समिद्ध ऽ इन्द्र ऽ उषसाम् अनीके पुरोरुचा पूर्वकृद् वावृधानः । त्रिभिर् देवैस् त्रिꣳशता वज्रबाहुर् जघान वृत्रं वि दुरो ववार
नराशꣳसः प्रति शूरो मिमानस् तनूनपात् प्रति यज्ञस्य धाम । गोभिर् वपावान् मधुना समञ्जन् हिरण्यैश् चन्द्री यजति प्रचेताः
ईडितो देवैर् हरिवाꣳ२ऽ अभिष्टिर् आजुह्वानो हविषा शर्धमानः । पुरंदरो गोत्रभिद् वज्रबाहुर् आ यातु यज्ञम् उप नो जुषाणः
जुषाणो बर्हिर् हरिवान् न ऽ इन्द्रः प्राचीनꣳ सीदत् प्रदिशा पृथिव्याः । उरुप्रथाः प्रथमानꣳ स्योनम् आदित्यैर् अक्तं वसुभिः सजोषाः
इन्द्रं दुरः कवष्यो धावमाना वृषाणं यन्तु जनयः सुपत्नीः । द्वारो देवीर् अभितो वि श्रयन्ताꣳ सुवीरा वीरं प्रथमाना महोभिः
उषासानक्ता बृहती बृहन्तं पयस्वती सुदुघे शूरम् इन्द्रम् । तन्तुं ततं पेशसा संवयन्ती देवानां देवं यजतः सुरुक्मे
दैव्या मिमाना मनुषः पुरुत्रा होताराव् इन्द्रं प्रथमा सुवाचा । मूर्द्धन् यज्ञस्य मधुना दधाना प्राचीनं ज्योतिर् हविषा वृधातः
तिस्रो देवीर् हविषा वर्धमाना ऽ इन्द्रं जुषाणा जनयो न पत्नीः । अच्छिन्नं तन्तुं पयसा सरस्वतीडा देवी भारती विश्वतूर्तिः
त्वष्टा दधच्छुष्मम् इन्द्राय वृष्णे ऽपाको ऽचिष्टुर् यशसे पुरूणि । वृषा यजन् वृषणं भूरिरेता मूर्धन् यज्ञस्य सम् अनक्तु देवान्
वनस्पतिर् अवसृष्टो न पाशैस् त्मन्या समञ्जञ्छमिता न देवः । इन्द्रस्य हव्यैर् जठरं पृणानः स्वदाति यज्ञं मधुना घृतेन
स्तोकानां इन्दुं प्रति शूर ऽ इन्द्रो वृषायमाणो वृषभस् तुराषाट् । घृतप्रुषा मनसा मोदमानाः स्वाहा देवा ऽ अमृता मादयन्ताम्
आ यात्व् इन्द्रो ऽवस ऽ उप न ऽ इह स्तुतः सधमादस्तु शूरः । वावृधानस् तविषीर् यस्य पूर्वीर् द्यौर् न क्षत्रम् अभिभूति पुष्यात्
आ न ऽ इन्द्रो दूराद् आ न ऽ आसाद् अभिष्टिकृद् अवसे यासद् उग्रः । ओजिष्ठेभिर् नृपतिर् वज्रबाहुः संगे समत्सु तुर्वणिः पृतन्यून्
आ न इन्द्रो हरिभिर् यात्व् अच्छार्वाचीनो ऽवसे राधसे च । तिष्ठाति वज्री मघवा विरप्शीमं यज्ञम् अनु नो वाजसातौ
त्रातारम् इन्द्रम् अवितारम् इन्द्रꣳ हवे-हवे सुहवꣳ शूरम् इन्द्रम् । ह्वयामि शक्रं पुरुहूतम् इन्द्रꣳ स्वस्ति नो मघवा धात्व् इन्द्रः
इन्द्रः सुत्रामा स्ववाꣳ२ऽ अवोभिः सुमृडीको भवतु विश्ववेदाः । बाधतां द्वेषो ऽ अभयं कृणोतु सुवीर्यस्य पतयः स्याम
तस्य वयꣳ सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम । स सुत्रामा स्ववाꣳ२ऽ इन्द्रो ऽ अस्मे आराच्चिद् द्वेषः सनुतर् युयोतु
आ मन्द्रैर् इन्द्र हरिभिर् याहि मयूररोमभिः । मा त्वा के चिन् नि यमन् विं ना पाशिनो ऽति धन्वेव ताꣳ२ऽ इहि
एवेद् इन्द्रं वृषणं वज्रबाहुं वसिष्ठासो ऽ अभ्य् अर्चन्त्य् अर्कैः । स न स्तुतो वीरवद् धातु गोमद् यूयं पात स्वस्तिभिः सदा नः
समिद्धो ऽ अग्निर् अश्विना तप्तो घर्मो विराट् सुतः । दुहे धेनुः सरस्वती सोमꣳ शुक्रम् इहेन्द्रियम्
तनूपा भिषजा सुते ऽश्विनोभा सरस्वती । अध्वा रजाꣳसीन्द्रियम् इन्द्राय पथिभिर् वहान्
इन्द्रायेन्दुꣳ सरस्वती नराशꣳसेन नग्नहुम् । अधाताम् अश्विना मधु भेषजं भिषजा सुते
आजुह्वाना सरस्वतीन्द्रायेन्द्रियाणि वीर्यम् । इडाभिर् अश्विनाव् इषꣳ समूर्जꣳ सꣳ रयिं दधुः
अश्विना नमुचेः सुतꣳ सोमꣳ शुक्रं परिस्रुता । सरस्वती ताम् आभरद् बर्हिषेन्द्राय पातवे
कवष्यो न व्यचस्वतीर् अश्विभ्यां न दुरो दिशः । इन्द्रो न रोदसी ऽ उभे दुहे कामान्त् सरस्वती
उषासानक्ताश्विना दिवेन्द्रꣳ सायम् इन्द्रियैः । संजानाने सुपेशसा सम् अञ्जाते सरस्वत्या
पातं नो ऽ अश्विना दिवा पाहि नक्तꣳ सरस्वति । दैव्या होतारा भिषजा पाताम् इन्द्रꣳ सचा सुते
तिस्रस् त्रेधा सरस्वत्य् अश्विना भारतीडा । तीव्रं परिस्रुता सोमम् इन्द्राय सुषुवुर् मदम्
अश्विना भेषजं मधु भेषजं नः सरस्वती । इन्द्रे त्वष्टा यशः श्रियꣳ रूपꣳ-रूपम् अधुः सुते
ऋतुथेन्द्रो वनस्पतिः शशमानः परिस्रुता । कीलालम् अश्विभ्यां मधु दुहे धेनुः सरस्वती