महीनां पयो सि वर्चोदा ऽ असि वर्चो मे देहि । वृत्रस्यासि कनीनकश् चक्षुर्दा ऽ असि चक्षुर् मे देहि
चित्पतिर् मा पुनातु । वाक्पतिर् मा पुनातु । देवो मा सविता पुनात्व् अच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः । तस्य ते पवित्रपते पवित्रपूतस्य यत्कामः पुने तच् छकेयम्
आ वो देवास ऽ ईमहे वामं प्रयत्य् अध्वरे । आ वो देवास आशिषो ऽ यज्ञियासो हवामहे
स्वाहा यज्ञं मनसः । स्वाहोरोर् अन्तरिक्षात् । स्वाहा द्यावापृथिवीभ्याम् । स्वाहा वाताद् आ रभे स्वाहा
आकूत्यै प्रयुजे ऽग्नये स्वाहा मेधायै मनसे ऽग्नये स्वाहा दीक्षायै तपसे ऽग्नये स्वाहा सरस्वत्यै पूष्णे ऽग्नये स्वाहा आपो देवीर् बृहतीर् विश्वशम्भुवो द्यावापृथिवी ऽ उरो ऽ अन्तरिक्ष । बृहस्पतये हविषा विधेम स्वाहा
विश्वो देवस्य नेतुर् मर्तो वुरीत सख्यम् । विश्वो राय ऽ इषुध्यति द्युम्नं वृणीत पुष्यसे स्वाहा
ऋक्सामयोः शिल्पे स्थः ते वाम् आ रभे ते मा पातमास्य यज्ञस्योदृचः । शर्मासि शर्म मे यच्छ नमस् ते ऽ अस्तु मा मा हिꣳसीः
ऊर्ग् अस्य् आङ्गिरस्यूर्णम्रदा ऽ ऊर्जं मयि धेहि । सोमस्य नीविर् असि । विष्णोः शर्मासि शर्म यजमानस्य । इन्द्रस्य योनिर् असि । सुसस्याः कृषीस् कृधि । उच् छ्रयस्व वनस्पत ऽऊर्ध्वो मा पाह्य् अꣳहसऽ आस्य यज्ञस्योदृचः
व्रतं कृणुताग्निर् ब्रह्माग्निर् यज्ञो वनस्पतिर् यज्ञियः । दैवीं धियं मनामहे सुमृडीकाम् अभिष्टये वर्चोधां यज्ञवाहसꣳ सुतीर्था नो ऽअसद् वशे । ये देवा मनोजाता मनोयुजो दक्षक्रतवस् ते नो ऽवन्तु ते नः पान्तु तेभ्यः स्वाहा
श्वात्राः पीता भवत यूयम् आपो ऽअस्माकम् अन्तर् उदरे सुशेवाः । ता ऽअस्मभ्यम् अयक्ष्माऽ अनमीवा ऽअनागसः स्वदन्तु देवीर् अमृता ऽ ऋतावृधः
इयं ते यज्ञिया तनूः । अपो मुञ्चामि न प्रजाम् । अꣳहोमुचः स्वाहाकृताः पृथिवीम् आविशत । पृथिव्या संभव
अग्ने त्वꣳ सु जागृहि वयꣳ सु मन्दिषीमहि । रक्षा णो ऽ अप्रयुच्छन् प्रबुधे नः पुनस् कृधि
पुनर् मनः पुनर् आयुर् म ऽआगन् पुनः प्राणः पुनर् आत्मा मऽ आगन् पुनश् चक्षुः पुनः श्रोत्रं म ऽआगन् । वैश्वानरोऽ अदब्धस् तनूपा ऽअग्निर् नः पातु दुरिताद् अवद्यात्
त्वम् अग्ने व्रतपा ऽ असि देव ऽ आ मर्त्येष्व् आ त्वं यज्ञेष्व् ईड्यः । रास्वेयत्सोमा भूयो भर देवो नः सविता वसोर् दाता वस्व् अदात्
एषा ते शुक्र तनूर् एतद् वर्चस् तया सं भव भ्राजं गच्छ । जूर् असि धृता मनसा जुष्टा विष्णवे
तस्यास् ते सत्यसवसः प्रसवे तन्वो यन्त्रम् अशीय स्वाहा । शुक्रम् असि चन्द्रम् अस्य् अमृतम् असि वैश्वदेवम् असि
