भूम्या ऽ आखून् आ लभते ऽन्तरिक्षाय पाङ्क्तान् दिवे कशान् दिग्भ्यो नकुलान् बभ्रुकान् अवान्तरदिशाभ्यः
वसुभ्य ऽ ऋश्यान् आ लभते रुद्रेभ्यः रुरून् आदित्येभ्यो न्यङ्कून् विश्वेभ्यो देवेभ्यः पृषतान्त् साध्येभ्यः कुलुङ्गान्
ईशानाय परस्वत ऽ आ लभते मित्राय गौरान् वरुणाय महिषान् बृहस्पतये गवयाꣳस् त्वष्ट्र ऽ उष्ट्रान्
प्रजापतये पुरुषान् हस्तिन ऽ आ लभते वाचे प्लुषीꣳश् चक्षुषे मशकाञ्छ्रोत्राय भृङ्गाः
प्रजापतये च वायवे च गोमृगो वरुणायारण्यो मेषो यमाय कृष्णो मनुष्यराजाय मर्कटः शार्दूलाय रोहिद् ऋषभाय गवयी क्षिप्रश्येनाय वर्तिका नीलङ्गोः कृमिः समुद्राय शिशुमारो हिमवते हस्ती
मयुः प्राजापत्य ऽ उलो हलिक्ष्णो वृषदꣳशस् ते धात्रे दिशां कङ्को धुङ्क्षाग्नेयी कलविङ्को लोहिताहिः पुष्करसादस् ते त्वाष्ट्रा वाचे क्रुञ्चः
सोमाय कुलुङ्ग ऽ आरण्यो ऽजो नकुलः शका ते पौष्णाः क्रोष्टा मायोर् इन्द्रस्य गौरमृगः पिद्वो न्यङ्कुः कक्कटस् ते ऽनुमत्यै प्रतिश्रुत्कायै चक्रवाकः
सौरी बलाका शार्गः सृजयः शयाण्डकस् ते मैत्राः सरस्वत्यै शारिः पुरुषवाक् श्वाविद् भौमी शार्दूलो वृकः पृदाकुस् ते मन्यवे सरस्वते शुकः पुरुषवाक्
सुपर्णः पार्जन्य ऽ आतिर्वाहसो दर्विदा ते वायवे बृहस्पतये वाचस् पतये पैङ्गराजो ऽलज ऽ आन्तरिक्षः प्लवो मद्गुर् मत्स्यस् ते नदीपतये द्यावापृथिवीयः कूर्मः
पुरुषमृगश् चन्द्रमसो गोधा कालका दार्वाघाटस् ते वनस्पतीनां कृकवाकुः सावित्रो हꣳसो वातस्य नाक्रो मकरः कुलीपयस् ते ऽकूपारस्य ह्रियै शल्पकः
एण्य् अह्नो मण्डूको मूषिका तित्तिरिस् ते सर्पाणां लोपाश ऽ आश्विनः कृष्णो रात्र्या ऽ ऋक्षो जतूः सुषिलीका त ऽ इतरजनानां जहका वैष्णवी
अन्यवापो ऽर्धमासानाम् ऋश्यो मयूरः सुपर्णस् ते गन्धर्वाणाम् अपाम् उद्रो मासां कश्यपो रोहित् कुण्डृणाची गोलत्तिका ते ऽप्सरसां मृत्यवे ऽसितः
वर्षाहूर् ऋतूनाम् आखुः कशो मान्थालस् ते पितॄणां बलायाजगरो वसूनां कपिञ्जलः कपोत ऽ उलूकः शशस् ते निर्ऋत्यै वरुणायारण्यो मेषः
श्वित्र ऽ आदित्यानाम् उष्ट्रो घृणीवान् वार्ध्रीणसस् ते मत्या ऽ अरण्याय सृमरो रुरू रौद्रः क्वयिः कुटरुर् दात्यौहस् ते वाजिनां कामाय पिकः
खड्गो वैश्वदेवः श्वा कृष्णः कर्णो गर्दभस् तरक्षुस् ते रक्षसाम् इन्द्राय सूकरः सिꣳहो मारुताः कृकलासः पिप्पका शकुनिस् ते शरव्यायै विश्वेषां देवानां पृषतः
शादं दद्भिर् अवकां दन्तमूलैर् मृदं बर्स्वैस् तेगान् दꣳष्ट्राभ्याꣳ सरस्वत्या ऽ अग्रजिह्वं जिह्वाया ऽ उत्सादम् अवक्रन्देन तालु वाजꣳ हनुभ्याम् अप ऽ आस्येन वृषणम् आण्डाभ्याम् आदित्याꣳ श्मश्रुभिः पन्थानं भ्रूभ्यां द्यावापृथिवी वर्तोभ्यां विद्युतं कनीनकाभ्याꣳ शुक्लाय स्वाहा कृष्णाय स्वाहा पार्याणि पक्ष्माण्य् अवार्या ऽ इक्षवो वार्याणि पक्ष्माणि पार्या ऽ इक्षवः
वातं प्राणेनापानेन नासिके ऽ उपयामम् अधरेणौष्ठेन सद् उत्तरेण प्रकाशेनान्तरम् अनूकाशेन बाह्यं निवेष्यं मूर्ध्ना स्तनयित्नुं निर्बाधेनाशनिं मस्तिष्केण विद्युतं कनीनकाभ्यां कर्णाभ्याꣳ श्रोत्रꣳ श्रोत्राभ्यां कर्णौ तेदनीम् अधरकण्ठेनापः शुष्ककण्ठेन चित्तं मन्याभिर् अदितिꣳ शीर्ष्णा निर्ऋतिं निर्जर्जल्पेन शीर्ष्णा संक्रोशैः प्राणान् रेष्माणꣳ स्तुपेन
