परि ते दूडभो रथोऽस्माꣳ अश्नोतु विश्वतः । येन रक्षसि दाशुषः
भूर् भुवः स्वः सुप्रजाः प्रजाभि स्याꣳ सुवीरो वीरैः सुपोषः पोषैः । नर्य प्रजां मे पाहि । शꣳस्य पशून् मे पाहि । अथर्य पितुं मे पाहि
आगन्म विश्ववेदसम् अस्मभ्यं वसुवित्तमम् । अग्ने सम्राड् अभि द्युम्नम् अभि सह ऽ आ यच्छस्व
अयम् अग्निर् गृहपतिर् गार्हपत्यः प्रजाया वसुवित्तमः । अग्ने गृहपते ऽभि द्युम्नम् अभि सह ऽ आ यच्छस्व
अयम् अग्निः पुरीष्यो रयिमान् पुष्टिवर्धनः । अग्ने पुरीष्याभि द्युम्नम् अभि सह ऽ आ यच्छस्व
गृहा मा बिभीत मा वेपध्वमूर्जं बिभ्रत ऽ एमसि । ऊर्जं बिभ्रद् वः सुमनाः सुमेधा गृहान् ऐमि मनसा मोदमानः
येषाम् अध्येति प्रवसन् येषु सौमनसो बहुः । गृहान् उप ह्वयामहे ते नो जानन्तु जानतः
उपहूताऽ इह गावऽ उपहूताऽ अजावयः । अथो ऽअन्नस्य कीलाल ऽउपहूतो गृहेषु नः । क्षेमाय वः शान्त्यै प्र पद्ये शिवꣳ शग्मꣳ शंयोः शंयोः
एदम् अगन्म देवयजनं पृथिव्या यत्र देवासो ऽ अजुषन्त विश्वे । इमा ऽ आपः शम् उ मे सन्तु देवीः । ओषधे त्रायस्व । ऋक् सामाभ्या संतरन्तो यजुर्भी रायस् पोषेण सम् इषा मदेम । स्वधिते मैनꣳ हिꣳसीः
आपो ऽ अस्मान् मातरः शुन्धयन्तु घृतेन नो घृतप्वः पुनन्तु । विश्वꣳ हि रिप्रं प्रवहन्ति देवीः । उद् इदाभ्यः शुचिर् आ पूत ऽ एमि । दीक्षातपसोस् तनूर् असि तं त्वा शिवाꣳ शग्मां परि दधे भद्रं वर्णं पुष्यन्
महीनां पयो सि वर्चोदा ऽ असि वर्चो मे देहि । वृत्रस्यासि कनीनकश् चक्षुर्दा ऽ असि चक्षुर् मे देहि
चित्पतिर् मा पुनातु । वाक्पतिर् मा पुनातु । देवो मा सविता पुनात्व् अच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः । तस्य ते पवित्रपते पवित्रपूतस्य यत्कामः पुने तच् छकेयम्
आ वो देवास ऽ ईमहे वामं प्रयत्य् अध्वरे । आ वो देवास आशिषो ऽ यज्ञियासो हवामहे
स्वाहा यज्ञं मनसः । स्वाहोरोर् अन्तरिक्षात् । स्वाहा द्यावापृथिवीभ्याम् । स्वाहा वाताद् आ रभे स्वाहा
आकूत्यै प्रयुजे ऽग्नये स्वाहा मेधायै मनसे ऽग्नये स्वाहा दीक्षायै तपसे ऽग्नये स्वाहा सरस्वत्यै पूष्णे ऽग्नये स्वाहा आपो देवीर् बृहतीर् विश्वशम्भुवो द्यावापृथिवी ऽ उरो ऽ अन्तरिक्ष । बृहस्पतये हविषा विधेम स्वाहा
विश्वो देवस्य नेतुर् मर्तो वुरीत सख्यम् । विश्वो राय ऽ इषुध्यति द्युम्नं वृणीत पुष्यसे स्वाहा
