इषे त्वा ऊर्जे त्वा । वायव स्थ । देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणऽ आ प्यायध्वम् अघ्न्या ऽइन्द्राय भागं प्रजावतीर् अनमीवा ऽअयक्ष्मा मा व स्तेनऽ ईशत माघशꣳसो ध्रुवा ऽअस्मिन् गोपतौ स्यात बह्वीः । यजमानस्य पशून् पाहि
वसोः पवित्रम् असि । द्यौर् असि पृथिव्यसि । मातरिश्वनो ऽघर्मो सि विश्वधा ऽअसि परमेण धाम्ना दृꣳहस्व मा ह्वार् मा ते यज्ञपतिर् ह्वार्षीत्
वसोः पवित्रम् असि शतधारं वसोः पवित्रम् असि सहस्रधारम् । देवस् त्वा सविता पुनातु वसोः पवित्रेण शतधारेण सुप्वा । काम् अधुक्षः
सा विश्वायुः । सा विश्वकर्मा । सा विश्वधायाः । इन्द्रस्य त्वा भागꣳ सोमेना तनच्मि । विष्णो हव्यꣳ रक्ष
अग्ने व्रतपते व्रतं चरिष्यामि तच् छकेयं तन् मे राध्यताम् । इदम् अहम् अनृतात् सत्यम् उपैमि
कस् त्वा युनक्ति स त्वा युनक्ति कस्मै त्वा युनक्ति तस्मै त्वा युनक्ति । कर्मणे वां वेषाय वाम्
प्रत्युष्टꣳ रक्षः प्रत्युष्टा अरातयः । निष्टप्तꣳ रक्षो निष्टप्ता ऽ अरातयः । उर्व् अन्तरिक्षम् अन्व् एमि
धूर् असि धूर्व धूर्वन्तं धूर्व तं योऽ स्मान् धूर्वति तं धूर्व यं वयं धूर्वामः । देवानाम् असि वह्नितमꣳ सम्नितमं पप्रितमं जुष्टतमं देवहूतमम्
अह्रुतम् असि हविर्धानं दृꣳहस्व मा ह्वार् मा यज्ञपतिर् ह्वार्षीत् । विष्णुस् त्वा क्रमताम् । उरु वाताय । अपहतꣳ रक्षः । यच्छन्तां पञ्च
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् । अग्नये जुष्टं गृह्णामि । अग्नीषोमाभ्यां जुष्टं गृह्णामि
भूताय त्वा नारातये । स्वर् अभिवि ख्येषम् । दृꣳहन्तां दुर्याः पृथिव्याम् । उर्व् अन्तरिक्षम् अन्व् एमि । पृथिव्यास् त्वा नाभौ सादयाम्य् अदित्या ऽउपस्थेऽ ग्ने हव्यꣳ रक्ष
पवित्रे स्थो वैष्णव्यौ । सवितुर् वः प्रसव उत् पुनाम्य् अच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः । देवीर् आपो अग्रेगुवोऽ अग्रेपुवोऽग्र इमम् अद्य यज्ञं नयताग्रे यज्ञपतिꣳ सुधातुं यज्ञपतिं देवयुवम्
युष्मा ऽ इन्द्रोऽवृणीत वृत्रतूर्ये यूयम् इन्द्रम् अवृणीध्वं वृत्रतूर्ये । प्रोक्षिता स्थ । अग्नये त्वा जुष्टं प्रोक्षामि । अग्नीषोमाभ्यां त्वा जुष्टं प्रोक्षामि । दैव्याय कर्मणे शुन्धध्वं देवयज्यायै यद् वोऽशुद्धाः पराजघ्नुर् इदं वस् तच् छुन्धामि
शर्मासि । अवधूतꣳ रक्षोऽवधूता ऽ अरातयः । ऽअदित्यास् त्वग् असि प्रति त्वादितिर् वेत्तु । अद्रिर् असि वानस्पत्यः । ग्रावासि पृथुबुध्नः प्रति त्वादित्यास् त्वग् वेत्तु
अग्नेस् तनूर् असि वाचो विसर्जनं देववीतये त्वा गृह्णामि । बृहद्ग्रावासि वानस्पत्यः । सऽइदं देवेभ्यो हविः शमीष्व सुशमि शमीष्व । हविष्कृद् एहि हविष्कृद् एहि हविष्कृद् एहि
कुक्कुटोऽसि मधुजिह्वऽइषमूर्जम् आ वद त्वया वयꣳ संघातꣳ-संघातं जेष्म । वर्षवृद्धम् असि । प्रति त्वा वर्षवृद्धं वेत्तु । परापूतꣳ रक्षः परापूता अरातयः । ऽअपहतꣳ रक्षः । वायुर् वो वि विनक्तु । देवो वः सविता हिरण्यपाणिः प्रति गृभ्णात्व् अच्छिद्रेण पाणिना
धृष्टिर् असि । अपाऽग्ने ऽ अग्निम् आमादं जहि निष् क्रव्यादꣳ सेध । आ देवयजं वह । ध्रुवम् असि पृथिवीं दृꣳह ब्रह्मवनि त्वा क्षत्रवनि सजातवन्य् उप दधामि भ्रातृव्यस्य वधाय
