पाहि नो ऽ अग्न ऽ एकया पाह्य् उत द्वितीयया । पाहि गीर्भिस् तिसृभिर् ऊर्जां पते पाहि चतसृभिर् वसो
ऊर्जो नपातꣳ स हिनायम् अस्मयुर् दाशेम हव्यदातये । भुवद् वाजेष्व् अविता भुवद् वृध ऽ उत त्राता तनूनाम्
संवत्सरो ऽसि परिवत्सरोऽसीदावत्सरो ऽसीद्वत्सरो ऽसि वत्सरो ऽसि । उषसस् ते कल्पन्ताम् अहोरात्रास् ते कल्पन्ताम् अर्धमासास् ते कल्पन्तां मासास् ते कल्पन्ताम् ऋतवस् ते कल्पन्ताꣳ संवत्सरस् ते कल्पताम् । प्रेत्या ऽ एत्यै सं चाञ्च प्र च सारय । सुपर्णचिद् असि तया देवतयाङ्गिरस्वद् ध्रुवः सीद
होता यक्षद् समिधेन्द्रम् इडस् पदे नाभा पृथिव्या ऽ अधि । दिवो वर्ष्मन्त् सम् इध्यत ऽ ओजिष्ठश् चर्षणीसहां वेत्व् आज्यस्य होतर् यज
होता यक्षत् तनूनपातमूतिभिर् जेतारम् अपराजितम् । इन्द्रं देवꣳ स्वर्विदं पथिभिर् मधुमत्तमैर् नराशꣳसेन तेजसा वेत्व् आज्यस्य होतर् यज
होता यक्षद् इडाभिर् इन्द्रम् ईडितम् आजुह्वानम् अमर्त्यम् । देवो देवैः सवीर्यो वज्रहस्तः पुरंदरो वेत्व् आज्यस्य होतर् यज
होता यक्षद् बर्हिषीन्द्रं निषद्वरं वृषभं नर्यापसम् । वसुभी रुद्रैर् आदित्यैः सुयुग्भिर् बर्हिर् आसदद् वेत्व् आज्यस्य होतर् यज
होता यक्षद् ओजो न वीर्यꣳ सहो द्वार ऽ इन्द्रम् अवर्धयन् । सुप्रायणा ऽ अस्मिन् यज्ञे वि श्रयन्ताम् ऋतावृधो द्वार ऽ इन्द्राय मीढुषे व्यन्त्व् आज्यस्य होतर् यज
होता यक्षद् उषे ऽ इन्द्रस्य धेनू सुदुघे मातरा मही । सवातरौ न तेजसा वत्सम् इन्द्रम् अवर्धतां वीताम् आज्यस्य होतर् यज
होता यक्षद् दैव्या होतारा भिषजा सखाया हविषेन्द्रं भिषज्यतः । कवी देवौ प्रचेतसाव् इन्द्राय धत्त ऽ इन्द्रियं वीताम् आज्यस्य होतर् यज
होता यक्षत् तिस्रो देवीर् न भेषजं त्रयस् त्रिधातवो ऽपस इडा सरस्वत् भारती महीः । इन्द्रपत्नीर् हविष्मतीर् व्यन्त्व् आज्यस्य होतर् यज
होता यक्षत् त्वष्टारम् इन्द्रं देवं भिषजꣳ सुयजं घृतश्रियम् । पुरुरूपꣳ सुरेतसं मघोनम् इन्द्राय त्वष्टा दधद् इन्द्रियाणि वेत्व् आज्यस्य होतर् यज
होता यक्षद् वनस्पतिꣳ शमितारꣳ शतक्रतुं धियो जोष्टारम् इन्द्रियम् । मध्वा समञ्जन् पथिभिः सुगेभिः स्वदाति यज्ञं मधुना घृतेन वेत्व् आज्यस्य होतर् यज
होता यक्षद् इन्द्रꣳ स्वाहाज्यस्य स्वाहा मेदसः स्वाहा स्तोकानाꣳ स्वाहा स्वाहाकृतीनाꣳ स्वाहा हव्यसूक्तीनाम् । स्वाहा देवा ऽ आज्यपा जुषाणा ऽ इन्द्र आज्यस्य व्यन्तु होतर् यज
देवं बर्हिर् इन्द्रꣳ सुदेवं देवैर् वीरवत् स्तीर्णं वेद्याम् अवर्धयत् । वस्तोर् वृतं प्राक्तोर् भृतꣳ राया बर्हिष्मतो ऽत्य् अगाद् वसुवने वसुधेयस्य वेतु यज
देवीर् द्वार ऽ इन्द्रꣳ संघाते वीड्वीर् यामन्न् अवर्धयन् । आ वत्सेन तरुणेन कुमारेण च मीवतापार्वाणꣳ रेणुककाटं नुदन्तां वसुवने वसुधेयस्य व्यन्तु यज
देवी उषासानक्तेन्द्रं यज्ञे प्रयत्य् अह्वेताम् । दैवीर् विशः प्रायासिष्टाꣳ सुप्रीते सुधिते वसुवने वसुधेयस्य वीतां यज
