होता यक्षद् वनस्पतिम् अभि हि पिष्टतमया रभिष्ठया रशनयाधित । यत्राश्विनोश् छागस्य हविषः प्रिया धामानि यत्र सरस्वत्या मेषस्य हविषः प्रिया धामानि यत्रेन्द्रस्य ऽऋषभस्य हविषः प्रिया धामानि यत्राग्नेः प्रिया धामानि यत्र सोमस्य प्रिया धामानि यत्रेन्द्रस्य सुत्राम्णः प्रिया धामानि यत्र सवितुः प्रिया धामानि यत्र वरुणस्य प्रिया धामानि यत्र वनस्पतेः प्रिया पाथाꣳसि यत्र देवानाम् आज्यपानां प्रिया धामानि यत्राग्नेर् होतुः प्रिया धामानि तत्रैतान् प्रस्तुत्येवोपस्तुत्येवोपाव स्रक्षद् रभीयस ऽइव कृत्वी करद् एवं देवो वनस्पतिर् जुषताꣳ हविर् होतर् यज
होता यक्षद् अग्निꣳ स्विष्टकृतम् अयाड् अग्निर् अश्विनोश् छागस्य हविषः प्रिया धामान्य् अयाट् सरस्वत्या मेषस्य हविषः प्रिया धामान्य् अयाड् इन्द्रस्य ऽ ऋषभस्य हविषः प्रिया धामान्य् अयाड् अग्नेः प्रिया धामान्य् अयाट् सोमस्य प्रिया धामान्य् अयाड् इन्द्रस्य सुत्राम्णः प्रिया धामान्य् अयाट् सवितुः प्रिया धामान्य् अयाड् वरुणस्य प्रिया धामान्य् अयाड् वनस्पतेः प्रिया पाथाꣳस्य् अयाड् देवानाम् आज्यपानां प्रिया धामानि यक्षद् अग्नेर् होतुः प्रिया धामानि यक्षत् स्वं महिमानम् आ यजताम् एज्या ऽ इषः कृणोतु सो ऽ अध्वरा जातवेदा जुषताꣳ हविर् होतर् यज
देवं बर्हिः सरस्वती सुदेवम् इन्द्रे ऽ अश्विना । तेजो न चक्षुर् अक्ष्योर् बर्हिषा दधुर् इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज
देवीर् द्वारो ऽ अश्विना भिषजेन्द्रे सरस्वती । प्राणं न वीर्यं नसि द्वारो दधुर् इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज
देवी ऽ उषासाव् अश्विना सुत्रामेन्द्रे सरस्वती । बलं न वाचम् आस्य ऽ उषाभ्यां दधुर् इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज
देवी जोष्ट्री सरस्वत्य् अश्विनेन्द्रम् अवर्धयन् । श्रोत्रं न कर्णयोर् यशो जोष्ट्रीभ्यां दधुर् इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज
देवी ऽ ऊर्जाहुती दुघे सुदुघेन्द्रे सरस्वत्य् अश्विना भिषजावतः । शुक्रं न ज्योति स्तनयोर् आहुती धत्त ऽ इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज
देवा देवानां भिषजा होताराव् इन्द्रम् अश्विना । वषट्कारैः सरस्वती त्विषिं न हृदये मतिꣳ होतृभ्यां दधुर् इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज
देवीस् तिस्रस् तिस्रो देवीर् अश्विनेडा सरस्वती । शूषं न मध्ये नाभ्याम् इन्द्राय दधुर् इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज
देव ऽ इन्द्रो नराशꣳसस् त्रिवरूथः सरस्वत्याश्विभ्याम् ईयते रथः । रेतो न रूपम् अमृतं जनित्रम् इन्द्राय त्वष्टा दधद् इन्द्रियाणि वसुवने वसुधेयस्य व्यन्तु यज
देवो देवैर् वनस्पतिर् हिरण्यपर्णो ऽ अश्विभ्याꣳ सरस्वत्या सुपिप्पल ऽ इन्द्राय पच्यते मधु । ओजो न जूतिर् ऋषभो न भामं वनस्पतिर् नो दधद् इन्द्रियाणि वसुवने वसुधेयस्य व्यन्तु यज
देवं बर्हिर् वारितीनाम् अध्वरे स्तीर्णम् अश्विभ्यामूर्णम्रदाः सरस्वत्या स्योनम् इन्द्र ते सदः । ईशायै मन्युꣳ राजानं बर्हिषा दधुर् इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज
देवो ऽ अग्निः स्विष्टकृद् देवान् यक्षद् यथायथꣳ होताराव् इन्द्रम् अश्विना वाचा वाचꣳ सरस्वतीम् अग्निꣳ सोमꣳ स्विष्टकृत् स्विष्ट इन्द्रः सुत्रामा सविता वरुणो भिषग् इष्टो देवोवनस्पतिः स्विष्टा देवा ऽ आज्यपाः स्विष्टो ऽ अग्निर् अग्निना होता होत्रे स्विष्टकृद् यशो न दधद् इन्द्रियमूर्जम् अपचितिꣳ स्वधां वसुवने वसुधेयस्य व्यन्तु यज
