अद्भ्यः स्वाहा वार्भ्यः स्वाहोदकाय स्वाहा तिष्ठन्तीभ्यः स्वाहा स्रवन्तीभ्यः स्वाहा स्यन्दमानाभ्यः स्वाहा कूप्याभ्यः स्वाहा सूद्याभ्यः स्वाहा धार्याभ्यः स्वाहार्णवाय स्वाहा समुद्राय स्वाहा सरिराय स्वाहा
वाताय स्वाहा धूमाय स्वाहाभ्राय स्वाहा मेघाय स्वाहा विद्योतमानाय स्वाहा स्तनयते स्वाहावस्फूर्जते स्वाहा वर्षते स्वाहाववर्षते स्वाहोग्रं वर्षते स्वाहा शीघ्रं वर्षते स्वाहोद्ग्रृह्णते स्वाहोद्ग्रृहीताय स्वाहा प्रुष्णते स्वाहा शीकायते स्वाहा प्रुष्वाभ्यः स्वाहा ह्रादुनीभ्यः स्वाहा नीहाराय स्वाहा
अग्नये स्वाहा सोमाय स्वाहेन्द्राय स्वाहा पृथिव्यै स्वाहान्तरिक्षाय स्वाहा दिवे स्वाहा दिग्भ्यः स्वाहाशाभ्यः स्वाहोर्व्यै दिशे स्वाहार्वाच्यै दिशे स्वाहा
नक्षत्रेभ्यः स्वाहा नक्षत्रियेभ्यः स्वाहाहोरात्रेभ्यः स्वाहार्धमासेभ्यः स्वाहा मासेभ्यः स्वाहा ऽ ऋतुभ्यः स्वाहार्तवेभ्यः स्वाहा संवत्सराय स्वाहा द्यावापृथिवीभ्याꣳ स्वाहा चन्द्राय स्वाहा सूर्याय स्वाहा रश्मिभ्यः स्वाहा वसुभ्यः स्वाहा रुद्रेभ्यः स्वाहादित्येभ्यः स्वाहा मरुद्भ्यः स्वाहा विश्वेभ्यो देवेभ्यः स्वाहा मूलेभ्यः स्वाहा शाखाभ्यः स्वाहा वनस्पतिभ्यः स्वाहा पुष्पेभ्यः स्वाहा फलेभ्यः स्वाहौषधीभ्यः स्वाहा
पृथिव्यै स्वाहान्तरिक्षाय स्वाहा दिवे स्वाहा सूर्याय स्वाहा चन्द्राय स्वाहा नक्षत्रेभ्यः स्वाहाद्भ्यः स्वाहौषधीभ्यः स्वाहा वनस्पतिभ्यः स्वाहा परिप्लवेभ्यः स्वाहा चराचरेभ्यः स्वाहा सरीसृपेभ्यः स्वाहा
असवे स्वाहा वसवे स्वाहा विभुवे स्वाहा विवस्वते स्वाहा गणश्रिये स्वाहा गणपतये स्वाहाभिभुवे स्वाहाधिपतये स्वाहा शूषाय स्वाहा सꣳसर्पाय स्वाहा चन्द्राय स्वाहा ज्योतिषे स्वाहा मलिम्लुचाय स्वाहा दिवा पतयते स्वाहा
मधवे स्वाहा माधवाय स्वाहा शुक्राय स्वाहा शुचये स्वाहा नभसे स्वाहा नभस्याय स्वाहाहेषाय स्वाहोर्जाय स्वाहा सहसे स्वाहा सहस्याय स्वाहा तपसे स्वाहा तपस्याय स्वाहाꣳहसस्पतये स्वाहा
वाजाय स्वाहा प्रसवाय स्वाहापिजाय स्वाहा क्रतवे स्वाहा स्वः स्वाहा मूर्ध्ने स्वाहा व्यश्नुविने स्वाहान्त्याय स्वाहान्त्याय भौवनाय स्वाहा भुवनस्य पतये स्वाहाधिपतये स्वाहा प्रजापतये स्वाहा
आयुर् यज्ञेन कल्पताꣳ स्वाहा प्राणो यज्ञेन कल्पताꣳ स्वाहापानो यज्ञेन कल्पताꣳ स्वाहा व्यानो यज्ञेन कल्पताꣳ स्वाहोदानो यज्ञेन कल्पताꣳ स्वाहा समानो यज्ञेन कल्पताꣳ स्वाहा चक्षुर् यज्ञेन कल्पताꣳ स्वाहा श्रोत्रं यज्ञेन कल्पताꣳ स्वाहा वाग् यज्ञेन कल्पताꣳ स्वाहा मनो यज्ञेन कल्पताꣳ स्वाहात्मा यज्ञेन कल्पताꣳ स्वाहा ब्रह्मा यज्ञेन कल्पताꣳ स्वाहा ज्योतिर् यज्ञेन कल्पताꣳ स्वाहा स्वर् यज्ञेन कल्पताꣳ स्वाहा पृष्ठं यज्ञेन कल्पताꣳ स्वाहा यज्ञो यज्ञेन कल्पताꣳ स्वाहा
एकस्मै स्वाहा द्वाभ्याꣳ स्वाहा शताय स्वाहैकशताय स्वाहा व्युष्ट्यै स्वाहा स्वर्गाय स्वाहा
हिरण्यगर्भः सम् अवर्तताग्रे भूतस्य जातः पतिर् एक ऽ आसीत् । स दाधार पृथिवीं द्याम् उतेमां कस्मै देवाय हविषा विधेम