देवी जोष्ट्री वसुधिती देवम् इन्द्रम् अवर्धताम् । अयाव्य् अन्याघा द्वेषाꣳस्य् आन्या वक्षद् वसु वार्याणि यजमानाय शिक्षिते वसुवने वसुधेयस्य वीतां यज
देवी ऽ ऊर्जाहुती दुघे पयसेन्द्रम् अवर्धताम् । इषमूर्जम् अन्या वक्षत् सग्धिꣳ सपीतिम् अन्या नवेन पूर्वं दयमाने पुराणेन नवम् अधातामूर्जमूर्जाहुती ऽ ऊर्जयमाने वसु वार्याणि यजमानाय शिक्षिते वसुवने वसुधेयस्य वीतां यज
देवा देव्या होतारा देवम् इन्द्रम् अवर्धताम् । हताघशꣳसाव् आभार्ष्टां वसु वार्याणि यजमानाय शिक्षितौ वसुवने वसुधेयस्य वीतां यज
देवीस् तिस्रस् तिस्रो देवीः पतिम् इन्द्रम् अवर्धयन् । अस्पृक्षद् भारती दिवꣳ रुद्रैर् यज्ञꣳ सरस्वतीडा वसुमती गृहान् वसुवने वसुधेयस्य व्यन्तु यज
देव ऽ इन्द्रो नराशꣳसस् त्रिवरूथस् त्रिबन्धुरो देवम् इन्द्रम् अवर्धयत् । शतेन शितिपृष्ठानाम् आहितः सहस्रेण प्र वर्तते मित्रावरुणेद् अस्य होत्रम् अर्हतो बृहस्पति स्तोत्रम् अश्विनाध्वर्यवं वसुवने वसुधेयस्य वेतु यज
देवो देवैर् वनस्पतिर् हिरण्यपर्णो मधुशाखः सुपिप्पलो देवम् इन्द्रम् अवर्धयत् । दिवम् अग्रेणास्पृक्षद् आन्तरिक्षं पृथिवीम् अदृꣳहद् वसुवने वसुधेयस्य वेतु यज
देवं बर्हिर् वारितीनां देवम् इन्द्रम् अवर्धयत् । स्वासस्थम् इन्द्रेणासन्नम् अन्या बर्हीꣳष्य् अभ्य् अभूद् वसुवने वसुधेयस्य वेतु यज
देवो ऽ अग्निः स्विष्टकृद् देवम् इन्द्रम् अवर्धयत् । स्विष्टं कुर्वन्त् स्विष्टकृत् स्विष्टम् अद्य करोतु नो वसुवने वसुधेयस्य वेतु यज
अग्निम् अद्य होतारम् अवृणीतायं यजमानः पचन् पक्तीः पचन् पुरोडाशं बध्नन्न् इन्द्राय छागम् । सूपस्था ऽ अद्य देवो वनस्पतिर् अभवद् इन्द्राय छागेन । अघत् तं मेदस्तः प्रति पचताग्रभीद् अवीवृधत् पुरोडाशेन । त्वाम् अद्य ऽ ऋष [आर्षेय ऋषीणां नपाद् अवृणीतायं यजमानो बहुभ्य आ संगतेभ्य एष मे देवेषु वसु वार्यायक्ष्यत इति ता या देवा देव दानान्य् अदुस् तान्य् अस्मा आ च शास्स्वा च गुरस्वेषितश् च होतर् असि भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहि ॥]???
होता यक्षत् समिधानं महद् यशः सुसमिद्धं वरेण्यम् अग्निम् इन्द्रं वयोधसम् । गायत्रीं छन्द ऽ इन्द्रियं त्र्यविं गां वयो दधद् वेत्व् आज्यस्य होतर् यज
होता यक्षत् तनूनपातम् उद्भिदं यं गर्भम् अदितिर् दधे शुचिम् इन्द्रं वयोधसम् । उष्णिहं छन्द ऽ इन्द्रियं दित्यवाहं गां वयो दधद् वेत्व् आज्यस्य होतर् यज
होता यक्षद् ईडेन्यम् ईडितं वृत्रहन्तमम् इडाभिर् ईड्यꣳ सहः सोमम् इन्द्रꣳ वयोधसम् । अनुष्टुभं छन्द ऽ इन्द्रियं पञ्चाविं गां वयो दधद् वेत्व् आज्यस्य होतर् यज
होता यक्षत् सुबर्हिषं पूषण्वन्तम् अमर्त्यꣳ सीदन्तं बर्हिषि प्रिये ऽमृतेन्द्रं वयोधसम् । बृहतीं छन्द ऽ इन्द्रियं त्रिवत्सं गां वयो दधद् वेत्व् आज्यस्य होतर् यज