आयुना नाम्नेहि । योऽस्यां पृथिव्याम् असि यत् तेऽनाधृष्टं नाम यज्ञियं तेन त्वा दधे । विदेद् अग्निर् नभो नाम । अग्ने ऽ अङ्गिर ऽ आयुना नाम्नेहि । यो द्वितीयस्यां पृथिव्याम् असि यत् तेऽनाधृष्टं नाम यज्ञियं तेन त्वा दधे । विदेद् अग्निर् नभो नाम । अग्नेऽअङ्गिर ऽ आयुना नाम्नेहि । यस् तृतीयस्यां पृथिव्याम् असि यत् ते ऽनाधृष्टं नाम यज्ञियं तेन त्वा दधे । अनु त्वा देववीतये
सिꣳह्य् असि सपत्नसाही देवेभ्यः कल्पस्व । सिꣳह्य् असि सपत्नसाही देवेभ्यः शुन्धस्व । सिꣳह्य् असि सपत्नसाही देवेभ्यः शुम्भस्व
इन्द्रघोषस् त्वा वसुभिः पुरस्तात् पातु । प्रचेतास् त्वा रुद्रैः पश्चात् पातु । मनोजवास् त्वा पितृभिर् दक्षिणतः पातु । विश्वकर्मा त्वादित्यैर् उत्तरतः पातु । इदम् अहं तप्तं वार् बहिर्धा यज्ञान् निः सृजामि
सिꣳह्य् असि स्वाहा । सिꣳह्य् अस्य् आदित्यवनिः स्वाहा । सिꣳह्य् असि ब्रह्मवनिः क्षत्रवनिः स्वाहा । सिꣳह्य् असि सुप्रजावनी रायस्पोषवनिः स्वाहा । सिꣳह्य् अस्य् आवह देवान् यजमानाय स्वाहा । भूतेभ्यस् त्वा
ध्रुवो ऽसि पृथिवीं दृꣳह । ध्रुवक्षिद् अस्य् अन्तरिक्षं दृꣳह । अच्युतक्षिद् असि दिवं दृꣳह । अग्नेः पुरीषम् असि
युञ्जते मन ऽ उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे वयुनाविद् एक ऽइन् मही देवस्य सवितुः परिष्टुतिः स्वाहा
इदं विष्णुर् विचक्रमे त्रेधा नि दधे पदम् । समूढम् अस्य पासुरे स्वाहा
इरावती धेनुमती हि भूतꣳ सूयवसिनी मनवे दशस्या । व्यस्कभ्ना रोदसी विष्णव् एते दाधर्त्थ पृथिवीम् अभितो मयूखैः स्वाहा
देवश्रुतौ देवेष्व् आ घोषतम् । प्राची प्रेतम् अध्वरं कल्पयन्ती ऽ ऊर्ध्वं यज्ञं नयतं मा जिह्वरतम् । स्वं गोष्ठम् आ वदतं देवी दुर्ये ऽ आयुर् मा निर्वादिष्टं प्रजां मा निर्वादिष्टम् । अत्र रमेथां वर्ष्मन् पृथिव्याः
विष्णोर् नु कं वीर्याणि प्र वोचं यः पार्थिवानि विममे रजाꣳसि । यो ऽ अस्कभायद् उत्तरꣳ सधस्थं विचक्रमाणस् त्रेधोरुगायः । विष्णवे त्वा
दिवो वा विष्ण ऽ उत वा पृथिव्या महो वा विष्णऽउरोरन्तरिक्षात् । उभा हि हस्ता वसुना पृणस्वा प्रयच्छ दक्षिणाद् ओत सव्यात् । विष्णवे त्वा
प्र तद् विष्णु स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेष्व् अधिक्षियन्ति भुवनानि विश्वा
विष्णो रराटम् असि । विष्णोः श्नप्त्रे स्थः । विष्णोः स्यूर् असि । विष्णोर् ध्रुवो सि । वैष्णवम् असि विष्णवे त्वा
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् । आ ददे नार्य् असि । इदम् अहꣳ रक्षसां ग्रीवा ऽ अपिकृन्तामि । बृहन्न् असि बृहद्रवा बृहतीम् इन्द्राय वाचं वद
रक्षोहणं वलगहनं वैष्णवीम् । इदम् अहं तं वलगम् उत् किरामि यं मे निष्ट्यो यम् अमात्यो निचखान । इदम् अहं तं वलगम् उत् किरामि यं मे समानो यम् असमानो निचखान । इदम् अहं तं वलगम् उत् किरामि यं मे सबन्धुर् यम् असबन्धुर् निचखान । इदम् अहं तं वलगम् उत् किरामि यं मे सजातो यम् असजातो निचखान । उत् कृत्यां किरामि
स्वराड् असि सपत्नहा । सत्रराड् अस्य् अभिमातिहा । जनराड् असि रक्षोहा । सर्वराड् अस्य् अमित्रहा
रक्षोहणो वो वलगहनः प्रोक्षामि वैष्णवान् । रक्षोहणो वो वलगहनो ऽव नयामि वैष्णवान् । रक्षोहणो वो वलगहनो ऽव स्तृणामि वैष्णवान् । रक्षोहणौ वां वलगहना ऽ उप दधामि वैष्णवी । रक्षोहणौ वां वलगहनौ पर्य् ऊहामि वैष्णवी । वैष्णवम् असि । वैष्णवा स्थ