अग्ने ब्रह्म गृभ्णीष्व । धरुणम् अस्य् अन्तरिक्षं दृꣳह ब्रह्मवनि त्वा क्षत्रवनि सजातवन्य् उप दधामि भ्रातृव्यस्य वधाय । धर्त्रम् असि दिवं दृꣳह ब्रह्मवनि त्वा क्षत्रवनि सजातवन्य् उप दधामि भ्रातृव्यस्य वधाय । विश्वाभ्यस् त्वाशाभ्यऽ उप दधामि । चित स्थोर्ध्वचितः । भृगूणाम् अङ्गिरसां तपसा तप्यध्वम्
शर्मासि । अवधूतꣳ रक्षोऽवधूता ऽ अरातयः । ऽअदित्यास् त्वग् असि प्रति त्वादितिर् वेत्तु । धिषणासि पर्वती प्रति त्वादित्यास् त्वग् वेत्तु । दिव स्कम्भनीर् असि । धिषणासि पार्वतेयी प्रति त्वा पर्वती वेत्तु
धान्यम् असि धिनुहि देवान् । प्राणाय त्वा । उदानाय त्वा । व्यानाय त्वा । दीर्घाम् अनु प्रसितिम् आयुषे धां देवो वः सविता हिरण्यपाणिः प्रति गृभ्णात्व् अच्छिद्रेण पाणिना । चक्षुषे त्वा । महीनां पयोऽसि
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् । सं वपामि । सम् आपऽओषधीभिः सम् ओषधयो रसेन । सꣳ रेवतीर् जगतीभिः पृच्यन्ताꣳ सं मधुमतीर् मधुमतीभिः पृच्यन्ताम्
जनयत्यै त्वा सं यौमि । इदम् अग्नेः । इदम् अग्नीषोमयोः । इषे त्वा । घर्मोऽसि विश्वायुः । उरुप्रथाऽ उरु प्रथस्वोरु ते यज्ञपतिः प्रथताम् । अग्निष्टे त्वचं मा हिꣳसीत् । देवस् त्वा सविता श्रपयतु वर्षिष्ठेऽधि नाके
मा भेर् मा संविक्थाः । ऽ अतमेरुर् यज्ञो ऽतमेरुर् यजमानस्य प्रजा भूयात् । त्रिताय त्वा । द्विताय त्वा । एकताय त्वा
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् । आ ददे ऽध्वरकृतं देवेभ्यः । ऽइन्द्रस्य बाहुर् असि दक्षिणः सहस्रभृष्टिः शततेजा वायुर् असि तिग्मतेजा द्विषतो वधः
पृथिवि देवयजन्य् ओषध्यास् ते मूलं मा हिꣳसिषम् । व्रजं गच्छ गोष्ठानम् । वर्षतु ते द्यौः । बधान देव सवितः परमस्यां पृथिव्याꣳ शतेन पाशैर् यो स्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अतो मा मौक्
अपाररुं पृथिव्यै देवयजनाद् वध्यासम् । व्रजं गच्छ गोष्ठानम् । वर्षतु ते द्यौः । बधान देव सवितः परमस्यां पृथिव्या शतेन पाशैर् योऽस्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अतो मा मौक् । अररो दिवं मा पप्तः । द्रप्सस् ते द्यां मा स्कन् । व्रजं गच्छ गोष्ठानम् । वर्षतु ते द्यौः । बधान देव सवितः परमस्यां पृथिव्याꣳ शतेन पाशैर् योऽस्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अतो मा मौक्
गायत्रेण त्वा छन्दसा परि गृह्णामि । त्रैष्टुभेन त्वा छन्दसा परि गृह्णामि । जागतेन त्वा छन्दसा परि गृह्णामि । सुक्ष्मा चासि शिवा चासि । स्योना चासि सुषदा चासि । ऊर्जस्वती चासि पयस्वती च
पुरा क्रूरस्य विसृपो विरप्शिन्न् उदादाय पृथिवीं जीवदानुम् । याम् ऐरयꣳश् चन्द्रमसि स्वधाभिस् ताम् उ धीरासो ऽअनुदिश्य यजन्ते । प्रोक्षणीर् आ सादय । द्विषतो वधोऽ सि
प्रत्युष्टꣳ रक्षः प्रत्युष्टा ऽअरातयः । निष्टप्तꣳ रक्षो निष्टप्ता ऽ अरातयः । अनिशितोऽ सि सपत्नक्षिद् वाजिनं त्वा वाजेध्यायै सं मार्ज्मि । प्रत्युष्टꣳ रक्षः प्रत्युष्टाऽ अरातयः । निष्टप्तꣳ रक्षो निष्टप्ताऽ अरातयः । अनिशिताऽसि सपत्नक्षिद् वाजिनीं त्वा वाजेध्यायै सं मार्ज्मि
अदित्यै रास्नासि । विष्णोर् वेष्यो सि । ऊर्जे त्वा । ऽअदब्धेन त्वा चक्षुषाव पश्यामि । अग्नेर् जिह्वासि सुहूर् देवेभ्यो धाम्ने-धाम्ने मे भव यजुषे-यजुषे