सुत्रामाणं पृथिवीं द्याम् अनेहसꣳ सुशर्माणम् अदितिꣳ सुप्रणीतिम् । दैवीं नावꣳ स्वरित्राम् अनागसम् अस्रवन्तीम् आ रुहेमा स्वस्तये
सुनावम् आ रुहेयम् अस्रवन्तीम् अनागसम् । शतारित्राꣳ स्वस्तये
आ नो मित्रावरुणा घृतैर् गव्यूतिम् उक्षतम् । मध्वा रजाꣳसि सुक्रतू
प्र बाहवा सिसृतं जीवसे न ऽ आ नो गव्यूतिम् उक्षतं घृतेन । आ नो जने श्रवयतं युवाना श्रुतं मे मित्रावरुणा हवेमा
शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः । जम्भयन्तो ऽहिं वृकꣳ रक्षाꣳसि सनेम्य् अस्मद् युयवन्न् अमीवाः
वाजे-वाजे ऽवत वाजिनो नो धनेषु विप्रा ऽ अमृता ऽ ऋतज्ञाः । अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर् देवयानैः
समिद्धो ऽ अग्निः समिधा सुसमिद्धो वरेण्यः । गायत्री छन्द ऽ इन्द्रियं त्र्यविर् गौर् वयो दधुः
तनूनपाच्छुचिव्रतस् तनूपाश् च सरस्वती । उष्णिहा छन्द ऽ इन्द्रियं दित्यवाड् गौर् वयो दधुः
इडाभिर् अग्निर् ईड्यः सोमो देवो ऽ अमर्त्यः । अनुष्टुप् छन्द ऽइन्द्रियं पञ्चाविर् गौर् वयो दधुः
सुबर्हिर् अग्निः पूषण्वान्त् स्तीर्णबर्हिर् अमर्त्यः । बृहती छन्द ऽ इन्द्रियं त्रिवत्सो गौर् वयो दधुः
दुरो देवीर् दिशो महीर् ब्रह्मा देवो बृहस्पतिः । पङ्क्तिश् छन्द ऽ इहेन्द्रियं तुर्यवाड् गौर् वयो दधुः
उषे यह्वी सुपेशसा विश्वे देवा ऽ अमर्त्याः । त्रिष्टुप् छन्द ऽ इहेन्द्रियं पष्ठवाड् गौर् वयो दधुः
दैव्या होतारा भिषजेन्द्रेण सयुजा युजा । जगती छन्द ऽ इन्द्रियम् अनड्वान् गौर् वयो दधुः
तिस्र ऽ इडा सरस्वती भारती मरुतो विशः । विराट् छन्द ऽ इहेन्द्रियं धेनुर् गौर् न वयो दधुः
त्वष्टा तुरीपो ऽ अद्भुत ऽ इन्द्राग्नी पुष्टिवर्धना । द्विपदा छन्द ऽ इन्द्रियम् उक्षा गौर् न वयो दधुः
शमिता नो वनस्पतिः सविता प्रसुवन् भगम् । ककुप् छन्द ऽ इहेन्द्रियं वशा वेहद् वयो दधुः
स्वाहा यज्ञं वरुणः सुक्षत्रो भेषजं करत् । अतिच्छन्दा ऽइन्द्रियं बृहद् ऋषभो गौर् वयो दधुः
वसन्तेन ऽ ऋतुना देवा वसवस् त्रिवृता स्तुताः । रथन्तरेण तेजसा हविर् इन्द्रे वयो दधुः
ग्रीष्मेण ऽ ऋतुना देवा रुद्राः पञ्चदशे स्तुताः । बृहता यशसा बलꣳ हविर् इन्द्रे वयो दधुः
वर्षाभिर् ऋतुनादित्या स्तोमे सप्तदशे स्तुताः । वैरूपेण विशौजसा हविर् इन्द्रे वयो दधुः
शारदेन ऽ ऋतुना देवा ऽ एकविꣳश ऽ ऋभव स्तुताः । वैराजेन श्रिया श्रियꣳ हविर् इन्द्रे वयो दधुः
हेमन्तेन ऽ ऋतुना देवास् त्रिणवे मरुत स्तुताः । बलेन शक्वरीः सहो हविर् इन्द्रे वयो दधुः
शैशिरेण ऽ ऋतुना देवास् त्रयस्त्रिꣳशे ऽमृता स्तुताः । सत्येन रेवतीः क्षत्रꣳ हविर् इन्द्रे वयो दधुः
होता यक्षत् समिधाग्निम् इडस् पदे ऽश्विनेन्द्रꣳ सरस्वतीम् अजो धूम्रो न गोधूमैः कुवलैर् भेषजं मधु शष्पैर् न तेज ऽ इन्द्रियं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज
होता यक्षत् तनूनपात् सरस्वती अविर् मेषो न भेषजं पथा मधुमता भरन्न् अश्विनेन्द्राय वीर्यं बदरैर् उपवाकाभिर् भेषजं तोक्मभिः पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज
होता यक्षन्नराशꣳसं न नग्नहुं पतिꣳ सुरया भेषजं मेषः सरस्वती भिषग् रथो न चन्द्र्य् अश्विनोर् वपा ऽ इन्द्रस्य वीर्यं बदरैर् उपवाकाभिर् भेषजं तोक्मभिः पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज
होता यक्षद् इडेडित ऽ आजुह्वानः सरस्वतीम् इन्द्रं बलेन वर्धयन्न् ऋषभेण गवेन्द्रियम् अश्विनेन्द्राय भेषजं यवैर् कर्कन्धुभिर् मधु लाजैर् न मासरं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज
होता यक्षद् बर्हिर् ऊर्णम्रदा भिषङ् नासत्या भिषजाश्विनाश्वा शिशुमती भिषग् धेनुः सरस्वती भिषग् दुह ऽ इन्द्राय भेषजं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज
होता यक्षद् दुरो दिशः कवष्यो न व्यचस्वतीर् अश्विभ्यां न दुरो दिश ऽ इन्द्रो न रोदसी दुघे दुहे धेनुः सरस्वत्य् अश्विनेन्द्राय भेषजꣳ शुक्रं न ज्योतिर् इन्द्रियं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज
होता यक्षत् सुपेशसोषे नक्तं दिवाश्विना समञ्जति सरस्वत्या त्विषिम् इन्द्रे न भेषजꣳ श्येनो न रजसा हृदा श्रिया न मासरं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज