दुरो देवीर् दिशो महीर् ब्रह्मा देवो बृहस्पतिः । पङ्क्तिश् छन्द ऽ इहेन्द्रियं तुर्यवाड् गौर् वयो दधुः
उषे यह्वी सुपेशसा विश्वे देवा ऽ अमर्त्याः । त्रिष्टुप् छन्द ऽ इहेन्द्रियं पष्ठवाड् गौर् वयो दधुः
दैव्या होतारा भिषजेन्द्रेण सयुजा युजा । जगती छन्द ऽ इन्द्रियम् अनड्वान् गौर् वयो दधुः
तिस्र ऽ इडा सरस्वती भारती मरुतो विशः । विराट् छन्द ऽ इहेन्द्रियं धेनुर् गौर् न वयो दधुः
त्वष्टा तुरीपो ऽ अद्भुत ऽ इन्द्राग्नी पुष्टिवर्धना । द्विपदा छन्द ऽ इन्द्रियम् उक्षा गौर् न वयो दधुः
शमिता नो वनस्पतिः सविता प्रसुवन् भगम् । ककुप् छन्द ऽ इहेन्द्रियं वशा वेहद् वयो दधुः
स्वाहा यज्ञं वरुणः सुक्षत्रो भेषजं करत् । अतिच्छन्दा ऽइन्द्रियं बृहद् ऋषभो गौर् वयो दधुः
वसन्तेन ऽ ऋतुना देवा वसवस् त्रिवृता स्तुताः । रथन्तरेण तेजसा हविर् इन्द्रे वयो दधुः
ग्रीष्मेण ऽ ऋतुना देवा रुद्राः पञ्चदशे स्तुताः । बृहता यशसा बलꣳ हविर् इन्द्रे वयो दधुः
वर्षाभिर् ऋतुनादित्या स्तोमे सप्तदशे स्तुताः । वैरूपेण विशौजसा हविर् इन्द्रे वयो दधुः
शारदेन ऽ ऋतुना देवा ऽ एकविꣳश ऽ ऋभव स्तुताः । वैराजेन श्रिया श्रियꣳ हविर् इन्द्रे वयो दधुः
हेमन्तेन ऽ ऋतुना देवास् त्रिणवे मरुत स्तुताः । बलेन शक्वरीः सहो हविर् इन्द्रे वयो दधुः
शैशिरेण ऽ ऋतुना देवास् त्रयस्त्रिꣳशे ऽमृता स्तुताः । सत्येन रेवतीः क्षत्रꣳ हविर् इन्द्रे वयो दधुः
होता यक्षत् समिधाग्निम् इडस् पदे ऽश्विनेन्द्रꣳ सरस्वतीम् अजो धूम्रो न गोधूमैः कुवलैर् भेषजं मधु शष्पैर् न तेज ऽ इन्द्रियं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज
होता यक्षत् तनूनपात् सरस्वती अविर् मेषो न भेषजं पथा मधुमता भरन्न् अश्विनेन्द्राय वीर्यं बदरैर् उपवाकाभिर् भेषजं तोक्मभिः पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज
होता यक्षन्नराशꣳसं न नग्नहुं पतिꣳ सुरया भेषजं मेषः सरस्वती भिषग् रथो न चन्द्र्य् अश्विनोर् वपा ऽ इन्द्रस्य वीर्यं बदरैर् उपवाकाभिर् भेषजं तोक्मभिः पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज
होता यक्षद् इडेडित ऽ आजुह्वानः सरस्वतीम् इन्द्रं बलेन वर्धयन्न् ऋषभेण गवेन्द्रियम् अश्विनेन्द्राय भेषजं यवैर् कर्कन्धुभिर् मधु लाजैर् न मासरं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज
होता यक्षद् बर्हिर् ऊर्णम्रदा भिषङ् नासत्या भिषजाश्विनाश्वा शिशुमती भिषग् धेनुः सरस्वती भिषग् दुह ऽ इन्द्राय भेषजं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज
होता यक्षद् दुरो दिशः कवष्यो न व्यचस्वतीर् अश्विभ्यां न दुरो दिश ऽ इन्द्रो न रोदसी दुघे दुहे धेनुः सरस्वत्य् अश्विनेन्द्राय भेषजꣳ शुक्रं न ज्योतिर् इन्द्रियं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज
होता यक्षत् सुपेशसोषे नक्तं दिवाश्विना समञ्जति सरस्वत्या त्विषिम् इन्द्रे न भेषजꣳ श्येनो न रजसा हृदा श्रिया न मासरं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज
