यत्रेन्द्रश् च वायुश् च सम्यञ्चो चरतः सह । तं लोकं पुण्यं प्रज्ञेषं यत्र सेदिर् न विद्यते
अꣳशुना ते अꣳशुः पृच्यतां परुषा परुः । गन्धस् ते सोमम् अवतु मदाय रसोऽअच्युतः
सिञ्चन्ति परि षिञ्चन्त्य् उत् सिञ्चन्ति पुनन्ति च । सुरायै बभ्र्वै मदे किंत्वो वदति किंत्वः
धानावन्तं करम्भिणम् अपूपवन्तम् उक्थिनम् । इन्द्र प्रातर् जुषस्व नः
बृहद् इन्द्राय गायत मरुतो वृत्रहन्तमम् । येन ज्योतिर् अजनयन्न् ऋतावृधो देवं देवाय जागृवि
अध्वर्यो ऽ अद्रिभिः सुतꣳ सोमं पवित्र ऽ आ नय । पुनीहीन्द्राय पातवे
यो भूतानाम् अधिपतिर् यस्मिंल्लोका ऽ अधि श्रिताः । य ऽ ईशे महतो महाꣳस् तेन गृह्णामि त्वाम् अहं मयि गृह्णामि त्वाम् अहम्
उपयामगृहीतो ऽस्य् अश्विभ्यां त्वा सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्णेऽ । एष ते योनिर् अश्विभ्यां त्वा सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्णे
प्राणपा मे ऽअपानपाश् चक्षुष्पाः श्रोत्रपाश् च मे । वाचो मे विश्वभेषजो मनसो ऽसि विलायकः
अश्विनकृतस्य ते सरस्वतिकृतस्येन्द्रेण सुत्राम्णा कृतस्य । उपहूत ऽउपहूतस्य भक्षयामि
समिद्ध ऽ इन्द्र ऽ उषसाम् अनीके पुरोरुचा पूर्वकृद् वावृधानः । त्रिभिर् देवैस् त्रिꣳशता वज्रबाहुर् जघान वृत्रं वि दुरो ववार
नराशꣳसः प्रति शूरो मिमानस् तनूनपात् प्रति यज्ञस्य धाम । गोभिर् वपावान् मधुना समञ्जन् हिरण्यैश् चन्द्री यजति प्रचेताः
ईडितो देवैर् हरिवाꣳ२ऽ अभिष्टिर् आजुह्वानो हविषा शर्धमानः । पुरंदरो गोत्रभिद् वज्रबाहुर् आ यातु यज्ञम् उप नो जुषाणः
जुषाणो बर्हिर् हरिवान् न ऽ इन्द्रः प्राचीनꣳ सीदत् प्रदिशा पृथिव्याः । उरुप्रथाः प्रथमानꣳ स्योनम् आदित्यैर् अक्तं वसुभिः सजोषाः
इन्द्रं दुरः कवष्यो धावमाना वृषाणं यन्तु जनयः सुपत्नीः । द्वारो देवीर् अभितो वि श्रयन्ताꣳ सुवीरा वीरं प्रथमाना महोभिः
उषासानक्ता बृहती बृहन्तं पयस्वती सुदुघे शूरम् इन्द्रम् । तन्तुं ततं पेशसा संवयन्ती देवानां देवं यजतः सुरुक्मे
दैव्या मिमाना मनुषः पुरुत्रा होताराव् इन्द्रं प्रथमा सुवाचा । मूर्द्धन् यज्ञस्य मधुना दधाना प्राचीनं ज्योतिर् हविषा वृधातः
तिस्रो देवीर् हविषा वर्धमाना ऽ इन्द्रं जुषाणा जनयो न पत्नीः । अच्छिन्नं तन्तुं पयसा सरस्वतीडा देवी भारती विश्वतूर्तिः
त्वष्टा दधच्छुष्मम् इन्द्राय वृष्णे ऽपाको ऽचिष्टुर् यशसे पुरूणि । वृषा यजन् वृषणं भूरिरेता मूर्धन् यज्ञस्य सम् अनक्तु देवान्
वनस्पतिर् अवसृष्टो न पाशैस् त्मन्या समञ्जञ्छमिता न देवः । इन्द्रस्य हव्यैर् जठरं पृणानः स्वदाति यज्ञं मधुना घृतेन
स्तोकानां इन्दुं प्रति शूर ऽ इन्द्रो वृषायमाणो वृषभस् तुराषाट् । घृतप्रुषा मनसा मोदमानाः स्वाहा देवा ऽ अमृता मादयन्ताम्
आ यात्व् इन्द्रो ऽवस ऽ उप न ऽ इह स्तुतः सधमादस्तु शूरः । वावृधानस् तविषीर् यस्य पूर्वीर् द्यौर् न क्षत्रम् अभिभूति पुष्यात्
आ न ऽ इन्द्रो दूराद् आ न ऽ आसाद् अभिष्टिकृद् अवसे यासद् उग्रः । ओजिष्ठेभिर् नृपतिर् वज्रबाहुः संगे समत्सु तुर्वणिः पृतन्यून्
आ न इन्द्रो हरिभिर् यात्व् अच्छार्वाचीनो ऽवसे राधसे च । तिष्ठाति वज्री मघवा विरप्शीमं यज्ञम् अनु नो वाजसातौ
त्रातारम् इन्द्रम् अवितारम् इन्द्रꣳ हवे-हवे सुहवꣳ शूरम् इन्द्रम् । ह्वयामि शक्रं पुरुहूतम् इन्द्रꣳ स्वस्ति नो मघवा धात्व् इन्द्रः
इन्द्रः सुत्रामा स्ववाꣳ२ऽ अवोभिः सुमृडीको भवतु विश्ववेदाः । बाधतां द्वेषो ऽ अभयं कृणोतु सुवीर्यस्य पतयः स्याम
तस्य वयꣳ सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम । स सुत्रामा स्ववाꣳ२ऽ इन्द्रो ऽ अस्मे आराच्चिद् द्वेषः सनुतर् युयोतु
आ मन्द्रैर् इन्द्र हरिभिर् याहि मयूररोमभिः । मा त्वा के चिन् नि यमन् विं ना पाशिनो ऽति धन्वेव ताꣳ२ऽ इहि
एवेद् इन्द्रं वृषणं वज्रबाहुं वसिष्ठासो ऽ अभ्य् अर्चन्त्य् अर्कैः । स न स्तुतो वीरवद् धातु गोमद् यूयं पात स्वस्तिभिः सदा नः
समिद्धो ऽ अग्निर् अश्विना तप्तो घर्मो विराट् सुतः । दुहे धेनुः सरस्वती सोमꣳ शुक्रम् इहेन्द्रियम्