उपयामगृहीतो ऽसि प्रजापतये त्वा जुष्टं गृह्णामि । एष ते योनिः सूर्यस् ते महिमा । यस् ते ऽहन्त् संवत्सरे महिमा संबभूव यस् ते वायाव् अन्तरिक्षे महिमा संबभूव यस् ते दिवि सूर्ये महिमा संबभूव तस्मै ते महिम्ने प्रजापतये स्वाहा देवेभ्यः
यः प्राणतो निमिषतो महित्वैक ऽ इद् राजा जगतो बभूव । य ऽ ईशे ऽ अस्य द्विपदश् चतुष्पदः कस्मै देवाय हविषा विधेम
उपयामगृहीतो ऽसि प्रजापतये त्वा जुष्टं गृह्णामि । एष ते योनिश् चन्द्रस् ते महिमा । यस् ते रात्रौ संवत्सरे महिमा संबभूव यस् ते पृथिव्याम् अग्नौ महिमा संबभूव यस् ते नक्षत्रेषु चन्द्रमसि महिमा संबभूव तस्मै ते महिम्ने प्रजापतये देवेभ्यः स्वाहा
युञ्जन्ति ब्रध्नम् अरुषं चरन्तं परि तस्थुषः । रोचन्ते रोचना दिवि
युञ्जन्त्य् अस्य काम्या हरी विपक्षसा रथे । शोणा धृष्णू नृवाहसा
यद् वातो ऽ अपो ऽ अगनीगन् प्रियाम् इन्द्रस्य तन्वम् । एतꣳ स्तोतर् अनेन पथा पुनर् अश्वम् आ वर्तयासि नः
वसवस् त्वाञ्जन्तु गायत्रेण छन्दसा । रुद्रास् त्वाञ्जन्तु त्रैष्टुभेन छन्दसा । आदित्यास् त्वाञ्जन्तु जागतेन छन्दसा । भूर् भुवः स्वर् लाजी3ञ् छाची3न् यव्ये गव्यऽ एतद् अन्नम् अत्त देवा ऽ एतद् अन्नम् अद्धि प्रजापते
कः स्विद् एकाकी चरति क ऽ उ स्विज् जायते पुनः । किꣳ स्विद्धिमस्य भेषजं किम् व् आवपनं महत्
सूर्य ऽ एकाकी चरति चन्द्रमा जायते पुनः । अग्निर् हिमस्य भेषजं भूमिर् आवपनं महत्
का स्विद् आसीत् पूर्वचित्तिः किꣳ स्विद् आसीद् बृहद् वयः । का स्विद् आसीत् पिलिप्पिला का स्विद् आसीत् पिशङ्गिला
द्यौर् आसीत् पूर्वचित्तिः अश्व ऽ आसीद् बृहद् वयः । अविर् आसीत् पिलिप्पिला रात्रिर् आसीत् पिशङ्गिला
वायुष् ट्वा पचतैर् अवतु । असितग्रीवश् छागैः । न्यग्रोधश् चमसैः । शल्मलिर् वृद्ध्या । एष स्य राथ्यो वृषा । पड्भिश् चतुर्भिर् एद् अगन् । ब्रह्माकृष्णश् च नो ऽवतु । नमो ऽग्नये
सꣳशितो रश्मिना रथः सꣳशितो रश्मिना हयः । सꣳशितो अप्स्व् अप्सुजा ब्रह्मा सोमपुरोगवः
स्वयं वाजिꣳस् तन्वं कल्पयस्व स्वयं यजस्व स्वयं जुषस्व । महिमा ते ऽन्येन न संनशे
न वा ऽ उ ऽ एतन् म्रियसे न रिष्यसि देवाꣳ२ऽ इद् एषि पथिभिः सुगेभिः । यत्रासते सुकृतो यत्र ते ययुस् तत्र त्वा देवः सविता दधातु
अग्निः पशुर् आसीत् तेनायजन्त स ऽ एतं लोकम् अजयद् यस्मिन्न् अग्निः स ते लोको भविष्यति तं जेष्यसि पिबैता ऽ अपः । वायुः पशुर् आसीत् तेनायजन्त स ऽ एतं लोकम् अजयद् यस्मिन् वायुः स ते लोको भविष्यति तं जेष्यसि पिबैता ऽ अपः । सूर्यः पशुर् आसीत् तेनायजन्त स ऽ एतं लोकम् अजयद् यस्मिन्त् सूर्यः स ते लोको भविष्यति तं जेष्यसि पिबैता ऽ अपः
प्राणाय स्वाहा । अपानाय स्वाहा । व्यानाय स्वाहा अम्बे ऽ अम्बिके ऽम्बालिके न मा नयति कश् चन । ससस्त्य् अश्वकः सुभद्रिकां काम्पीलवासिनीम्
गणानां त्वा गणपतिꣳ हवामहे प्रियाणां त्वा प्रियपतिꣳ हवामहे निधीनां त्वा निधिपतिꣳ हवामहे वसो मम । आहम् अजानि गर्भधम् आ त्वम् अजासि गर्भधम्
ता ऽ उभौ चतुरः पदः सम्प्र सारयाव स्वर्गे लोके प्रोर्णुवाथां वृषा वाजी रेतोधा रेतो दधातु