कृष्णग्रीवा ऽ आग्नेयाः शितिभ्रवो वसूनाꣳ रोहिता रुद्राणाꣳ श्वेता ऽ अवरोकिण ऽ आदित्यानां नभोरूपाः पार्जन्याः
उन्नत ऽ ऋषभो वामनस् त ऽ ऐन्द्रवैष्णवा ऽ उन्नतः शितिबाहुः शितिपृष्ठस् त ऽ ऐन्द्राबार्हस्पत्याः शुकरूपा वाजिनाः कल्माषा ऽ आग्निमारुताः श्यामाः पौष्णाः
एता ऽ ऐन्द्राग्ना द्विरूपा ऽ अग्नीषोमीया वामना ऽ अनड्वाह ऽ आग्नावैष्णवा वशा मैत्रावरुण्योऽन्यत एन्यो ऽ मैत्र्यः
कृष्णग्रीवा ऽ आग्नेया बभ्रवः सौम्याः श्वेता वायव्या ऽ अविज्ञाता ऽ अदित्यै सरूपा धात्रे वत्सतर्यो देवानां पत्नीभ्यः
कृष्णा भौमा धूम्रा ऽ आन्तरिक्षा बृहन्तो दिव्याः शबला वैद्युताः सिध्मास् तारकाः
धूम्रान् वसन्ताया लभते श्वेतान् ग्रीष्माय कृष्णान् वर्षाभ्यो ऽरुणाञ्छरदे पृषतो हेमन्ताय पिशङ्गाञ्छिशिराय
त्र्यवयो गायत्र्यै पञ्चावयस् त्रिष्टुभे दित्यवाहो जगत्यै त्रिवत्सा ऽ अनुष्टुभे तुर्यवाह ऽ उष्णिहे
पष्ठवाहो विराज ऽ उक्षाणो बृहत्या ऽ ऋषभाः ककुभे ऽनड्वाहः पङ्क्त्यै धेनवो ऽतिच्छन्दसे
कृष्णग्रीवा ऽ आग्नेया बभ्रवः सौम्या ऽ उपध्वस्ताः सावित्रा वत्सतर्यः सारस्वत्यः श्यामाः पौष्णाः पृश्नयो मारुता बहुरूपा वैश्वदेवा वशा द्यावापृथिवीयाः
उक्ताः संचरा ऽ एता ऽ ऐन्द्राग्नाः कृष्णाः वारुणाः पृश्नयो मारुताः कायास् तूपराः
अग्नये ऽनीकवते प्रथमजान् आ लभते मरुद्भ्यः सांतपनेभ्यः सवात्यान् मरुद्भ्यो गृहमेधिभ्यो बष्किहान् मरुद्भ्यः क्रीडिभ्यः सꣳसृष्टान् मरुद्भ्यः स्वतवद्भ्योऽनुसृष्टान्
उक्ताः संचरा ऽ एता ऽ ऐन्द्राग्नाः प्राशृङ्गा माहेन्द्रा बहुरूपा वैश्वकर्मणाः
धूम्रा बभ्रुनीकाशाः पितॄणाꣳ सोमवतां बभ्रवो बभ्रुनीकाशाः पितॄणां बर्हिषदां कृष्णा बभ्रुनीकाशाः पितॄणाम् अग्निष्वात्तानां कृष्णाः पृषन्तस् त्रैयम्बकाः
उक्ताः संचरा ऽ एता शुनासीरीयाः श्वेता वायव्याः श्वेताः सौर्याः
वसन्ताय कपिञ्जलान् आ लभते ग्रीष्माय कलविङ्कान् वर्षाभ्यस् तित्तिरीञ्छरदे वर्तिका हेमन्ताय ककराञ्छिशिराय विककरान्
समुद्राय शिशुमारान् आलभते पर्जन्याय मण्डूकान् अद्भ्यो मत्स्यान् मित्राय कुलीपयान् वरुणाय नाक्रान्
सोमाय हꣳसान् आ लभते वायवे बलाका ऽ इन्द्राग्निभ्यां क्रुञ्चान् मित्राय मद्गून् वरुणाय चक्रवाकान्
अग्नये कुटरून् आ लभते वनस्पतिभ्य ऽ उलूकान् अग्नीषोमाभ्यां चाषान् अश्विभ्यां मयूरान् मित्रावरुणाभ्यां कपोतान्
सोमाय लबान् आ लभते त्वष्ट्रे कौलीकान् गोषादीर् देवानां पत्नीभ्यः कुलीका देवजामिभ्यो ऽग्नये गृहपतये पारुष्णान्
अह्ने पारावतान् आ लभते रात्र्यै सीचापूर् अहोरात्रयोः संधिभ्यो जतूर् मासेभ्यो दात्यौहान्त् संवत्सराय महतः सुपर्णान्
भूम्या ऽ आखून् आ लभते ऽन्तरिक्षाय पाङ्क्तान् दिवे कशान् दिग्भ्यो नकुलान् बभ्रुकान् अवान्तरदिशाभ्यः
वसुभ्य ऽ ऋश्यान् आ लभते रुद्रेभ्यः रुरून् आदित्येभ्यो न्यङ्कून् विश्वेभ्यो देवेभ्यः पृषतान्त् साध्येभ्यः कुलुङ्गान्
ईशानाय परस्वत ऽ आ लभते मित्राय गौरान् वरुणाय महिषान् बृहस्पतये गवयाꣳस् त्वष्ट्र ऽ उष्ट्रान्
प्रजापतये पुरुषान् हस्तिन ऽ आ लभते वाचे प्लुषीꣳश् चक्षुषे मशकाञ्छ्रोत्राय भृङ्गाः
प्रजापतये च वायवे च गोमृगो वरुणायारण्यो मेषो यमाय कृष्णो मनुष्यराजाय मर्कटः शार्दूलाय रोहिद् ऋषभाय गवयी क्षिप्रश्येनाय वर्तिका नीलङ्गोः कृमिः समुद्राय शिशुमारो हिमवते हस्ती
मयुः प्राजापत्य ऽ उलो हलिक्ष्णो वृषदꣳशस् ते धात्रे दिशां कङ्को धुङ्क्षाग्नेयी कलविङ्को लोहिताहिः पुष्करसादस् ते त्वाष्ट्रा वाचे क्रुञ्चः
सोमाय कुलुङ्ग ऽ आरण्यो ऽजो नकुलः शका ते पौष्णाः क्रोष्टा मायोर् इन्द्रस्य गौरमृगः पिद्वो न्यङ्कुः कक्कटस् ते ऽनुमत्यै प्रतिश्रुत्कायै चक्रवाकः
सौरी बलाका शार्गः सृजयः शयाण्डकस् ते मैत्राः सरस्वत्यै शारिः पुरुषवाक् श्वाविद् भौमी शार्दूलो वृकः पृदाकुस् ते मन्यवे सरस्वते शुकः पुरुषवाक्
सुपर्णः पार्जन्य ऽ आतिर्वाहसो दर्विदा ते वायवे बृहस्पतये वाचस् पतये पैङ्गराजो ऽलज ऽ आन्तरिक्षः प्लवो मद्गुर् मत्स्यस् ते नदीपतये द्यावापृथिवीयः कूर्मः
पुरुषमृगश् चन्द्रमसो गोधा कालका दार्वाघाटस् ते वनस्पतीनां कृकवाकुः सावित्रो हꣳसो वातस्य नाक्रो मकरः कुलीपयस् ते ऽकूपारस्य ह्रियै शल्पकः