मध्वा यज्ञं नक्षसे प्रीणानो नराशꣳसो ऽ अग्ने । सुकृद् देवः सविता विश्ववारः
अच्छायम् एति शवसा घृतेनेडानो वह्निर् नमसा । अग्निꣳ स्रुचो ऽ अध्वरेषु प्रयत्सु
स यक्षद् अस्य महिमानम् अग्नेः स ऽ ईं मन्द्रा सुप्रयसः । वसुश्चेतिष्ठो वसुधातमश् च
द्वारो देवीर् अन्व् अस्य विश्वे व्रता ददन्ते ऽ अग्नेः । उरुव्यचसो धाम्ना पत्यमानाः
ते ऽ अस्य योषणे दिव्ये न योना ऽ उषासानक्ता । इमं यज्ञम् अवताम् अध्वरं नः
दैव्या होतारा ऽ ऊर्ध्वम् अध्वरं नो ऽग्नेर् जिह्वाम् अभि गृणीतम् । कृणुतम् नः स्विष्टम्
तिस्रो देवीर् बर्हिर् इदꣳ सदन्त्व् इडा सरस्वती भारती । मही गृणाना
तन् नस् तुरीपम् अद्भुतं पुरुक्षु त्वष्टा सुवीर्यम् । रायस्पोषं वि ष्यतु नाभिम् अस्मे
वनस्पते ऽव सृजा रराणस् त्मना देवेषु । अग्निर् हव्यꣳ शमिता सूदयाति
अग्ने स्वाहा कृणुहि जातवेदो ऽ इन्द्राय हव्यम् । विश्वे देवा हविर् इदं जुषन्ताम्
पीवो ऽ अन्ना रयिवृधः सुमेधाः श्वेतः सिषक्ति नियुताम् अभिश्रीः । ते वायवे समनसो वि तस्थुर् विश्वेन् नरः स्वपत्यानि चक्रुः
राये नु यं जज्ञतू रोदसीमे राये देवी धिषणा धाति देवम् । अध वायुं नियुतः सश्चत स्वा ऽ उत श्वेतं वसुधितिं निरेके
आपो ह यद् बृहतीर् विश्वम् आयन् गर्भं दधाना जनयन्तीर् अग्निम् । ततो देवानाꣳ सम् अवर्ततासुरेकः कस्मै देवाय हविषा विधेम
यश् चिद् आपो महिना पर्यपश्यद् दक्षं दधाना जनयन्तीर् यज्ञम् । यो देवेष्व् अधि देव ऽ एक ऽ आसीत् कस्मै देवाय हविषा विधेम
प्र याभिर् यासि दाश्वाꣳसम् अच्छा नियुद्भिर् वायविष्टये दुरोणे । नि नो रयिꣳ सुभोजसं युवस्व नि वीरं गव्यम् अश्व्यं च राधः
आ नो नियुद्भिः शतिनीभिर् अध्वरꣳ सहस्रिणीभिर् उप याहि यज्ञम् । वायो ऽ अस्मिन् सवने मादयस्व यूयं पात स्वस्तिभिः सदा नः
नियुत्वान् वायवा गह्य् अयꣳ शुक्रो अयामि ते । गन्तासि सुन्वतो गृहम्
वायो शुक्रो ऽ अयामि ते मध्वो ऽ अग्रं दिविष्टिषु । आ याहि सोमपीतये स्पार्हो देव नियुत्वता
वायुर् अग्रेगा यज्ञप्रीः साकं गन् मनसा यज्ञम् । शिवो नियुद्भिः शिवाभिः
वायो ये ते सहस्रिणो रथासस् तेभिर् आ गहि । नियुत्वान्त् सोमपीतये
एकया च दशभिश् च स्वभूते द्वाभ्याम् इष्टये विꣳशती च । तिसृभिश् च वहसे त्रिꣳशता च नियुद्भिर् वायव् इह ता वि मुञ्च
तव वायवृतस्पते त्वष्टुर् जामातर् अद्भुत । अवाꣳस्य् आ वृणीमहे
अभि त्वा शूर नोनुमो ऽदुग्धा इव धेनवः । ईशानम् अस्य जगतः स्वर्दृशम् ईशानम् इन्द्र तस्थुषः
न त्वावाꣳ२ऽ अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते । अश्वायन्तो मघवन्न् इन्द्र वाजिनो गव्यन्तस् त्वा हवामहे
त्वाम् इद्धि हवामहे साता वाजस्य कारवः । त्वां वृत्रेष्व् इन्द्र सत्पतिं नरस् त्वां काष्ठास्व् अर्वतः
स त्वं नश् चित्र वज्रहस्त धृष्णुया मह स्तवानो ऽ अद्रिवः । गाम् अश्वꣳ रथ्यम् इन्द्र सं किर सत्रा वाजं न जिग्युषे
कया नश् चित्र ऽ आ भुवद् ऊती सदावृधः सखा । कया शचिष्ठया वृता
कस् त्वा सत्यो मदानां मꣳहिष्ठो मत्सद् अन्धसः । दृढा चिद् आरुजे वसु
अभी षु णः सखीनाम् अविता जरितॄणाम् । शतं भवास्य् ऊतये
यज्ञा-यज्ञा वो ऽ अग्नये गिरा-गिरा च दक्षसे । प्र-प्र वयम् अमृतं जातवेदसं प्रियं मित्रं न शꣳसिषम्