पृच्छामि त्वा परम् अन्तं पृथिव्याः पृच्छामि यत्र भुवनस्य नाभिः । पृच्छामि त्वा वृष्णो ऽ अश्वस्य रेतः पृच्छामि वाचः परमं व्योम
इयं वेदिः परो ऽ अन्तः पृथिव्या ऽ अयं यज्ञो यत्र भुवनस्य नाभिः । अयꣳ सोमो वृष्णो ऽ अश्वस्य रेतः ब्रह्मायं वाचः परमं व्योम
सुभूः स्वयम्भूः प्रथमो ऽन्तर् महत्य् अर्णवे । दधे ह गर्भम् ऋत्वियं यतो जातः प्रजापतिः
होता यक्षत् प्रजापतिꣳ सोमस्य महिम्नः । जुषतां पिबतु सोमꣳ होतर् यज
प्रजापते न त्वद् एतान्य् अन्यो विश्वा रूपाणि परि ता बभूव । यत्कामास् ते जुहुमस् तन् नो ऽ अस्तु । वयꣳ स्याम पतयो रयीणाम्
अश्वस् तूपरो गोमृगस् ते प्राजापत्याः कृष्णग्रीव ऽ आग्नेयो रराटे पुरस्तात् सारस्वती मेष्य् अधस्ताद्धन्वोर् आश्विनाव् अधोरामौ बाह्वोः सौमपौष्णः श्यामो नाभ्याꣳ सौर्ययामौ श्वेतश् च कृष्णश् च पार्श्वयोस् त्वाष्ट्रौ लोमशसक्थौ सक्थ्योर् वायव्यः श्वेतः पुच्छ ऽ इन्द्राय स्वपस्याय वेहद् वैष्णवो वामनः
रोहितो धूम्ररोहितः कर्कन्धुरोहितस् ते सौम्या बभ्रुर् अरुणबभ्रुः शुकबभ्रुस् ते वारुणाः शितिरन्ध्रो ऽन्यतःशितिरन्ध्रः समन्तशितिरन्ध्रस् ते सावित्राः शितिबाहुर् अन्यतःशितिबाहुः समन्तशितिबाहुस् ते बार्हस्पत्याः पृषती क्षुद्रपृषती स्थूलपृषती ता मैत्रावरुण्यः
शुद्धवालः सर्वशुद्धवालो मणिवालस् त ऽ आश्विनाः श्यॆतः श्येताक्षो ऽरुणस् ते रुद्राय पशुपतये कर्णा यामा ऽ अवलिप्ता रौद्रा नभोरूपाः पार्जन्याः
पृश्निस् तिरश्चीनपृश्निर् ऊर्ध्वपृश्निस् ते मारुताः फल्गूर् लोहितोर्णी पलक्षी ताः सारस्वत्यः प्लीहाकर्णः शुण्ठाकर्णो ऽद्ध्यालोहकर्णस् ते त्वाष्ट्राः कृष्णग्रीवः शितिकक्षो ऽञ्जिसक्थस् त ऽ ऐन्द्राग्नाः कृष्णाञ्जिर् अल्पाञ्जिर् महाञ्जिस् त ऽ उषस्याः
शिल्पा वैश्वदेव्यो रोहिण्यस् त्र्यवयो वाचे ऽविज्ञाता ऽ अदित्यै सरूपा धात्रे वत्सतर्यो देवानां पत्नीभ्यः
कृष्णग्रीवा ऽ आग्नेयाः शितिभ्रवो वसूनाꣳ रोहिता रुद्राणाꣳ श्वेता ऽ अवरोकिण ऽ आदित्यानां नभोरूपाः पार्जन्याः
उन्नत ऽ ऋषभो वामनस् त ऽ ऐन्द्रवैष्णवा ऽ उन्नतः शितिबाहुः शितिपृष्ठस् त ऽ ऐन्द्राबार्हस्पत्याः शुकरूपा वाजिनाः कल्माषा ऽ आग्निमारुताः श्यामाः पौष्णाः
