का स्विद् आसीत् पूर्वचित्तिः किꣳ स्विद् आसीद् बृहद् वयः । का स्विद् आसीत् पिलिप्पिला का स्विद् आसीत् पिशङ्गिला
द्यौर् आसीत् पूर्वचित्तिः अश्व ऽ आसीद् बृहद् वयः । अविर् आसीत् पिलिप्पिला रात्रिर् आसीत् पिशङ्गिला
वायुष् ट्वा पचतैर् अवतु । असितग्रीवश् छागैः । न्यग्रोधश् चमसैः । शल्मलिर् वृद्ध्या । एष स्य राथ्यो वृषा । पड्भिश् चतुर्भिर् एद् अगन् । ब्रह्माकृष्णश् च नो ऽवतु । नमो ऽग्नये
सꣳशितो रश्मिना रथः सꣳशितो रश्मिना हयः । सꣳशितो अप्स्व् अप्सुजा ब्रह्मा सोमपुरोगवः
स्वयं वाजिꣳस् तन्वं कल्पयस्व स्वयं यजस्व स्वयं जुषस्व । महिमा ते ऽन्येन न संनशे
न वा ऽ उ ऽ एतन् म्रियसे न रिष्यसि देवाꣳ२ऽ इद् एषि पथिभिः सुगेभिः । यत्रासते सुकृतो यत्र ते ययुस् तत्र त्वा देवः सविता दधातु
अग्निः पशुर् आसीत् तेनायजन्त स ऽ एतं लोकम् अजयद् यस्मिन्न् अग्निः स ते लोको भविष्यति तं जेष्यसि पिबैता ऽ अपः । वायुः पशुर् आसीत् तेनायजन्त स ऽ एतं लोकम् अजयद् यस्मिन् वायुः स ते लोको भविष्यति तं जेष्यसि पिबैता ऽ अपः । सूर्यः पशुर् आसीत् तेनायजन्त स ऽ एतं लोकम् अजयद् यस्मिन्त् सूर्यः स ते लोको भविष्यति तं जेष्यसि पिबैता ऽ अपः
प्राणाय स्वाहा । अपानाय स्वाहा । व्यानाय स्वाहा अम्बे ऽ अम्बिके ऽम्बालिके न मा नयति कश् चन । ससस्त्य् अश्वकः सुभद्रिकां काम्पीलवासिनीम्
गणानां त्वा गणपतिꣳ हवामहे प्रियाणां त्वा प्रियपतिꣳ हवामहे निधीनां त्वा निधिपतिꣳ हवामहे वसो मम । आहम् अजानि गर्भधम् आ त्वम् अजासि गर्भधम्
ता ऽ उभौ चतुरः पदः सम्प्र सारयाव स्वर्गे लोके प्रोर्णुवाथां वृषा वाजी रेतोधा रेतो दधातु
उत्सक्थ्या ऽ अव गुदं धेहि सम् अञ्जिं चारया वृषन् । य स्त्रीणां जीवभोजनः
यकासकौ शकुन्तिकाहलग् इति वञ्चति । आ हन्ति गभे पसो निगल्गलीति धारका
यको ऽसकौ शकुन्तक ऽ आहलग् इति वञ्चति । विवक्षत ऽ इव ते मुखम् अध्वर्यो मा नस् त्वम् अभि भाषथाः
माता च ते पिता च ते ऽग्रं वृक्षस्य रोहतः । प्रतिलामीति ते पिता गभे मुष्टिम् अतꣳसयत्
माता च ते पिता च ते ऽग्रे वृक्षस्य क्रीडतः । विवक्षत ऽइव ते मुखं ब्रह्मन् मा नस् त्वं वदो बहु
ऊर्ध्वम् एनाम् उच्छ्रापय गिरौ भारꣳ हरन्न् इव । अथास्यै मध्यम् एधताꣳ शीते वाते पुनन्न् इव
ऊर्ध्वम् एनम् उच्छ्रापय गिरौ भारꣳ हरन्न् इव । अथास्य मध्यम् एजतु शीते वाते पुनन्न् इव
यद् अस्या ऽ अꣳहुभेद्याः कृधु स्थूलम् उपातसत् । मुष्काविदस्या ऽ एजतो गोशफे शकुलाव् इव
यद् देवासो ललामगुं प्र विष्टीमिनम् आविषुः । सक्थ्ना देदिश्यते नारी सत्यस्याक्षिभुवो यथा
यद्धरिणो यवम् अत्ति न पुष्टं पशु मन्यते । शूद्रा यद् अर्यजारा न पोषाय धनायति
यद्धरिणो यवम् अत्ति न पुष्टं बहु मन्यते । शूद्रो यद् अर्यायै जारो न पोषम् अनु मन्यते
दधिक्राव्णो ऽ अकारिषं जिष्णोर् अश्वस्य वाजिनः । सुरभि नो मुखा करत् प्र ण ऽ आयूꣳषि तारिषत्
गायत्री त्रिष्टुब् जगत्य् अनुष्टुप् पङ्क्त्या सह । बृहत्य् उष्णिहा ककुप् सूचीभिः शम्यन्तु त्वा
द्विपदा याश् चतुष्पदास् त्रिपदा याश् च षट्पदाः । विच्छन्दा याश् च सच्छन्दाः सूचीभिः शम्यन्तु त्वा
महानाम्न्यो रेवत्यो विश्वा आशाः प्रभूवरीः । मैघीर् विद्युतो वाचः सूचीभिः शम्यन्तु त्वा
नार्यस् ते पत्न्यो लोम विचिन्वन्तु मनीषया । देवानां पत्न्यो दिशः सूचीभिः शम्यन्तु त्वा
रजता हरिणीः सीसा युजो युज्यन्ते कर्मभिः । अश्वस्य वाजिनस् त्वचि सिमाः शम्यन्तु शम्यन्तीः
कुविद् अङ्ग यवमन्तो यवं चिद् यथा दान्त्य् अनुपूर्वं वियूय । इहेहैषां कृणुहि भोजनानि ये बर्हिषो नम ऽ उक्तिं यजन्ति
कस् त्वा छ्यति कस् त्वा वि शास्ति कस् ते गात्राणि शम्यति । क ऽ उ ते शमिता कविः
ऋतवस्त ऽ ऋतुथा पर्व शमितारो वि शासतु । संवत्सरस्य तेजसा शमीभिः शम्यन्तु त्वा