अग्निर् ऋषिः पवमानः पाञ्चजन्यः पुरोहितः । तम् ईमहे महागयम् । उपयामगृहीतो ऽस्य् अग्नये त्वा वर्चसे । ऽ एष ते योनिर् अग्नये त्वा वर्चसे
महाꣳ२ऽ इन्द्रो वज्रहस्तः षोडशी शर्म यच्छतु । हन्तु पाप्मानं यो ऽस्मान् द्वेष्टि । उपयामगृहीतो ऽसि महेन्द्राय त्वा । एष ते योनिर् महेन्द्राय त्वा
तं वो दस्मम् ऋतीषहं वसोर् मन्दानम् अन्धसः । अभि वत्सं न स्वसरेषु धेनव ऽ इन्द्रं गीर्भिर् नवामहे
यद् वाहिष्ठं तद् अग्नये बृहद् अर्च विभावसो । महिषीव त्वद् रयिस् त्वद् वाजा ऽ उद् ईरते
एह्य् ऊ षु ब्रवाणि ते ऽग्न ऽ इत्थेतरा गिरः । एभिर् वर्धास ऽ इन्दुभिः
ऋतवस् ते यज्ञं वि तन्वन्तु मासा रक्षन्तु ते हविः । संवत्सरस् ते यज्ञं दधातु नः प्रजां च परि पातु नः
उपह्वरे गिरीणाꣳ संगमे च नदीनाम् । धिया विप्रो ऽ अजायत
उच्चा ते जातम् अन्धसो दिवि सद् भूम्य् आ ददे । उग्रꣳ शर्म महि श्रवः
स न ऽ इन्द्राय यज्यवे वरुणाय मरुद्भ्यः । वरिवोवित् परि स्रव
एना विश्वान्य् अर्य ऽ आ द्युम्नानि मानुषाणाम् । सिषासन्तो वनामहे
अनु वीरैर् अनु पुष्यास्म गोभिर् अन्व् अश्वैर् अनु सर्वेण पुष्टैः । अनु द्विपदानु चतुष्पदा वयं देवा नो यज्ञम् ऋतुथा नयन्तु
अग्ने पत्नीर् इहा वह देवानाम् उशतीर् उप । त्वष्टारꣳ सोमपीतये
अभि यज्ञं गृणीहि नो ग्नावो नेष्टः पिब ऽ ऋतुना । त्वꣳ हि रत्नधा ऽ असि
द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत । नेष्ट्राद् ऋतुभिर् इष्यत
तवायꣳ सोमस् त्वम् एह्य् अर्वाङ्छश्वत्तमꣳ सुमना ऽ अस्य पाहि । अस्मिन् यज्ञे बर्हिष्य् आ निषद्या दधिष्वेमं जठर ऽ इन्दुम् इन्द्र
अमेव नः सुहवा ऽ आ हि गन्तन नि बर्हिषि सदतना रणिष्टन । अथा मन्दस्व जुजुषाणो ऽ अन्धसस् त्वष्टर् देवेभिर् जनिभिः सुमद्गणः
स्वादिष्ठया मदिष्ठया पवस्व सोम धारया । इन्द्राय पातवे सुतः
रक्षोहा विश्वचर्षणिर् अभि योनिम् अयोहतम् । द्रुणा(द्रोणे) सधस्थम् आसदत्
समास् त्वाग्न ऽ ऋतवो वर्धयन्तु संवत्सरा ऽ ऋषयो यानि सत्या । सं दिव्येन दीदिहि रोचनेन विश्वा ऽ आ भाहि प्रदिशश् चतस्रः
सं चेध्यस्वाग्ने प्र च बोधयैनम् उच् च तिष्ठ महते सौभगाय । मा च रिषद् उपसत्ता ते ऽ अग्ने ब्रह्माणस् ते यशसः सन्तु मा ऽन्ये
त्वाम् अग्ने वृणते ब्राह्मणा ऽ इमे शिवो ऽ अग्ने संवरणे भवा नः । सपत्नहा नो ऽ अभिमातिजिच् च स्वे गये जागृह्य् अप्रयुच्छन्
इहैवाग्ने ऽ अधि धारया रयिं मा त्वा नि क्रन् पूर्वचितो निकारिणः । क्षत्रम् अग्ने सुयमम् अस्तु तुभ्यम् उपसत्ता वर्धतां ते ऽ अनिष्टृतः
क्षत्रेणाग्ने स्वायुः सꣳ रभस्व मित्रेणाग्ने मित्रधेये यतस्व । सजातानां मध्यमस्था ऽ एधि राज्ञाम् अग्ने विहव्यो दीदिहीह
अति निहो ऽ अति स्रिधो ऽत्य् अचित्तिम् अत्य् अरातिम् अग्ने । विश्वा ह्य् अग्ने दुरिता सहस्वाथास्मभ्यꣳ सहवीराꣳ रयिं दाः
अनाधृष्यो जातवेदा ऽ अनाधृष्टो विराड् अग्ने क्षत्रभृद् दीदिहीह । विश्वा ऽ आशाः प्रमुञ्चन् मानुषीर् भयः शिवेभिर् अद्य परि पाहि नो वृधे
बृहस्पते सवितर् बोधयैनꣳ सꣳशितं चित् संतराꣳ सꣳ शिशाधि । वर्धयैनं महते सौभगाय विश्व ऽ एनम् अनु मदन्तु देवाः
अमुत्रभूयादध यद् यमस्य बृहस्पते ऽ अभिशस्तेर् अमुञ्चः । प्रत्य् औहताम् अश्विना मृत्युम् अस्माद् देवानाम् अग्ने भिषजा शचीभिः
उद् वयं तमसस् परि स्वः पश्यन्त ऽ उत्तरम् । देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम्
ऊर्ध्वा ऽ अस्य समिधो भवन्त्य् ऊर्ध्वा शुक्रा शोचीꣳष्य् अग्नेः । द्युमत्तमा सुप्रतीकस्य सूनोः
तनूनपाद् असुरो विश्ववेदा देवो देवेषु देवः । पथो अनक्तु मध्वा घृतेन