एष छागः पुरो ऽ अश्वेन वाजिना पूष्णो भागो नीयते विश्वदेव्यः । अभिप्रियं यत् पुरोडाशम् अर्वता त्वष्टेद् एनꣳ सौश्रवसाय जिन्वति
यद्धविष्यम् ऋतुशो देवयानं त्रिर् मानुषाः पर्य् अश्वं नयन्ति । अत्रा पूष्णः प्रथमो भाग ऽ एति यज्ञं देवेभ्यः प्रतिवेदयन्न् अजः
होताध्वर्युर् आवया ऽ अग्निमिन्धो ग्रावग्राभ ऽ उत शꣳस्ता सुविप्रः । तेन यज्ञेन स्वरंकृतेन स्विष्टेन वक्षणा आ पृणध्वम्
यूपव्रस्का ऽ उत ये यूपवाहाश् चषालं ये ऽ अश्वयूपाय तक्षति । ये चार्वते पचनꣳ सम्भरन्त्य् उतो तेषाम् अभिगूर्तिर् न ऽ इन्वतु
उप प्रागात् सुमन् मे धायि मन्म देवानाम् आशा ऽ उप वीतपृष्ठः । अन्व् एनं विप्रा ऽ ऋषयो मदन्ति देवानां पुष्टे चकृमा सुबन्धुम्
यद् वाजिनो दाम संदानम् अर्वतो या शीर्षण्या रशना रज्जुर् अस्य । यद् वा घास्य प्रभृतम् आस्ये तृणꣳ सर्वा ता ते ऽ अपि देवेष्व् अस्तु
यद् अश्वस्य क्रविषो मक्षिकाश यद् वा स्वरौ स्वधितौ रिप्तम् अस्ति । यद्धस्तयोः शमितुर् यन् नखेषु सर्वा ता ते ऽ अपि देवेष्व् अस्तु
यद् ऊवध्यम् उदरस्यापवाति य ऽ आमस्य क्रविषो गन्धो ऽ अस्ति । सुकृता तच्छमितारः कृण्वन्तूत मेधꣳ शृतपाकं पचन्तु
यत् ते गात्राद् अग्निना पच्यमानाद् अभि शूलं निहतस्यावधावति । मा तद् भूम्याम् आ श्रिषन् मा तृणेषु देवेभ्यस् तद् उशद्भ्यो रातम् अस्तु
ये वाजिनं परिपश्यन्ति पक्वं य ऽ ईम् आहुः सुरभिर् निर् हरेति । ये चार्वतो माꣳसभिक्षाम् उपासत ऽ उतो तेषाम् अभिगूर्तिर् न ऽ इन्वतु
यन्नीक्षणं माꣳस्पचन्या उखाया या पात्राणि यूष्ण ऽ आसेचनानि । ऊष्मण्यापिधाना चरूणाम् अङ्काः सूनाः परि भूषन्त्य् अश्वम्
मा त्वाग्निर् ध्वनयीद् धूमगन्धिर् मोखा भ्राजन्त्य् अभि विक्त जघ्रिः । इष्टं वीतम् अभिगूर्तं वषट्कृतं तं देवासः प्रति गृभ्णन्त्यश्वम्
निक्रमणं निषदनं विवर्तनं यच् च पड्वीशम् अर्वतः । यच् च पपौ यच् च घासिं जघास सर्वा ता ते ऽ अपि देवेष्व् अस्तु
यद् अश्वाय वास ऽ उपस्तृणन्त्य् अधीवासं या हिरण्यान्य् अस्मै । संदानम् अर्वन्तं पड्वीशं प्रिया देवेष्व् आ यामयन्ति
यत् ते सादे महसा शूकृतस्य पार्ष्ण्या वा कशया वा तुतोद । स्रुचेव ता हविषो ऽ अध्वरेषु सर्वा ता ते ब्रह्मणा सूदयामि
चतुस्त्रिꣳशद् वाजिनो देवबन्धोर् वङ्क्रीर् अश्वस्य स्वधितिः सम् एति । अच्छिद्रा गात्रा वयुना कृणोत परुष्-परुर् अनुघुष्या वि शस्त
एकस् त्वष्टुर् अश्वस्या विशस्ता द्वा यन्तारा भवतस् तथ ऽ ऋतुः । या ते गात्राणाम् ऋतुथा कृणोमि ता-ता पिण्डानां प्र जुहोम्य् अग्नौ