अग्निम् अद्य होतारम् अवृणीतायं यजमानः पचन् पक्तीः पचन् पुरोडाशान् बध्नन्न् अश्विभ्यां छागꣳ सरस्वत्यै मेषम् इन्द्राय ऽ ऋषभꣳ सुन्वन्न् अश्विभ्याꣳ सरस्वत्या ऽइन्द्राय सुत्राम्णे सुरासोमान्
सूपस्था ऽ अद्य देवो वनस्पतिर् अभवद् अश्विभ्यां छागेन सरस्वत्यै मेषेणेन्द्राय ऽऋषभेणाक्षꣳस् तान् मेदस्तः प्रति पचतागृभीषतावीवृधन्त पुरोडाशैर् अपुर् अश्विना सरस्वतीन्द्रः सुत्रामा सुरासोमान्
त्वाम् अद्य ऽ ऋष ऽ आर्षेय ऽ ऋषीणां नपाद् अवृणीतायं यजमानो बहुभ्य ऽ आ संगतेभ्य ऽ एष मे देवेषु वसु वार्यायक्ष्यत ऽ इति ता या देवा देव दानान्य् अदुस् तान्य् अस्मा ऽ आ च शास्स्वा च गुरस्वेषितश् च होतर् असि भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहि
तेजोऽसि शुक्रम् अमृतम् आयुष्पा ऽ आयुर् मे पाहि । देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् । आ ददे
इमाम् अगृभ्णन् रशनाम् ऋतस्य पूर्व ऽ आयुषि विदथेषु कव्या । सा नो ऽ अस्मिन्त् सुत ऽ आ बभूव ऽ ऋतस्य सामन्त् सरमारपन्ती
अभिधा ऽ असि भुवनम् असि यन्तासि धर्ता । स त्वम् अग्निं वैश्वानरꣳ सप्रथसं गच्छ स्वाहाकृतः
स्वगा त्वा देवेभ्यः प्रजापतये ब्रह्मन्न् अश्वं भन्त्स्यामि देवेभ्यः प्रजापतये तेन राध्यासम् । तं बधान देवेभ्यः प्रजापतये तेन राध्नुहि
प्रजापतये त्वा जुष्टं प्रोक्षामि । इन्द्राग्निभ्यां त्वा जुष्टं प्रोक्षामि । वायवे त्वा जुष्टं प्रोक्षामि । विश्वेभ्यस् त्वा देवेभ्यो जुष्टं प्रोक्षामि । सर्वेभ्यस् त्वा देवेभ्यो जुष्टं प्रोक्षामि । यो ऽ अर्वन्तं जिघाꣳसति तम् अभ्य् अमीति वरुणः परो मर्तः परः श्वा
अग्नये स्वाहा । सोमाय स्वाहा । अपां मोदाय स्वाहा । सवित्रे स्वाहा । वायवे स्वाहा । विष्णवे स्वाहा । इन्द्राय स्वाहा । बृहस्पतये स्वाहा । मित्राय स्वाहा । वरुणाय स्वाहा
हिङ्काराय स्वाहा हिङ्कृताय स्वाहा क्रन्दते स्वाहावक्रन्दाय स्वाहा प्रोथते स्वाहा प्रप्रोथाय स्वाहा गन्धाय स्वाहा घ्राताय स्वाहा निविष्टाय स्वाहोपविष्टाय स्वाहा संदिताय स्वाहा वल्गते स्वाहासीनाय स्वाहा शयानाय स्वाहा स्वपते स्वाहा जाग्रते स्वाहा कूजते स्वाहा प्रबुद्धाय स्वाहा विजृम्भमाणाय स्वाहा विचृताय स्वाहा सꣳहानाय स्वाहोपस्थिताय स्वाहाऽयनाय स्वाहा प्रायणाय स्वाहा
यते स्वाहा धावते स्वाहोद्द्रावाय स्वाहोद्द्रुताय स्वाहा शूकाराय स्वाहा शूकृताय स्वाहा निषणाय स्वाहोत्थिताय स्वाहा जवाय स्वाहा बलाय स्वाहा विवर्तमानाय स्वाहा विवृत्ताय स्वाहा विधून्वानाय स्वाहा विधूताय स्वाहा शुश्रूषमाणाय स्वाहा शृण्वते स्वाहेक्षमाणाय स्वाहेक्षिताय स्वाहा वीक्षिताय स्वाहा निमेषाय स्वाहा यद् अत्ति तस्मै स्वाहा यत् पिबति तस्मै स्वाहा यन् मूत्रं करोति तस्मै स्वाहा कुर्वते स्वाहा कृताय स्वाहा
तत् सवितुर् वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात्
हिरण्यपाणिमूतये सवितारम् उप ह्वये । स चेत्ता देवता पदम्
देवस्य चेततो महीं प्र सवितुर् हवामहे । सुमतिꣳ सत्यराधसम्
सुष्टुतिꣳ सुमतीवृधो रातिꣳ सवितुर् ईमहे । प्र देवाय मतीविदे
रातिꣳ सत्पतिं महे सवितारम् उप ह्वये । आसवं देववीतये
देवस्य सवितुर् मतिम् आसवं विश्वदेव्यम् । धिया भगं मनामहे