मरुताꣳ स्कन्धा विश्वेषां देवानां प्रथमा कीकसा रुद्राणां द्वितीयादित्यानां तृतीया वायोः पुच्छम् अग्नीषोमयोर् भासदौ क्रुञ्चौ श्रोणिभ्याम् इन्द्राबृहस्पती ऽ ऊरुभ्यां मित्रावरुणाव् अल्गाभ्याम् आक्रमणꣳ स्थूराभ्यां बलं कुष्ठाभ्याम्
पूषणं वनिष्ठुनान्धाहीन्त् स्थूलगुदया सर्पान् गुदाभिर् विह्रुत ऽ आन्त्रैर् अपो वस्तिना वृषणम् आण्डाभ्यां वाजिनꣳ शेपेन प्रजाꣳ रेतसा चाषान् पित्तेन प्रदरान् पायुना कूश्माञ्छकपिण्डैः
इन्द्रस्य क्रोडो ऽदित्यै पाजस्यं दिशां जत्रवो ऽदित्यै भसज् जीमूतान् हृदयौपशेनान्तरिक्षं पुरीतता नभ ऽ उदर्येण चक्रवाकौ मतस्नाभ्यां दिवं वृक्काभ्यां गिरीन् प्लाशिभिर् उपलान् प्लीह्ना वल्मीकान् क्लोमभिर् ग्लौभिर् गुल्मान् हिराभिः स्रवन्तीर् ह्रदान् कुक्षिभ्याꣳ समुद्रम् उदरेण वैश्वानरं भस्मना
विधृतिं नाभ्या धृतꣳ रसेनापो यूष्णा मरीचीर् विप्रुड्भिर् नीहारमूष्मणा शीनं वसया प्रुष्वा ऽ अश्रुभिर् ह्रादुनीर् दूषीकाभिर् अस्ना रक्षाꣳसि चित्राण्य् अङ्गैर् नक्षत्राणि रूपेण पृथिवीं त्वचा जुम्बकाय स्वाहा
हिरण्यगर्भः सम् अवर्तताग्रे भूतस्य जातः पतिर् एक ऽ आसीत् । स दाधार पृथिवीं द्याम् उतेमां कस्मै देवाय हविषा विधेम
यः प्राणतो निमिषतो महित्वैक ऽ इद् राजा जगतो बभूव । य ऽ ईशे ऽ अस्य द्विपदश् चतुष्पदः कस्मै देवाय हविषा विधेम
यस्येमे हिमवन्तो महित्वा यस्य समुद्रꣳ रसया सहाहुः । यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम
य ऽ आत्मदा बलदा यस्य विश्व ऽ उपासते प्रशिषं यस्य देवाः । यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम
आ नो भद्राः क्रतवो यन्तु विश्वतो दब्धासो ऽ अपरीतास ऽ उद्भिदः । देवा नो यथा सदम् इद् वृधे ऽ असन्न् अप्रायुवो रक्षितारो दिवे-दिवे
देवानां भद्रा सुमतिर् ऋजूयतां देवानाꣳ रातिर् अभि नो नि वर्तताम् । देवानाꣳ सख्यम् उप सेदिमा वयं देवा न ऽ आयुः प्र तिरन्तु जीवसे
तान् पूर्वया निविदा हूमहे वयं भगं मित्रम् अदितिं दक्षम् अस्रिधम् । अर्यमणं वरुणꣳ सोमम् अश्विना सरस्वती नः सुभगा मयस् करत्
तन् नो वातो मयोभु वातु भेषजं तन् माता पृथिवी तत् पिता द्यौः । तद् ग्रावाणः सोमसुतो मयोभुवस् तद् अश्विना शृणुतं धिष्ण्या युवम्
तम् ईशानं जगतस् तस्थुषस् पतिं धियंजिन्वम् अवसे हूमहे वयम् । पूषा नो यथा वेदसाम् असद् वृधे रक्षिता पायुर् अदब्धः स्वस्तये
स्वस्ति न ऽ इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस् तार्क्ष्यो ऽ अरिष्टनेमिः स्वस्ति नो बृहस्पतिर् दधातु
पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो विदथेषु जग्मयः । अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा ऽ अवसा गमन्न् इह
भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर् यजत्राः । स्थिरैर् अङ्गैस् तुष्टुवाꣳसस् तनूभिर् व्यशेमहि देवहितं यद् आयुः
शतम् इन् नु शरदो ऽ अन्ति देवा यत्रा नश् चक्रा जरसं तनूनाम् । पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर् गन्तोः
अदितिर् द्यौर् अदितिर् अन्तरिक्षम् अदितिर् माता स पिता स पुत्रः । विश्वे देवा ऽ अदितिः पञ्च जना ऽ अदितिर् जातम् अदितिर् जनित्वम्
मा नो मित्रो वरुणो ऽ अर्यमायुर् इन्द्र ऽ ऋभुक्षा मरुतः परि ख्यन् । यद् वाजिनो देवजातस्य सप्तेः प्रवक्ष्यामो विदथे वीर्याणि
यन् निर्णिजा रेक्णसा प्रावृतस्य रातिं गृभीतां मुखतो नयन्ति । सुप्राङ् अजो मेम्यद् विश्वरूप ऽ इन्द्रापूष्णोः प्रियम् अप्य् एति पाथः
एष छागः पुरो ऽ अश्वेन वाजिना पूष्णो भागो नीयते विश्वदेव्यः । अभिप्रियं यत् पुरोडाशम् अर्वता त्वष्टेद् एनꣳ सौश्रवसाय जिन्वति
यद्धविष्यम् ऋतुशो देवयानं त्रिर् मानुषाः पर्य् अश्वं नयन्ति । अत्रा पूष्णः प्रथमो भाग ऽ एति यज्ञं देवेभ्यः प्रतिवेदयन्न् अजः
होताध्वर्युर् आवया ऽ अग्निमिन्धो ग्रावग्राभ ऽ उत शꣳस्ता सुविप्रः । तेन यज्ञेन स्वरंकृतेन स्विष्टेन वक्षणा आ पृणध्वम्
यूपव्रस्का ऽ उत ये यूपवाहाश् चषालं ये ऽ अश्वयूपाय तक्षति । ये चार्वते पचनꣳ सम्भरन्त्य् उतो तेषाम् अभिगूर्तिर् न ऽ इन्वतु
उप प्रागात् सुमन् मे धायि मन्म देवानाम् आशा ऽ उप वीतपृष्ठः । अन्व् एनं विप्रा ऽ ऋषयो मदन्ति देवानां पुष्टे चकृमा सुबन्धुम्
यद् वाजिनो दाम संदानम् अर्वतो या शीर्षण्या रशना रज्जुर् अस्य । यद् वा घास्य प्रभृतम् आस्ये तृणꣳ सर्वा ता ते ऽ अपि देवेष्व् अस्तु
यद् अश्वस्य क्रविषो मक्षिकाश यद् वा स्वरौ स्वधितौ रिप्तम् अस्ति । यद्धस्तयोः शमितुर् यन् नखेषु सर्वा ता ते ऽ अपि देवेष्व् अस्तु
यद् ऊवध्यम् उदरस्यापवाति य ऽ आमस्य क्रविषो गन्धो ऽ अस्ति । सुकृता तच्छमितारः कृण्वन्तूत मेधꣳ शृतपाकं पचन्तु
यत् ते गात्राद् अग्निना पच्यमानाद् अभि शूलं निहतस्यावधावति । मा तद् भूम्याम् आ श्रिषन् मा तृणेषु देवेभ्यस् तद् उशद्भ्यो रातम् अस्तु
ये वाजिनं परिपश्यन्ति पक्वं य ऽ ईम् आहुः सुरभिर् निर् हरेति । ये चार्वतो माꣳसभिक्षाम् उपासत ऽ उतो तेषाम् अभिगूर्तिर् न ऽ इन्वतु