चिद् असि मनासि धीर् असि दक्षिणासि क्षत्रियासि यज्ञियास्य् अदितिर् अस्य् उभयतःशीर्ष्णी । सा नः सुप्राची सुप्रतीच्य् एधि मित्रस् त्वा पदि बध्नीतां पूषाऽध्वनस् पात्व् इन्द्रायाध्यक्षाय
अनु त्वा माता मन्यताम् अनु पिताऽनु भ्राता सगर्भ्यो ऽनु सखा सयूथ्यः । सा देवि देवम् अच्छेहीन्द्राय सोमꣳ रुद्रस् त्वा वर्तयतु स्वस्ति सोमसखा पुनर् एहि
वस्व्य् अस्य् अदितिर् अस्यादित्यासि रुद्रासि चन्द्रासि । बृहस्पतिष् ट्वा सुम्ने रम्णातु रुद्रो वसुभिर् आ चके
अदित्यास् त्वा मूर्धन्न् आ जिघर्मि देवयजने पृथिव्याऽ इडायास् पदम् असि घृतवत् स्वाहा । अस्मे रमस्व । अस्मे ते बन्धुः । त्वे रायः । मे रायः । मा वयꣳ रायस्पोषेण वि यौष्म । तोतो रायः
सम् अख्ये देव्या धिया सं दक्षिणयोरुचक्षसा । मा मऽ आयुः प्र मोषीर् मो ऽअहं तव । वीरं विदेय तव देवि संदृशि
एष ते गायत्रो भागऽ इति मे सोमाय ब्रूताद् एष ते त्रैष्टुभो भागऽ इति मे सोमाय ब्रूताद् एष ते जागतो भागऽ इति मे सोमाय ब्रूताच् छन्दोनामानाꣳ साम्राज्यं गच्छेति मे सोमाय ब्रूतात् । आस्माकोऽ सि शुक्रस् ते ग्रह्यो विचितस् त्वा वि चिन्वन्तु
अभि त्यं देवꣳ सवितारम् ओण्योः कविक्रतुम् अर्चामि सत्यसवꣳ रत्नधाम् अभि प्रियं मतिं कविम् । ऊर्ध्वा यस्यामतिर् भा अदिद्युतत् सवीमनि हिरण्यपाणिर् अमिमीत सुक्रतुः कृपा स्वः । प्रजाभ्यस् त्वा । प्रजास् त्वाऽनुप्राणन्तु प्रजास् त्वम् अनुप्राणिहि
शुक्रं त्वा शुक्रेण क्रीणामि चन्द्रं चन्द्रेणामृतम् अमृतेन । सग्मे ते गोः । अस्मे ते चन्द्राणि । तपसस् तनूर् असि प्रजापतेर् वर्णः परमेण पशुना क्रीयसे सहस्रपोषं पुषेयम्
मित्रो नऽ एहि सुमित्रधः । ऽ इन्द्रस्योरुम् आ विश दक्षिणम् उशन्न् उशन्तꣳ स्योनः स्योनम् । स्वान भ्राजाङ्घारे बम्भारे हस्त सुहस्त कृशानो । एते वः सोमक्रयणास् तान् रक्षध्वं मा वो दभन्
परि माग्ने दुश्चरिताद् बाधस्वा मा सुचरिते भज । उद् आयुषा स्वायुषोदस्थाम् अमृताꣳ ऽअनु
प्रति पन्थाम् अपद्महि स्वस्तिगाम् अनेहसम् । येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु
अदित्यास् त्वग् असि । अदित्यै सद ऽआ सीद । अस्तभ्नाद् द्यां वृषभो ऽ अन्तरिक्षम् अमिमीत वरिमाणं पृथिव्याः । आसीदद् विश्वा भुवनानि सम्राड् विश्वेत् तानि वरुणस्य व्रतानि
वनेषु व्यन्तरिक्षं ततान वाजम् अर्वत्सु पय ऽउस्रियासु । हृत्सु क्रतुं वरुणो विक्ष्व् अग्निं दिवि सूर्यम् अदधात् सोमम् अद्रौ
सूर्यस्य चक्षुर् आरोहाग्नेर् अक्ष्णः कनीनकम् । यत्रैतशेभिर् ईयसे भ्राजमानो विपश्चिता