गोभिर् न सोमम् अश्विना मासरेण परिस्रुता । सम् अधातꣳ सरस्वत्या स्वाहेन्द्रे सुतं मधु
अश्विना हविर् इन्द्रियं नमुचेर् धिया सरस्वती । आ शुक्रम् आसुराद् वसु मघम् इन्द्राय जभ्रिरे
यम् अश्विना सरस्वती हविषेन्द्रम् अवर्धयन् । स बिभेद वलं मघं नमुचाव् आसुरे सचा
तम् इन्द्रꣳ सचाश्विनोभा सरस्वती । दधाना ऽ अभ्य् अनूषत हविषा यज्ञ ऽ इन्द्रियैः
य ऽ इन्द्र ऽ इन्द्रियं दधुः सविता वरुणो भगः । स सुत्रामा हविष्पतिर् यजमानाय सश्चत
सविता वरुणो दधद् यजमानाय दाशुषे । आदत्त नमुचेर् वसु सुत्रामा बलम् इन्द्रियम्
वरुणः क्षत्रम् इन्द्रियं भगेन सविता श्रियम् । सुत्रामा यशसा बलं दधाना यज्ञम् आशत
अश्विना गोभिर् इन्द्रियम् अश्वेभिर् वीर्यं बलम् । हविषेन्द्रꣳ सरस्वती यजमानम् अवर्द्धयन्
ता नासत्या सुपेशसा हिरण्यवर्तनी नरा । सरस्वती हविष्मतीन्द्र कर्मसु नो ऽवत
ता भिषजा सुकर्मणा सा सुदुघा सरस्वती । स वृत्रहा शतक्रतुर् इन्द्राय दधुर् इन्द्रियम्
युवꣳ सुरामम् अश्विना नमुचाव् आसुरे सचा । विपिपानाः सरस्वतीन्द्रं कर्मस्व् आवत
पुत्रम् इव पितराव् अश्विनोभेन्द्रावथुः काव्यैर् दꣳसनाभिः । यत् सुरामं व्यपिबः शचीभिः सरस्वती त्वा मघवन्न् अभिष्णक्
यस्मिन्न् अश्वास ऽ ऋषभास ऽ उक्षणो वशा मेषा ऽ अवसृष्टास ऽ आहुताः । कीलालपे सोमपृष्ठाय वेधसे हृदा मतिं जनये चारुम् अग्नये
अहाव्य् अग्ने हविर् आस्ये ते स्रुचीव घृतं चम्वीव सोमः । वाजसनिꣳ रयिम् अस्मे सुवीरं प्रशस्तं धेहि यशसं बृहन्तम्
अश्विना तेजसा चक्षुः प्राणेन सरस्वती वीर्यम् । वाचेन्द्रो बलेनेन्द्राय दधुर् इन्द्रियम्
गोमद् ऊ षु णासत्या अश्वावद् यातम् अश्विना । वर्ती रुद्रा नृपाय्यम्
न यत् परो नान्तरऽ आदधर्षद् वृषण्वसू । दुःशꣳसो मर्त्यो रिपुः
ता न ऽ आ वोढम् अश्विना रयिं पिशङ्गसंदृशम् । धिष्ण्या वरिवोविदम्
पावका नः सरस्वती वाजेभिर् वाजिनीवती । यज्ञं वष्टु धियावसुः
चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् । यज्ञं दधे सरस्वती
महो ऽ अर्णः सरस्वती प्र चेतयति केतुना । धियो विश्वा वि राजति
इन्द्रा याहि चित्रभानो सुता ऽ इमे त्वायवः । अण्वीभिस् तना पूतासः
इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः । उप ब्रह्माणि वाघतः
इन्द्रा याहि तूतुजान ऽ उप ब्रह्माणि हरिवः । सुते दधिष्व नश् चनः
अश्विना पिबतां मधु सरस्वत्या सजोषसा । इन्द्रः सुत्रामा वृत्रहा जुषन्ताꣳ सोम्यं मधु
इमं मे वरुण श्रुधी हवम् अद्या च मृडय । त्वाम् अस्वस्युर् आ चके
तत् त्वा यामि ब्रह्मणा वन्दमानस् तद् आ शास्ते यजमानो हविर्भिः । अहेडमानो वरुणेह बोध्य् उरुशꣳस मा न ऽ आयुः प्र मोषीः
त्वं नो अग्ने वरुणस्य विद्वान् देवस्य हेडो ऽ अव यासिसीष्ठाः । यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषाꣳसि प्र मुमुग्ध्य् अस्मत्
स त्वं नो ऽ अग्ने ऽवमो भवोती नेदिष्ठो ऽ अस्या उषसो व्युष्टौ । अव यक्ष्व नो वरुणꣳ रराणो वीहि मृडीकꣳ सुहवो न ऽ एधि
महीमू षु मातरꣳ सुव्रतानाम् ऋतस्य पत्नीम् अवसे हुवेम । तुविक्षत्राम् अजरन्तीम् उरूचीꣳ सुशर्माणम् अदितिꣳ सुप्रणीतिम्