केष्व् अन्तः पुरुष ऽ आ विवेश कान्य् अन्तः पुरुषे ऽ अर्पितानि । एतद् ब्रह्मन्न् उपवल्हामसि त्वा किꣳ स्विन् नः प्रति वोचास्य् अत्र
पञ्चस्व् अन्तः पुरुष ऽ आ विवेश तान्य् अन्तः पुरुषे ऽ अर्पितानि । एतत् त्वात्र प्रतिमन्वानो ऽ अस्मि न मायया भवस्य् उत्तरो मत्
का स्विद् आसीत् पूर्वचित्तिः किꣳ स्विद् आसीद् बृहद् वयः । का स्विद् आसीत् पिलिप्पिला का स्विद् आसीत् पिशङ्गिला
द्यौर् आसीत् पूर्वचित्तिः अश्वऽ आसीद् बृहद् वयः । अविर् आसीत् पिलिप्पिला रात्रिर् आसीत् पिशङ्गिला
का ऽ ईमरे पिशंगिला का ऽ ईं कुरुपिशंगिला । क ऽ ईम् आस्कन्दम् अर्षति क ऽ ईं पन्थां वि सर्पति
अजारे पिशंगिला श्वावित् कुरुपिशंगिला । शश आस्कन्दम् अर्षत्य् अहिः पन्थां वि सर्पति
कत्य् अस्य विष्ठाः कत्य् अक्षराणि कति होमासः कतिधा समिद्धः । यज्ञस्य त्वा विदथा पृच्छम् अत्र कति होतार ऽ ऋतुशो यजन्ति
षड् अस्य विष्ठाः शतम् अक्षराण्य् अशीतिर् होमाः समिधो ह तिस्रः । यज्ञस्य ते विदथा प्र ब्रवीमि सप्त होतार ऋतुशो यजन्ति
को ऽ अस्य वेद भुवनस्य नाभिं को द्यावापृथिवी ऽ अन्तरिक्षम् । कः सूर्यस्य वेद बृहतो जनित्रं को वेद चन्द्रमसं यतोजाः
वेदाहम् अस्य भुवनस्य नाभिं वेद द्यावापृथिवी ऽ अन्तरिक्षम् । वेद सूर्यस्य बृहतो जनित्रं अथो वेद चन्द्रमसं यतोजाः
पृच्छामि त्वा परम् अन्तं पृथिव्याः पृच्छामि यत्र भुवनस्य नाभिः । पृच्छामि त्वा वृष्णो ऽ अश्वस्य रेतः पृच्छामि वाचः परमं व्योम
इयं वेदिः परो ऽ अन्तः पृथिव्या ऽ अयं यज्ञो यत्र भुवनस्य नाभिः । अयꣳ सोमो वृष्णो ऽ अश्वस्य रेतः ब्रह्मायं वाचः परमं व्योम
सुभूः स्वयम्भूः प्रथमो ऽन्तर् महत्य् अर्णवे । दधे ह गर्भम् ऋत्वियं यतो जातः प्रजापतिः
होता यक्षत् प्रजापतिꣳ सोमस्य महिम्नः । जुषतां पिबतु सोमꣳ होतर् यज
प्रजापते न त्वद् एतान्य् अन्यो विश्वा रूपाणि परि ता बभूव । यत्कामास् ते जुहुमस् तन् नो ऽ अस्तु । वयꣳ स्याम पतयो रयीणाम्
अश्वस् तूपरो गोमृगस् ते प्राजापत्याः कृष्णग्रीव ऽ आग्नेयो रराटे पुरस्तात् सारस्वती मेष्य् अधस्ताद्धन्वोर् आश्विनाव् अधोरामौ बाह्वोः सौमपौष्णः श्यामो नाभ्याꣳ सौर्ययामौ श्वेतश् च कृष्णश् च पार्श्वयोस् त्वाष्ट्रौ लोमशसक्थौ सक्थ्योर् वायव्यः श्वेतः पुच्छ ऽ इन्द्राय स्वपस्याय वेहद् वैष्णवो वामनः
रोहितो धूम्ररोहितः कर्कन्धुरोहितस् ते सौम्या बभ्रुर् अरुणबभ्रुः शुकबभ्रुस् ते वारुणाः शितिरन्ध्रो ऽन्यतःशितिरन्ध्रः समन्तशितिरन्ध्रस् ते सावित्राः शितिबाहुर् अन्यतःशितिबाहुः समन्तशितिबाहुस् ते बार्हस्पत्याः पृषती क्षुद्रपृषती स्थूलपृषती ता मैत्रावरुण्यः
शुद्धवालः सर्वशुद्धवालो मणिवालस् त ऽ आश्विनाः श्यॆतः श्येताक्षो ऽरुणस् ते रुद्राय पशुपतये कर्णा यामा ऽ अवलिप्ता रौद्रा नभोरूपाः पार्जन्याः
पृश्निस् तिरश्चीनपृश्निर् ऊर्ध्वपृश्निस् ते मारुताः फल्गूर् लोहितोर्णी पलक्षी ताः सारस्वत्यः प्लीहाकर्णः शुण्ठाकर्णो ऽद्ध्यालोहकर्णस् ते त्वाष्ट्राः कृष्णग्रीवः शितिकक्षो ऽञ्जिसक्थस् त ऽ ऐन्द्राग्नाः कृष्णाञ्जिर् अल्पाञ्जिर् महाञ्जिस् त ऽ उषस्याः
शिल्पा वैश्वदेव्यो रोहिण्यस् त्र्यवयो वाचे ऽविज्ञाता ऽ अदित्यै सरूपा धात्रे वत्सतर्यो देवानां पत्नीभ्यः
कृष्णग्रीवा ऽ आग्नेयाः शितिभ्रवो वसूनाꣳ रोहिता रुद्राणाꣳ श्वेता ऽ अवरोकिण ऽ आदित्यानां नभोरूपाः पार्जन्याः
उन्नत ऽ ऋषभो वामनस् त ऽ ऐन्द्रवैष्णवा ऽ उन्नतः शितिबाहुः शितिपृष्ठस् त ऽ ऐन्द्राबार्हस्पत्याः शुकरूपा वाजिनाः कल्माषा ऽ आग्निमारुताः श्यामाः पौष्णाः
एता ऽ ऐन्द्राग्ना द्विरूपा ऽ अग्नीषोमीया वामना ऽ अनड्वाह ऽ आग्नावैष्णवा वशा मैत्रावरुण्योऽन्यत एन्यो ऽ मैत्र्यः
कृष्णग्रीवा ऽ आग्नेया बभ्रवः सौम्याः श्वेता वायव्या ऽ अविज्ञाता ऽ अदित्यै सरूपा धात्रे वत्सतर्यो देवानां पत्नीभ्यः
कृष्णा भौमा धूम्रा ऽ आन्तरिक्षा बृहन्तो दिव्याः शबला वैद्युताः सिध्मास् तारकाः
धूम्रान् वसन्ताया लभते श्वेतान् ग्रीष्माय कृष्णान् वर्षाभ्यो ऽरुणाञ्छरदे पृषतो हेमन्ताय पिशङ्गाञ्छिशिराय
त्र्यवयो गायत्र्यै पञ्चावयस् त्रिष्टुभे दित्यवाहो जगत्यै त्रिवत्सा ऽ अनुष्टुभे तुर्यवाह ऽ उष्णिहे
पष्ठवाहो विराज ऽ उक्षाणो बृहत्या ऽ ऋषभाः ककुभे ऽनड्वाहः पङ्क्त्यै धेनवो ऽतिच्छन्दसे
कृष्णग्रीवा ऽ आग्नेया बभ्रवः सौम्या ऽ उपध्वस्ताः सावित्रा वत्सतर्यः सारस्वत्यः श्यामाः पौष्णाः पृश्नयो मारुता बहुरूपा वैश्वदेवा वशा द्यावापृथिवीयाः
उक्ताः संचरा ऽ एता ऽ ऐन्द्राग्नाः कृष्णाः वारुणाः पृश्नयो मारुताः कायास् तूपराः