ऋक्सामयोः शिल्पे स्थः ते वाम् आ रभे ते मा पातमास्य यज्ञस्योदृचः । शर्मासि शर्म मे यच्छ नमस् ते ऽ अस्तु मा मा हिꣳसीः
ऊर्ग् अस्य् आङ्गिरस्यूर्णम्रदा ऽ ऊर्जं मयि धेहि । सोमस्य नीविर् असि । विष्णोः शर्मासि शर्म यजमानस्य । इन्द्रस्य योनिर् असि । सुसस्याः कृषीस् कृधि । उच् छ्रयस्व वनस्पत ऽऊर्ध्वो मा पाह्य् अꣳहसऽ आस्य यज्ञस्योदृचः
व्रतं कृणुताग्निर् ब्रह्माग्निर् यज्ञो वनस्पतिर् यज्ञियः । दैवीं धियं मनामहे सुमृडीकाम् अभिष्टये वर्चोधां यज्ञवाहसꣳ सुतीर्था नो ऽअसद् वशे । ये देवा मनोजाता मनोयुजो दक्षक्रतवस् ते नो ऽवन्तु ते नः पान्तु तेभ्यः स्वाहा
श्वात्राः पीता भवत यूयम् आपो ऽअस्माकम् अन्तर् उदरे सुशेवाः । ता ऽअस्मभ्यम् अयक्ष्माऽ अनमीवा ऽअनागसः स्वदन्तु देवीर् अमृता ऽ ऋतावृधः
इयं ते यज्ञिया तनूः । अपो मुञ्चामि न प्रजाम् । अꣳहोमुचः स्वाहाकृताः पृथिवीम् आविशत । पृथिव्या संभव
अग्ने त्वꣳ सु जागृहि वयꣳ सु मन्दिषीमहि । रक्षा णो ऽ अप्रयुच्छन् प्रबुधे नः पुनस् कृधि
पुनर् मनः पुनर् आयुर् म ऽआगन् पुनः प्राणः पुनर् आत्मा मऽ आगन् पुनश् चक्षुः पुनः श्रोत्रं म ऽआगन् । वैश्वानरोऽ अदब्धस् तनूपा ऽअग्निर् नः पातु दुरिताद् अवद्यात्
त्वम् अग्ने व्रतपा ऽ असि देव ऽ आ मर्त्येष्व् आ त्वं यज्ञेष्व् ईड्यः । रास्वेयत्सोमा भूयो भर देवो नः सविता वसोर् दाता वस्व् अदात्
एषा ते शुक्र तनूर् एतद् वर्चस् तया सं भव भ्राजं गच्छ । जूर् असि धृता मनसा जुष्टा विष्णवे
तस्यास् ते सत्यसवसः प्रसवे तन्वो यन्त्रम् अशीय स्वाहा । शुक्रम् असि चन्द्रम् अस्य् अमृतम् असि वैश्वदेवम् असि
चिद् असि मनासि धीर् असि दक्षिणासि क्षत्रियासि यज्ञियास्य् अदितिर् अस्य् उभयतःशीर्ष्णी । सा नः सुप्राची सुप्रतीच्य् एधि मित्रस् त्वा पदि बध्नीतां पूषाऽध्वनस् पात्व् इन्द्रायाध्यक्षाय
अनु त्वा माता मन्यताम् अनु पिताऽनु भ्राता सगर्भ्यो ऽनु सखा सयूथ्यः । सा देवि देवम् अच्छेहीन्द्राय सोमꣳ रुद्रस् त्वा वर्तयतु स्वस्ति सोमसखा पुनर् एहि
वस्व्य् अस्य् अदितिर् अस्यादित्यासि रुद्रासि चन्द्रासि । बृहस्पतिष् ट्वा सुम्ने रम्णातु रुद्रो वसुभिर् आ चके
अदित्यास् त्वा मूर्धन्न् आ जिघर्मि देवयजने पृथिव्याऽ इडायास् पदम् असि घृतवत् स्वाहा । अस्मे रमस्व । अस्मे ते बन्धुः । त्वे रायः । मे रायः । मा वयꣳ रायस्पोषेण वि यौष्म । तोतो रायः