एता ऽ ऐन्द्राग्ना द्विरूपा ऽ अग्नीषोमीया वामना ऽ अनड्वाह ऽ आग्नावैष्णवा वशा मैत्रावरुण्योऽन्यत एन्यो ऽ मैत्र्यः
कृष्णग्रीवा ऽ आग्नेया बभ्रवः सौम्याः श्वेता वायव्या ऽ अविज्ञाता ऽ अदित्यै सरूपा धात्रे वत्सतर्यो देवानां पत्नीभ्यः
कृष्णा भौमा धूम्रा ऽ आन्तरिक्षा बृहन्तो दिव्याः शबला वैद्युताः सिध्मास् तारकाः
धूम्रान् वसन्ताया लभते श्वेतान् ग्रीष्माय कृष्णान् वर्षाभ्यो ऽरुणाञ्छरदे पृषतो हेमन्ताय पिशङ्गाञ्छिशिराय
त्र्यवयो गायत्र्यै पञ्चावयस् त्रिष्टुभे दित्यवाहो जगत्यै त्रिवत्सा ऽ अनुष्टुभे तुर्यवाह ऽ उष्णिहे
पष्ठवाहो विराज ऽ उक्षाणो बृहत्या ऽ ऋषभाः ककुभे ऽनड्वाहः पङ्क्त्यै धेनवो ऽतिच्छन्दसे
कृष्णग्रीवा ऽ आग्नेया बभ्रवः सौम्या ऽ उपध्वस्ताः सावित्रा वत्सतर्यः सारस्वत्यः श्यामाः पौष्णाः पृश्नयो मारुता बहुरूपा वैश्वदेवा वशा द्यावापृथिवीयाः
उक्ताः संचरा ऽ एता ऽ ऐन्द्राग्नाः कृष्णाः वारुणाः पृश्नयो मारुताः कायास् तूपराः
अग्नये ऽनीकवते प्रथमजान् आ लभते मरुद्भ्यः सांतपनेभ्यः सवात्यान् मरुद्भ्यो गृहमेधिभ्यो बष्किहान् मरुद्भ्यः क्रीडिभ्यः सꣳसृष्टान् मरुद्भ्यः स्वतवद्भ्योऽनुसृष्टान्
उक्ताः संचरा ऽ एता ऽ ऐन्द्राग्नाः प्राशृङ्गा माहेन्द्रा बहुरूपा वैश्वकर्मणाः
धूम्रा बभ्रुनीकाशाः पितॄणाꣳ सोमवतां बभ्रवो बभ्रुनीकाशाः पितॄणां बर्हिषदां कृष्णा बभ्रुनीकाशाः पितॄणाम् अग्निष्वात्तानां कृष्णाः पृषन्तस् त्रैयम्बकाः
उक्ताः संचरा ऽ एता शुनासीरीयाः श्वेता वायव्याः श्वेताः सौर्याः
वसन्ताय कपिञ्जलान् आ लभते ग्रीष्माय कलविङ्कान् वर्षाभ्यस् तित्तिरीञ्छरदे वर्तिका हेमन्ताय ककराञ्छिशिराय विककरान्
समुद्राय शिशुमारान् आलभते पर्जन्याय मण्डूकान् अद्भ्यो मत्स्यान् मित्राय कुलीपयान् वरुणाय नाक्रान्
सोमाय हꣳसान् आ लभते वायवे बलाका ऽ इन्द्राग्निभ्यां क्रुञ्चान् मित्राय मद्गून् वरुणाय चक्रवाकान्
अग्नये कुटरून् आ लभते वनस्पतिभ्य ऽ उलूकान् अग्नीषोमाभ्यां चाषान् अश्विभ्यां मयूरान् मित्रावरुणाभ्यां कपोतान्
सोमाय लबान् आ लभते त्वष्ट्रे कौलीकान् गोषादीर् देवानां पत्नीभ्यः कुलीका देवजामिभ्यो ऽग्नये गृहपतये पारुष्णान्
अह्ने पारावतान् आ लभते रात्र्यै सीचापूर् अहोरात्रयोः संधिभ्यो जतूर् मासेभ्यो दात्यौहान्त् संवत्सराय महतः सुपर्णान्