मा त्वा तपत् प्रिय ऽ आत्मापियन्तं मा स्वधितिस् तन्व ऽआ तिष्ठिपत् ते । मा ते गृध्नुर् अविशस्तातिहाय छिद्रा गात्राण्य् असिना मिथू कः
न वा ऽ उ ऽ एतन् म्रियसे न रिष्यसि देवाꣳ२ऽ इद् एषि पथिभिः सुगेभिः । हरी ते युञ्जा पृषती ऽ अभूताम् उपास्थाद् वाजी धुरि रासभस्य
सुगव्यं नो वाजी स्वश्व्यं पुꣳसः पुत्राꣳ२ऽ उत विश्वापुषꣳ रयिम् । अनागास्त्वं नो ऽ अदितिः कृणोतु क्षत्रं नो ऽ अश्वो वनताꣳ हविष्मान्
इमा नु कं भुवना सीषधामेन्द्रश् च विश्वे च देवाः । आदित्यैर् इन्द्रः सगणो मरुद्भिर् अस्मभ्यं भेषजा करत् । यज्ञं च नस् तन्वं च प्रजां चादित्यैर् इन्द्रः सह सीषधाति
अग्ने त्वं नो ऽ अन्तम ऽ उत त्राता शिवो भव वरूथ्यः । वसुर् अग्निर् वसुश्रवा ऽ अच्छा नक्षि द्युमत्तमꣳ रयिं दाः । तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनम् ईमहे सखिभ्यः ॥ [स नो बोधि श्रुधी हवमुरुष्या णो ऽ अघायतः समस्मात्]
अग्निश् च पृथिवी च संनते ते मे सं नमताम् अदः । वायुश् चाऽन्तरिक्षं च संनते ते मे सं नमताम् अदः । ऽ आदित्यश् च द्यौश् च संनते ते मे सं नमताम् अदः । ऽ आपश् च वरुणश् च संनते ते मे सं नमताम् अदः । सप्त सꣳसदो ऽ अष्टमी भूतसाधनी । सकामाꣳ२ऽ अध्वनस् कुरु संज्ञानम् अस्तु मे ऽमुना
यथेमां वाचं कल्याणीम् आवदानि जनेभ्यः । ब्रह्मराजन्याभ्याꣳ शूद्राय चार्याय च स्वाय चारणाय । प्रियो देवानां दक्षिणायै दातुर् इह भूयासम् अयं मे कामः सम् ऋध्यताम् उप मादो नमतु
बृहस्पते ऽ अति यद् अर्यो ऽ अर्हाद् द्युमद् विभाति क्रतुमज् जनेषु । यद् दीदयच्छवस ऽ ऋतप्रजात तद् अस्मासु द्रविणं धेहि चित्रम् । उपयामगृहीतो ऽसि बृहस्पतये त्वा । एष ते योनिर् बृहस्पतये त्वा
इन्द्र गोमन्न् इहा याहि पिबा सोमꣳ शतक्रतो । विद्यद्भिर् ग्रावभिः सुतम् । उपयामगृहीतो ऽसीन्द्राय त्वा गोमते । ऽ एष ते योनिर् इन्द्राय त्वा गोमते
इन्द्रा याहि वृत्रहन् पिबा सोमꣳ शतक्रतो । गोमद्भिर् ग्रावभिः सुतम् । उपयामगृहीतो ऽसीन्द्राय त्वा गोमते । ऽ एष ते योनिर् इन्द्राय त्वा गोमते
ऋतावानं वैश्वानरम् ऋतस्य ज्योतिषस् पतिम् । अजस्रं घर्मम् ईमहे । उपयामगृहीतो ऽसि वैश्वानराय त्वा । एष ते योनिर् वैश्वानराय त्वा
वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानाम् अभिश्रीः । इतो जातो विश्वम् इदं वि चष्टे वैश्वानरो यतते सूर्येण । उपयामगृहीतो ऽसि वैश्वानराय त्वा । एष ते योनिर् वैश्वानराय त्वा
वैश्वानरो न ऽ ऊतय ऽ आ प्र यातु परावतः । अग्निर् उक्थेन वाहसा । उपयामगृहीतो ऽसि वैश्वानराय त्वा । एष ते योनिर् वैश्वानराय त्वा