त्वाम् अग्ने वृणते ब्राह्मणा ऽ इमे शिवो ऽ अग्ने संवरणे भवा नः । सपत्नहा नो ऽ अभिमातिजिच् च स्वे गये जागृह्य् अप्रयुच्छन्
इहैवाग्ने ऽ अधि धारया रयिं मा त्वा नि क्रन् पूर्वचितो निकारिणः । क्षत्रम् अग्ने सुयमम् अस्तु तुभ्यम् उपसत्ता वर्धतां ते ऽ अनिष्टृतः
क्षत्रेणाग्ने स्वायुः सꣳ रभस्व मित्रेणाग्ने मित्रधेये यतस्व । सजातानां मध्यमस्था ऽ एधि राज्ञाम् अग्ने विहव्यो दीदिहीह
अति निहो ऽ अति स्रिधो ऽत्य् अचित्तिम् अत्य् अरातिम् अग्ने । विश्वा ह्य् अग्ने दुरिता सहस्वाथास्मभ्यꣳ सहवीराꣳ रयिं दाः
अनाधृष्यो जातवेदा ऽ अनाधृष्टो विराड् अग्ने क्षत्रभृद् दीदिहीह । विश्वा ऽ आशाः प्रमुञ्चन् मानुषीर् भयः शिवेभिर् अद्य परि पाहि नो वृधे
बृहस्पते सवितर् बोधयैनꣳ सꣳशितं चित् संतराꣳ सꣳ शिशाधि । वर्धयैनं महते सौभगाय विश्व ऽ एनम् अनु मदन्तु देवाः
अमुत्रभूयादध यद् यमस्य बृहस्पते ऽ अभिशस्तेर् अमुञ्चः । प्रत्य् औहताम् अश्विना मृत्युम् अस्माद् देवानाम् अग्ने भिषजा शचीभिः
उद् वयं तमसस् परि स्वः पश्यन्त ऽ उत्तरम् । देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम्
ऊर्ध्वा ऽ अस्य समिधो भवन्त्य् ऊर्ध्वा शुक्रा शोचीꣳष्य् अग्नेः । द्युमत्तमा सुप्रतीकस्य सूनोः
तनूनपाद् असुरो विश्ववेदा देवो देवेषु देवः । पथो अनक्तु मध्वा घृतेन
मध्वा यज्ञं नक्षसे प्रीणानो नराशꣳसो ऽ अग्ने । सुकृद् देवः सविता विश्ववारः
अच्छायम् एति शवसा घृतेनेडानो वह्निर् नमसा । अग्निꣳ स्रुचो ऽ अध्वरेषु प्रयत्सु
स यक्षद् अस्य महिमानम् अग्नेः स ऽ ईं मन्द्रा सुप्रयसः । वसुश्चेतिष्ठो वसुधातमश् च
द्वारो देवीर् अन्व् अस्य विश्वे व्रता ददन्ते ऽ अग्नेः । उरुव्यचसो धाम्ना पत्यमानाः
ते ऽ अस्य योषणे दिव्ये न योना ऽ उषासानक्ता । इमं यज्ञम् अवताम् अध्वरं नः
दैव्या होतारा ऽ ऊर्ध्वम् अध्वरं नो ऽग्नेर् जिह्वाम् अभि गृणीतम् । कृणुतम् नः स्विष्टम्
तिस्रो देवीर् बर्हिर् इदꣳ सदन्त्व् इडा सरस्वती भारती । मही गृणाना
तन् नस् तुरीपम् अद्भुतं पुरुक्षु त्वष्टा सुवीर्यम् । रायस्पोषं वि ष्यतु नाभिम् अस्मे
वनस्पते ऽव सृजा रराणस् त्मना देवेषु । अग्निर् हव्यꣳ शमिता सूदयाति
अग्ने स्वाहा कृणुहि जातवेदो ऽ इन्द्राय हव्यम् । विश्वे देवा हविर् इदं जुषन्ताम्
पीवो ऽ अन्ना रयिवृधः सुमेधाः श्वेतः सिषक्ति नियुताम् अभिश्रीः । ते वायवे समनसो वि तस्थुर् विश्वेन् नरः स्वपत्यानि चक्रुः
राये नु यं जज्ञतू रोदसीमे राये देवी धिषणा धाति देवम् । अध वायुं नियुतः सश्चत स्वा ऽ उत श्वेतं वसुधितिं निरेके
आपो ह यद् बृहतीर् विश्वम् आयन् गर्भं दधाना जनयन्तीर् अग्निम् । ततो देवानाꣳ सम् अवर्ततासुरेकः कस्मै देवाय हविषा विधेम
यश् चिद् आपो महिना पर्यपश्यद् दक्षं दधाना जनयन्तीर् यज्ञम् । यो देवेष्व् अधि देव ऽ एक ऽ आसीत् कस्मै देवाय हविषा विधेम
प्र याभिर् यासि दाश्वाꣳसम् अच्छा नियुद्भिर् वायविष्टये दुरोणे । नि नो रयिꣳ सुभोजसं युवस्व नि वीरं गव्यम् अश्व्यं च राधः
आ नो नियुद्भिः शतिनीभिर् अध्वरꣳ सहस्रिणीभिर् उप याहि यज्ञम् । वायो ऽ अस्मिन् सवने मादयस्व यूयं पात स्वस्तिभिः सदा नः
नियुत्वान् वायवा गह्य् अयꣳ शुक्रो अयामि ते । गन्तासि सुन्वतो गृहम्
वायो शुक्रो ऽ अयामि ते मध्वो ऽ अग्रं दिविष्टिषु । आ याहि सोमपीतये स्पार्हो देव नियुत्वता
वायुर् अग्रेगा यज्ञप्रीः साकं गन् मनसा यज्ञम् । शिवो नियुद्भिः शिवाभिः
वायो ये ते सहस्रिणो रथासस् तेभिर् आ गहि । नियुत्वान्त् सोमपीतये