मशकान् केशैर् इन्द्रꣳ स्वपसा वहेन बृहस्पतिꣳ शकुनिसादेन कूर्माञ्छफैर् आक्रमणꣳ स्थूराभ्याम् ऋक्षलाभिः कपिञ्जलान् जवं जङ्घाभ्याम् अध्वानं बाहुभ्यां जाम्बीलेनारण्यम् अग्निम् अतिरुग्भ्यां पूषणं दोर्भ्याम् अश्विनाव् अꣳसाभ्याꣳ रुद्रꣳ रोराभ्याम्
अग्नेः पक्षतिर् वायोर् निपक्षतिर् इन्द्रस्य तृतीया सोमस्य चतुर्थ्य् अदित्यै पञ्चमीन्द्राण्यै षष्ठी मरुताꣳ सप्तमी बृहस्पतेर् अष्टम्य् अर्यम्णो नवमी धातुर् दशमीन्द्रस्यैकादशी वरुणस्य द्वादशी यमस्य त्रयोदशी
इन्द्राग्न्योः पक्षतिर् सरस्वत्यै निपक्षतिर् मित्रस्य तृतीयापां चतुर्थी निर्ऋत्यै पञ्चम्य् अग्नीषोमयोः षष्ठी सर्पाणाꣳ सप्तमी विष्णोर् अष्टमी पूष्णो नवमी त्वष्टुर् दशमीन्द्रस्यैकादशी वरुणस्य द्वादशी यम्यै त्रयोदशी द्यावापृथिव्योर् दक्षिणं पार्श्वं विश्वेषां देवानाम् उत्तरम्
मरुताꣳ स्कन्धा विश्वेषां देवानां प्रथमा कीकसा रुद्राणां द्वितीयादित्यानां तृतीया वायोः पुच्छम् अग्नीषोमयोर् भासदौ क्रुञ्चौ श्रोणिभ्याम् इन्द्राबृहस्पती ऽ ऊरुभ्यां मित्रावरुणाव् अल्गाभ्याम् आक्रमणꣳ स्थूराभ्यां बलं कुष्ठाभ्याम्
पूषणं वनिष्ठुनान्धाहीन्त् स्थूलगुदया सर्पान् गुदाभिर् विह्रुत ऽ आन्त्रैर् अपो वस्तिना वृषणम् आण्डाभ्यां वाजिनꣳ शेपेन प्रजाꣳ रेतसा चाषान् पित्तेन प्रदरान् पायुना कूश्माञ्छकपिण्डैः
इन्द्रस्य क्रोडो ऽदित्यै पाजस्यं दिशां जत्रवो ऽदित्यै भसज् जीमूतान् हृदयौपशेनान्तरिक्षं पुरीतता नभ ऽ उदर्येण चक्रवाकौ मतस्नाभ्यां दिवं वृक्काभ्यां गिरीन् प्लाशिभिर् उपलान् प्लीह्ना वल्मीकान् क्लोमभिर् ग्लौभिर् गुल्मान् हिराभिः स्रवन्तीर् ह्रदान् कुक्षिभ्याꣳ समुद्रम् उदरेण वैश्वानरं भस्मना
विधृतिं नाभ्या धृतꣳ रसेनापो यूष्णा मरीचीर् विप्रुड्भिर् नीहारमूष्मणा शीनं वसया प्रुष्वा ऽ अश्रुभिर् ह्रादुनीर् दूषीकाभिर् अस्ना रक्षाꣳसि चित्राण्य् अङ्गैर् नक्षत्राणि रूपेण पृथिवीं त्वचा जुम्बकाय स्वाहा
हिरण्यगर्भः सम् अवर्तताग्रे भूतस्य जातः पतिर् एक ऽ आसीत् । स दाधार पृथिवीं द्याम् उतेमां कस्मै देवाय हविषा विधेम
यः प्राणतो निमिषतो महित्वैक ऽ इद् राजा जगतो बभूव । य ऽ ईशे ऽ अस्य द्विपदश् चतुष्पदः कस्मै देवाय हविषा विधेम
यस्येमे हिमवन्तो महित्वा यस्य समुद्रꣳ रसया सहाहुः । यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम
य ऽ आत्मदा बलदा यस्य विश्व ऽ उपासते प्रशिषं यस्य देवाः । यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम
आ नो भद्राः क्रतवो यन्तु विश्वतो दब्धासो ऽ अपरीतास ऽ उद्भिदः । देवा नो यथा सदम् इद् वृधे ऽ असन्न् अप्रायुवो रक्षितारो दिवे-दिवे
देवानां भद्रा सुमतिर् ऋजूयतां देवानाꣳ रातिर् अभि नो नि वर्तताम् । देवानाꣳ सख्यम् उप सेदिमा वयं देवा न ऽ आयुः प्र तिरन्तु जीवसे