होता यक्षद् दैव्या होतारा भिषजाश्विनेन्द्रं न जागृवि दिवा नक्तं न भेषजैः शूषꣳ सरस्वती भिषक् सीसेन दुह ऽ इन्द्रियं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज
होता यक्षत् तिस्रो देवीर् न भेषजं त्रयस्त्रिधातवो पसो रूपम् इन्द्रे हिरण्ययम् अश्विनेडा न भारती वाचा सरस्वती मह ऽ इन्द्राय दुह ऽ इन्द्रियं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज
होता यक्षत् सुरेरसम् ऋषभं नर्यापसं त्वष्टारम् इन्द्रम् अश्विना भेषजं न सरस्वतीम् ओजो न हूतिर् इन्द्रियं वृको न रभसो भिषग् यशः सुरया भेषजꣳ श्रिया न मासरं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज
होता यक्षद् वनस्पतिꣳ शमितारꣳ शतक्रतुं भीमं न मन्युꣳ राजानं व्याघ्रं नमसाश्विना भामꣳ सरस्वती भिषग् इन्द्राय दुह ऽ इन्द्रियं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज
होता यक्षद् अग्निꣳ स्वाहाज्यस्य स्तोकानाꣳ स्वाहा मेदसां पृथक् स्वाहा छागम् अश्विभ्याꣳ स्वाहा मेषꣳ सरस्वत्यै स्वाह ऽ ऋषभम् इन्द्राय सिꣳहाय सहस ऽ इन्द्रियꣳ स्वाहाग्निं न भेषजꣳ स्वाहा सोमम् इन्द्रियꣳ स्वाहेन्द्रꣳ सुत्रामाणꣳ सवितारं वरुणं भिषजां पतिꣳ स्वाहा वनस्पतिं प्रियं पाथो न भेषजꣳ स्वाहा देवा ऽ आज्यपा जुषाणो ऽ अग्निर् भेषजं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज
होता यक्षद् अश्विनौ छागस्य वपाया मेदसो जुषेताꣳ हविर् होतर् यज । होता यक्षत् सरस्वतीं मेषस्य वपाया मेदसो जुषताꣳ हविर् होतर् यज । होता यक्षद् इन्द्रम् ऋषभस्य वपाया मेदसो जुषताꣳ हविर् होतर् यज
होता यक्षद् अश्विनौ सरस्वतीम् इन्द्रꣳ सुत्रामाणम् इमे सोमाः सुरामाणश् छागैर् न मेषैर् ऋषभैः सुताः शष्पैर् न तोक्मभिर् लाजैर् महस्वन्तो मदा मासरेण परिष्कृताः शुक्राः पयस्वन्तो ऽमृताः प्रस्थिता वो मधुश्चुतस् तान् अश्विना सरस्वतीन्द्रः सुत्रामा वृत्रहा जुषन्ताꣳ सोम्यं मधु पिबन्तु व्यन्तु होतर् यज
होता यक्षद् अश्विनौ छागस्य हविष ऽ आत्ताम् अद्य मध्यतो मेद ऽ उद्भृतं पुरा द्वेषोभ्यः पुरा पौरुषेय्या गृभो घस्तां नूनं घासे ऽ अज्राणां यवसप्रथमानाꣳ सुमत्क्षराणाꣳ शतरुद्रियाणाम् अग्निष्वात्तानां पीवोपवसानां पार्श्वतः श्रोणितः शितामत ऽ उत्सादतो ङ्गाद्-अङ्गाद् अवत्तानां करत एवाश्विना जुषेताꣳ हविर् होतर् यज
होता यक्षत् सरस्वतीं मेषस्य हविष ऽ आवयद् अद्य मध्यतो मेद ऽ उद्भृतं पुरा द्वेषोभ्यः पुरा पौरुषेय्या गृभो घसन् नूनं घासे ऽ अज्राणां यवसप्रथमानाꣳ सुमत्क्षराणाꣳ शतरुद्रियाणाम् अग्निष्वात्तानां पीवोपवसानां पार्श्वतः श्रोणितः शितामत ऽ उत्सादतो ऽङ्गाद्-अङ्गाद् अवत्तानां करद् एवꣳ सरस्वती जुषताꣳ हविर् होतर् यज
होता यक्षद् इन्द्रम् ऋषभस्य हविष ऽ आवयद् अद्य मध्यतो मेद ऽ उद्भृतं पुरा द्वेषोभ्यः पुरा पौरुषेय्या गृभो घसन् नूनं घासे ऽ अज्राणां यवसप्रथमानाꣳ सुमत्क्षराणाꣳ शतरुद्रियाणाम् अग्निष्वात्तानां पीवोपवसानां पार्श्वतः श्रोणितः शितामत ऽ उत्सादतो ऽङ्गाद्-अङ्गाद् अवत्तानां करद् एवम् इन्द्रो जुषताꣳ हविर् होतर् यज