हिरण्यगर्भः सम् अवर्तताग्रे भूतस्य जातः पतिर् एक ऽ आसीत् । स दाधार पृथिवीं द्याम् उतेमां कस्मै देवाय हविषा विधेम
उपयामगृहीतो ऽसि प्रजापतये त्वा जुष्टं गृह्णामि । एष ते योनिः सूर्यस् ते महिमा । यस् ते ऽहन्त् संवत्सरे महिमा संबभूव यस् ते वायाव् अन्तरिक्षे महिमा संबभूव यस् ते दिवि सूर्ये महिमा संबभूव तस्मै ते महिम्ने प्रजापतये स्वाहा देवेभ्यः
यः प्राणतो निमिषतो महित्वैक ऽ इद् राजा जगतो बभूव । य ऽ ईशे ऽ अस्य द्विपदश् चतुष्पदः कस्मै देवाय हविषा विधेम
उपयामगृहीतो ऽसि प्रजापतये त्वा जुष्टं गृह्णामि । एष ते योनिश् चन्द्रस् ते महिमा । यस् ते रात्रौ संवत्सरे महिमा संबभूव यस् ते पृथिव्याम् अग्नौ महिमा संबभूव यस् ते नक्षत्रेषु चन्द्रमसि महिमा संबभूव तस्मै ते महिम्ने प्रजापतये देवेभ्यः स्वाहा
युञ्जन्ति ब्रध्नम् अरुषं चरन्तं परि तस्थुषः । रोचन्ते रोचना दिवि
युञ्जन्त्य् अस्य काम्या हरी विपक्षसा रथे । शोणा धृष्णू नृवाहसा
यद् वातो ऽ अपो ऽ अगनीगन् प्रियाम् इन्द्रस्य तन्वम् । एतꣳ स्तोतर् अनेन पथा पुनर् अश्वम् आ वर्तयासि नः
वसवस् त्वाञ्जन्तु गायत्रेण छन्दसा । रुद्रास् त्वाञ्जन्तु त्रैष्टुभेन छन्दसा । आदित्यास् त्वाञ्जन्तु जागतेन छन्दसा । भूर् भुवः स्वर् लाजी3ञ् छाची3न् यव्ये गव्यऽ एतद् अन्नम् अत्त देवा ऽ एतद् अन्नम् अद्धि प्रजापते
कः स्विद् एकाकी चरति क ऽ उ स्विज् जायते पुनः । किꣳ स्विद्धिमस्य भेषजं किम् व् आवपनं महत्
सूर्य ऽ एकाकी चरति चन्द्रमा जायते पुनः । अग्निर् हिमस्य भेषजं भूमिर् आवपनं महत्
का स्विद् आसीत् पूर्वचित्तिः किꣳ स्विद् आसीद् बृहद् वयः । का स्विद् आसीत् पिलिप्पिला का स्विद् आसीत् पिशङ्गिला
द्यौर् आसीत् पूर्वचित्तिः अश्व ऽ आसीद् बृहद् वयः । अविर् आसीत् पिलिप्पिला रात्रिर् आसीत् पिशङ्गिला
वायुष् ट्वा पचतैर् अवतु । असितग्रीवश् छागैः । न्यग्रोधश् चमसैः । शल्मलिर् वृद्ध्या । एष स्य राथ्यो वृषा । पड्भिश् चतुर्भिर् एद् अगन् । ब्रह्माकृष्णश् च नो ऽवतु । नमो ऽग्नये
सꣳशितो रश्मिना रथः सꣳशितो रश्मिना हयः । सꣳशितो अप्स्व् अप्सुजा ब्रह्मा सोमपुरोगवः
स्वयं वाजिꣳस् तन्वं कल्पयस्व स्वयं यजस्व स्वयं जुषस्व । महिमा ते ऽन्येन न संनशे
न वा ऽ उ ऽ एतन् म्रियसे न रिष्यसि देवाꣳ२ऽ इद् एषि पथिभिः सुगेभिः । यत्रासते सुकृतो यत्र ते ययुस् तत्र त्वा देवः सविता दधातु
अग्निः पशुर् आसीत् तेनायजन्त स ऽ एतं लोकम् अजयद् यस्मिन्न् अग्निः स ते लोको भविष्यति तं जेष्यसि पिबैता ऽ अपः । वायुः पशुर् आसीत् तेनायजन्त स ऽ एतं लोकम् अजयद् यस्मिन् वायुः स ते लोको भविष्यति तं जेष्यसि पिबैता ऽ अपः । सूर्यः पशुर् आसीत् तेनायजन्त स ऽ एतं लोकम् अजयद् यस्मिन्त् सूर्यः स ते लोको भविष्यति तं जेष्यसि पिबैता ऽ अपः
प्राणाय स्वाहा । अपानाय स्वाहा । व्यानाय स्वाहा अम्बे ऽ अम्बिके ऽम्बालिके न मा नयति कश् चन । ससस्त्य् अश्वकः सुभद्रिकां काम्पीलवासिनीम्
गणानां त्वा गणपतिꣳ हवामहे प्रियाणां त्वा प्रियपतिꣳ हवामहे निधीनां त्वा निधिपतिꣳ हवामहे वसो मम । आहम् अजानि गर्भधम् आ त्वम् अजासि गर्भधम्
ता ऽ उभौ चतुरः पदः सम्प्र सारयाव स्वर्गे लोके प्रोर्णुवाथां वृषा वाजी रेतोधा रेतो दधातु
उत्सक्थ्या ऽ अव गुदं धेहि सम् अञ्जिं चारया वृषन् । य स्त्रीणां जीवभोजनः
यकासकौ शकुन्तिकाहलग् इति वञ्चति । आ हन्ति गभे पसो निगल्गलीति धारका
यको ऽसकौ शकुन्तक ऽ आहलग् इति वञ्चति । विवक्षत ऽ इव ते मुखम् अध्वर्यो मा नस् त्वम् अभि भाषथाः
माता च ते पिता च ते ऽग्रं वृक्षस्य रोहतः । प्रतिलामीति ते पिता गभे मुष्टिम् अतꣳसयत्
माता च ते पिता च ते ऽग्रे वृक्षस्य क्रीडतः । विवक्षत ऽइव ते मुखं ब्रह्मन् मा नस् त्वं वदो बहु
ऊर्ध्वम् एनाम् उच्छ्रापय गिरौ भारꣳ हरन्न् इव । अथास्यै मध्यम् एधताꣳ शीते वाते पुनन्न् इव
ऊर्ध्वम् एनम् उच्छ्रापय गिरौ भारꣳ हरन्न् इव । अथास्य मध्यम् एजतु शीते वाते पुनन्न् इव
यद् अस्या ऽ अꣳहुभेद्याः कृधु स्थूलम् उपातसत् । मुष्काविदस्या ऽ एजतो गोशफे शकुलाव् इव
यद् देवासो ललामगुं प्र विष्टीमिनम् आविषुः । सक्थ्ना देदिश्यते नारी सत्यस्याक्षिभुवो यथा
यद्धरिणो यवम् अत्ति न पुष्टं पशु मन्यते । शूद्रा यद् अर्यजारा न पोषाय धनायति